Skip to main content
Search
KS
Kumārasambhavam • Chapter 05

Canto 5

पञ्चमः सर्गः

Canto 5 of Kumārasambhavam.

Total: 86 Verses • Citations: KS 5.1–86 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
KS 5.31 वंशस्थम्
तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति । अतिथिषु साध्व्यातिथेयी । `पथ्यतिथी-` त्यादिना ढञ्प्रत्ययः । `टिढ्ढाणञि`-त्यादिना ङीप् । पार्वती तं ब्रह्मचारिणं बहुमानपूर्वया । बहुमानः पूर्वो यस्यास्तया । गौरवपूर्वयेत्यर्थः । सपर्ययार्चया `सपर्यार्चार्हणाः समाः` इत्यमरः (अ.को.2|7|37) । प्रत्युदियाय प्रत्युज्जगाम । कथं समानेऽपि तस्यास्तदृशी प्रतिपत्तिरत आह-साम्ये सत्यपि निविष्टचेतसां स्थरचित्तानां वपुर्विशेषेषु व्यक्तिविशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवसहिताः क्रियाश्चेष्टा भवन्ति । प्रवर्तन्त । इत्यर्थः । साधवो न साम्याभिनिवेशिन इति भावः अन्वयः: आतिथेयी पार्वती तं बहुमानपूर्वया सपर्यया प्रत्युदियाय । सम्येऽपे निविष्टचेतसां वपुर्विशेषेपु अति गौरवाः क्रिया भवन्ति ।
KS 5.32 वंशस्थम्
विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्न् ऋजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विधीति । स ब्रह्मचारी विधिना प्रयुक्तामनुष्ठितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं च विश्रामं च विनीय नामेत्यपरमार्थे । अथोमामृजुनैव विलासरहितेनैव चक्षुषा पश्यन्ननुज्झितक्रमोऽत्यक्तोचितपरिपाटीकः सन् । वक्तुं प्रचक्रमे प्रारेभे अन्वयः: स विधिप्रयुक्तां सत्क्रियां परिगृह्य क्षणं परिश्रमं च विनीय नाम उमाम् ऋजुना एव चक्षुषा पश्यन् अनुज्झितक्रमः (सन्) वक्तुं प्रचक्रमे ।
KS 5.33 वंशस्थम्
अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अपीति । अत्रापिशब्दः प्रश्ने । क्रियार्थ होमादिकर्मनुष्ठानार्थम् । समिधश्च कुशाश्च समित्कुशम् । `जातिरप्राणिनाम्` (पा.2|4|6) इति द्वन्द्वैकवद्भावः । सुलभमपि सुलभं कच्चित् । जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्यान्यपि कच्चित् । किञ्च स्वशक्त्या निजसामर्थ्यानुसारेण तपसि प्रवर्तसेऽपि । देहमपीडयित्वा तपश्चरसि कच्चिदित्यर्थः । युक्तं च नामैतत् । खलु यस्माच्छरीमाद्यं धर्मसाधनम् । धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहिभिः साध्यते तेषु च वपुरेव मुख्यं साधनम् । सति देहे धर्मार्थकाममोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते । अतएव `सततमात्मानमेव गोपायीत` इति श्रुतिः अन्वयः: (हे पार्वति !) क्रियाऽर्थं समित्कुशं सुलभम् अपि ? जलानि ते स्नानविधिक्षमाणि अपि ? स्वशक्त्या तपसि प्रवर्तसे अपि ? शरीरम् आद्यं धर्मसाधनम् खलु ।
KS 5.34 वंशस्थम्
अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अपीति । त्वयावर्जितेन सिक्तेन वारिणा संभृतं जनितमासां वीरुधां लतानां प्रवाल पल्लवमनुबन्ध्यप्यनुस्यूतं किम् । यत्प्रवालं चिरोज्झितश्चिरकालत्यक्तो लाक्षारागो येन तत्तथापि पाटलम् । स्वभावरक्तमित्यर्थः । तेन चिरोज्झितालक्तकपाटलेन ते तव दन्तवाससाधरेण । `ओष्ठाधरौ तु रदनच्छदौ दशनवाससी` इत्यमरः (अ.को.2|6|91) । तुलां साम्यमारोहति । गच्छतीत्यर्थः । अत्र तुलाशब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि `तुल्यार्थैरतुलोपमाभ्यामि`- ति न तृतीयाप्रतिषेधस्तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति अन्वयः: (हे पार्वति !) त्वदावर्जितवारिसंभृतम् आसां वीरुधां प्रवालम् अनुबन्धि अपि ? यत् चिरोज्झिताऽलक्तकपाटलेन ते दन्तवाससा तुलाम् आरोहति ।
KS 5.35 वंशस्थम्
अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । य उत्पलाक्षि प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अपीति । करस्थान्दर्भान्प्रणयेन स्नेहेनापहरन्तीति ते तथोक्तेषु । सापराधेष्विति भावः । `करस्थदर्भप्रणयापराधिषु` इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु हरिणेषु विषये ते मनः प्रसन्नमपि ? न क्षुभितं किम् । सापराधेध्वपि न कोपितव्यं तपस्विभिरिति भावः । हे उत्पलाक्षि, ये हरिणाः प्रचलैश्चञ्चलैर्विलोचनैर्नेत्रैस्तवाक्षिसादृश्यं प्रयुञ्जत इवाभिनयन्तीव । प्रसन्नत्वान्मृगनेत्राणि त्वन्नयनैः साम्यमुपयान्तीति भावः । `उत्पलक्षेपचलैः` इति पाठान्तर उत्पलकम्पचलैः । भावानयने द्रव्यानयनमिति न्यानेन क्षिप्यमाणोत्पलचलैरित्यर्थः अन्वयः: (हे पार्वति !) करस्थदर्भप्रणयाऽपहारिषु हरिणेषु ते मनः प्रसन्नम् अपि ? हे उत्पलाक्षि ! ये प्रचलैः विलोचनैः तव अक्षिसादृश्यं प्रयुञ्जते इव ।
KS 5.36 वंशस्थम्
यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । तथा हि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यदिति । हे पार्वति ! रुपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते । लोकैरिति शेषः । तद्वचो न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् । `यत्राकृतिस्तत्र गुणाः` `न सुरुपाः पापसमाचारा भवन्ति` इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः । किमिति ज्ञायते-तथाहि । हे उदारदर्शने आयताक्षि ! सुरूपे इत्यर्थः । अथवोन्नतज्ञाने । विवेकवतीत्यर्थः । ते तव शीलं सद्वृत्तम् । `शीलं स्वभावे सद्वृत्ते` इत्यमरः (अ.को.3|3|209) । तपस्विनामप्युपदिश्यतेऽनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम् । मुनयोऽपि, त्वां वीक्ष्य स्ववृत्तै प्रवर्तन्त इति भावः अन्वयः: हे पार्वति ! `रुपं पापवृत्तये न` इति यत् उच्यते, तद् वचः अव्यभिचारि । तथाहि हे उदारदर्शने ! ते शीलं तपस्विनाम् अपि उपदेशतां गतम् ।
KS 5.37 वंशस्थम्
विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्च्युतैः । यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विकीर्णेति । एष महीधरो हिमवान् । सप्त च ते ऋषयश्च सप्तर्षयः । `दिक्संख्ये संज्ञायाम्` (पा.2|1|50) इति समासः । विकीर्णैः पर्यस्तैः सप्तर्षीणां सम्बन्धिभिर्वलिभिः पुष्पोपहारैः प्रहसन्ति यानि तथोक्तैर्दिवोऽन्तरिक्षाच्च्युतैर्गाङ्गैः सलिलैस्तथा न पावितः । अनाविलैरकलुषैस्त्वदीयैश्चरितैर्यथा सान्वयः सपुत्रपौत्रः पावितः पवित्रीकृतः अन्वयः: एष महीधरो यथा अनाविलैः त्वदीयैः चरितैः साऽन्वयः पावितस्तथा विकीर्णसप्तर्षिबलिप्रहासिभिः दिवः च्युतैः गाङ्गैः सलिलैः न पावितः ।
KS 5.38 वंशस्थम्
अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि । त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति । हे भाविनि प्रशास्ताभिप्राये ! अनेन कारणेन धर्मः सविशेषं सातिशयमद्य मे । त्रयाणां धर्मकामार्थानां वर्गस्त्रिवर्गः) । `त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समीक्षकैः` इत्यमरः । तत्र सारः श्रेष्ठः प्रतिभाति । यद्यस्मात्कारणान्मनसो निर्विषयावर्थकामौ यस्यास्तया त्वयैको धर्म एव प्रतिगृह्य स्वीकृत्य सेव्यते। यत्त्वयार्थकामौ विहाय धर्म एवावलम्बितः, अतः सर्वेषां नः स श्रेयानिति प्रतिपद्यत इत्यर्थः अन्वयः: हे भाविनि ! यत् मनोनिर्विषयाऽर्थकामया त्वया एको धर्म एव प्रतिगृह्य सेव्यते, अनेन अद्य मे धर्मः सविशेषं त्रिवर्गसारः प्रतिभाति ।
KS 5.39 वंशस्थम्
प्रयुक्तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि । यतः सतां संनतगात्रि संगतं मनीषिभिः साप्तपदीनमुच्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रयुक्तेति । आत्मना त्वया प्रयुक्तः कृतः सत्कारविशेषः पूजातिशयो यस्य तं मां परमन्यं संप्रतिपत्तुमवगन्तुं नार्हसि । हे संनतगात्रि संनताङ्गि ! `अङ्गगात्रकण्ठेभ्यः` इति वक्तव्यान्ङीप् । यतः कारणान्मनस ईषिभिर्मनीषिभिर्विद्वद्भिः । शकन्ध्वादित्वात्साधुः । सतां संगतं सख्यं सप्तभिः पदैरापद्यत इति साप्तपदीनं सप्तपदोच्चारणसाध्यमुच्यते । ततश्चावयोस्त्वत्कृतसत्कारप्रयोगादेव सिद्धमित्यर्थः । `साप्तदीनं सख्यम्` इति निपातनात्साधु अन्वयः: हे सन्नतगात्रि ! यतो मनीषिभिः सतां सङ्गतं साप्तपदीनम् उच्यते, (अतः) आत्मना प्रयुक्तसत्कारविशेषं मां परं संप्रतिपत्तुं न अर्हसि ।
KS 5.40 वंशस्थम्
अतोऽत्र किंचिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः । अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अत इति । हे तपोधने ! अतः सख्याद्धेतोरत्र बहुक्षमाम् । बहूक्तिसहाम् यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद् ब्राह्मणत्वादुपपन्नचापलः सुलभधार्ष्ट्योऽयं जनः । स्वयमित्यर्थः । किंचित्प्रष्टुं मनो यस्य स किञ्चित्प्रष्टुमनाः प्रष्टुकामः । `तुं काममनसोरपी` ति मकारलोपः । रहसि भवं रहस्यं गोप्यं न चेत्प्रतिवक्तुमर्हसि अन्वयः: हे तपोधने ! अतः अत्र बहुक्षमां भवतीं द्विजातिभावात् उपपन्नचापलः अयं जनः किञ्चित् प्रष्टुमनाः; रहस्यं न चेत् प्रतिवक्तुम् अर्हसि ।
KS 5.41 वंशस्थम्
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वयस्तपःफलं स्यात्किमतः परं वद ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुल इति । प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । `यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः` इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् ऐश्वर्यसुखं संपत्सुखममृग्यमन्वेषणीयं न भवति । किन्तु सिद्धमेवेत्यर्थः । वयो नवम् । यौवनमित्यर्थः । अतः परमतोऽन्यत्किं तपःफलं स्याद्वद । अस्ति चेदिति शेषः । किञ्चिदस्तीत्यर्थः अन्वयः: प्रथमस्य वेधसः कुले प्रसूतिः, वपुः त्रिलोकसौन्दर्यम् इव उदितम्, ऐश्वर्यसुखम् अमृग्यं, नवं वयः, अतः परं किं तपः फलं ? वद ।
KS 5.42 वंशस्थम्
भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भवतीति ॥ दुःसहात्सोढुमशक्यादनिष्टाद्भर्त्रादिकृतादपि मनस्विनीनां धीरस्त्रीणामीदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । `प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये` इति केशवः । भवति नाम । नामेति सम्भावनायाम् । विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टं च । हे कृशोदरि ! त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसम्भावितत्वादित्यर्थः अन्वयः: दुःसहात् अनिष्टात् अपि मनस्विनीनाम् ईदृशी प्रतिपत्तिः भवति नाम । हे कृशोदरि ! विचारमार्गप्रहितेन चेतसा तच्च त्वयि न दृश्यते ।
KS 5.43 वंशस्थम्
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अलभ्येति । हे सुभ्रु ! इयं त्वदीयाकृतिर्मूर्तिरलभ्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता । दृश्यत इति शेषः । असम्भावितश्चायमर्थ इत्याह-पितुर्गृहे विमाननावमानः कुतः । न सम्भाव्यत एवेत्यर्थः । `सुभ्रु ! कुतस्तातगृहेऽवमाननम्` इति पाठान्तरकरणं तु साध्वसमेवोक्तोपपत्तिसम्भवात् । अन्यत्रापि `सुभ्रु ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्` । इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः । न चान्यस्माद्भावीत्याह-पराभिमर्शः परघर्षणं तु तव नास्ति । पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । `क्रियार्थोपददस्य च कर्मणि स्थानिनः` इति चतुर्थी । करं हस्तं कः प्रसारयेत् `सुभ्रु` इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् `नेयङुवङ्स्थानावस्त्री` (पा.1|4|4) इति नदीसंज्ञाप्रतिषेधात्, `अम्बार्थनद्योर्ह्रस्वः` इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु `अप्राणिजातेश्चारज्ज्वादीनाम्` इत्यत्र `अलाबूः` `कर्कन्धूः` इत्युकारन्तस्याप्यूङ्प्रत्ययमुदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात्क्वचिदूकारन्तस्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्वमित्याहुः । अतएवाह वामनः- `ऊकारादप्यूङ्प्रकृतेः` इति अन्वयः: हे सुभ्रु ! इयम् आकृतिः अलभ्यशोकाऽभिभवा । पितुः गृहे विमानना कुतः ? पराऽभिमर्शः तव न अस्ति, पन्नगरत्नसूचये कः करं प्रसारयेत् ?
KS 5.44 वंशस्थम्
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): किमितीति । हे गौरि ! किमिति केन हेतुना यौवने त्वयाभरणान्यपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद् वुञ्प्रत्ययः । `वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि` । इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रदोषे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिररुणाय सूर्याय कल्पते यद्यरुणं गन्तुं कल्पते किम् । वद ब्रूहि । `क्रियार्थोपपदस्ये-` त्यादिना चतुर्थी । दीप्यमानशशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं संघटत इति भावः अन्वयः: (हे गौरि !) किमिति यौवने त्वया आभरणानि अपास्य वार्धकशोभि वल्कलं धृतम् ? प्रदोषे स्फुटचन्द्रतारका विभावरी अरुणाय कल्पते यदि ? वद ।
KS 5.45 वंशस्थम्
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दिवमिति ॥ दिवं स्वर्गं प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे ततः श्रमं मा कार्षीः । तव पितुर्हिमवतः प्रदेशा देवभूमयः स्वर्गपदार्थाः इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे तर्हि समाधिना तपसालम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथाहि । रत्नं कर्तृ । नान्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किंतु तद्रत्नं मृग्यते ग्रहीतृभिरिति शेषः । न हि वरार्थं त्वया तपसि वर्तितव्यं किंतु तेनैव त्वदर्थमिति भावः अन्वयः: दिवं प्रार्थयसे यदि (तर्हि) श्रमो वृथा । तव पितुः प्रदेशा देवभूमयः । अथ उपयन्तारं प्रार्थयसे यदि (तर्हि) समाधिना अलम् । हि रत्नं न अन्विष्यति तत् मृग्यते ।
KS 5.46 वंशस्थम्
निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निवेदितमिति ॥ सोष्मणा निश्वसितेन निश्वासवायुना निवेदितम् । चिन्तानुभावेनोष्णौच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसनेनेत्याह-मनस्तु तथापि मे संशयमेव गाहते प्राप्नोति । कुतः ? ते तव । `कृत्यानां कर्तरि वा` (पा.2|3|71) इति षष्ठी । प्रार्थयितव्यः प्रार्थयितुमर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभः स कथं भविष्यति ? नास्त्येवेत्यर्थः अन्वयः: सोष्मणा निःश्वसितेन निवेदितं, मे मनस्तु संशयम् एव गाहते, ते प्रार्थयितव्य एव न दृश्यते, प्रार्थितदुर्लभः कथं भविष्यति ?
KS 5.47 वंशस्थम्
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अहो इति । अहो चित्रम् । तवेप्सित आप्तुमिष्टो युवा कोऽपि स्थिरः कठिनः । वर्तत इति शेषः । कुतः । यो युवा चिराय चिरात्प्रभृति कर्णोत्पलशून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथिलबन्धना अत एव लम्बिन्यस्ताः श्लथलम्बिनीः कलमाः शालिविशेषास्तेषामग्राणि तद्वत्पिङ्गला जटा उपेक्षते यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः अन्वयः: अहो! तव ईप्सितो युवा कोऽपि स्थिरः । यः चिराय कर्णोत्पलशून्यतां गते (तव) कपोलदेशे श्लथलम्बिनीः कलमाऽग्रपिङ्गला जटा उपेक्षते ।
KS 5.48 वंशस्थम्
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मुनिव्रतैरिति । मुनिव्रतैश्चान्द्रायणादिभिरतिमात्रमत्यन्तं कर्शितां कृशीकृतां दिवाकरेण सूर्येणाप्लुष्टानि दग्धानि वातातपसंस्पर्शात्मृदुत्वाच्च श्यामीकृतानि विभूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवाहनि शशाङ्करेखामिव स्थितां त्वां पश्यतः सचेतसो जीवतः कस्य पुंसो मनो न दूयते न परितप्यते । अपि तु सर्वस्यैवेत्यर्थः अन्वयः: मुनिव्रतैः अतिमात्रकर्शितां दिवाकरप्लुष्टविभूषणास्पदाम् (अत एव) दिवा शशाङ्कलेखाम् इव त्वां पश्यतः कस्य मनो न दूयते ?
KS 5.49 वंशस्थम्
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवैमीति । तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण कर्त्रा । वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियश्चतुरं मधुरमवलोकत इति चतुरावलोकिनोऽरालपक्ष्मणः कुटिलरोम्णः । `अरालं वृजिनं जिह्मम्` इत्यमरः (अ.को.3|1|70) । अस्य त्वदीयस्य चक्षुष आत्मीयं वक्त्रं मुखं चिरं लक्ष्यं विषयं न करोति दृष्टिपथं न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः अन्वयः: (हे पार्वति !) तव प्रियं सौभाग्यमदेन वञ्चितम् अवैमि, यः चतुराऽवलोकिनः अरालपक्ष्मणः अस्य चक्षुषः आत्मीयं वक्त्रं चिरं ल्क्ष्यं न करोति ।
KS 5.50 वंशस्थम्
कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः । तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कियदिति ॥ हे गौरि, कियत्किंप्रमाणकम् । किमवधिकमित्यर्थः । चिरं श्राम्यसि तपस्यसि । अत्यन्तसंयोगे द्वितीया । ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपो विद्यते अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदेशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्यग्वेदितुं ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति तदा संमतिरिति भावः अन्वयः: हे गौरि ! कियत् चिरं श्राम्यसि । मम अपि पूर्वाश्रमसञ्चितं तपो विद्यते । तदर्द्धभागेन काङ्क्षितं वरं लभस्व । तं साधु वेदितुम् इच्छामि ।
KS 5.51 वंशस्थम्
इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति । इतीत्थं द्विजन्मना द्विजेन प्रविश्यान्तर्गत्वा । आप्तवद्रहस्यमुद्भाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् । लज्जयेति शेषः । अथोऽनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्कर्मणि तत्तथैक्षत नेत्रसंज्ञयैव प्रत्युत्तरं वाचयांचकारेत्यर्थः अन्वयः: इति द्विजन्मना प्रविश्य अभिहिता सा मनोगतं, शंसितुं न शशाक । अथो परिपार्श्ववर्तिनीं वयस्यां विवर्तितानञ्जननेत्रम् ऐक्षत ।
KS 5.52 वंशस्थम्
सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्यातम् । `वर्णः प्रशस्तः` इति क्षीरस्वामी । सोऽस्यास्तीति वर्णी तं ब्रह्मचारिणम् । `वर्णाद्ब्रह्मचारिणि` (पा.5|2|134) इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साधो विद्वन् ! तव कुतूहलं चेत् । श्रोतुमस्तीति शेषः । तर्हि निबोधावगच्छ । आकर्णयेत्यर्थः । `बुध अवगमने` इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह-यस्मै लाभायेदं यदर्थम् । `अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोजं पद्ममुष्णवारणमातपत्रमिव वपुः शरीरं तपःसाधनं कृतम् । तपःप्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः अन्वयः: तदीया सखी तं वर्णिनम् उवाच-हे साधो ! तव कुतूहलं चेत् निबोध । यदर्थम् एतया अम्भोजम् उष्णवारणम् इव वपुः तपःसाधनं कृतम् ।
KS 5.53 वंशस्थम्
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इयमिति । मानिनीन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्यभिमानवतीयं पार्वत्यधिश्रियोऽधिकैश्वर्यान्महेन्द्रप्रभृतीनिन्द्रादींश्चतसृणां दिशामीशानिन्द्रयमवरुणकुबेरान् । `तद्धितार्थे-` त्यादिनोत्तरपदसमासः । अवमत्यवधूय मदनस्य निग्रहान्निबर्हणाद्धेतोः । अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हार्यो वशीकरणीयो न भवतीत्यरुपहार्यं पिनाकः पाणौ यस्य तं पिनाकपाणिं हरम् । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः` इति साधु । पतिं भर्तारमाप्तुमिच्छति । एतेन संकल्पावस्था सूचिता अन्वयः: मानिनी इयम् अधिश्रियः महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य मदनस्य विग्रहात् अरूपहार्यं पिनाकपाणिं पतिम् आप्तुम् इच्छति ।
KS 5.54 वंशस्थम्
असह्यहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमां हृदि व्यायतपातमक्षणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असह्येति । पुरा पूर्वमसह्येन सोढुमशक्येन हुङ्कारेण रौद्रेण निवर्तितः । अतएव पुरारिं हरमप्राप्तमुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्पधन्वनः कामस्य शिलीमुखो बाण इमां पार्वतीं हृदि व्यायतः । सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन्कर्मणि तत्तथाक्षिणोदकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । `मृदुः सर्वत्र बाध्यते` इति भावः । अनेन `विवृण्वती शैलसुतापि भावम्` (३/६८) इत्यत्रोक्तं चक्षुः प्रीतिमनः- सङ्गाख्यमवस्थाद्वयमनन्तरावस्थोपयोगितयानूद्य कार्श्यवस्था सूचिता अन्वयः: पुरा असह्यहुङ्कारनिवर्तितः पुराऽरिम् अप्रप्तमुखः विशीर्णमूर्ते अपि पुष्पधन्वनः शिलीमुखः इमां हृदि व्यायतपातम् अक्षिणोत्।
KS 5.55 वंशस्थम्
तदाप्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदेति । तदेति छेदः । तदा प्रभृति । तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा । प्रभृतियोगे पञ्चमीनियमात् । पितुर्गृह उन्मदनोत्कटमन्मथा ललाटस्थालंकारो ललाटिका तिलकः । `कर्णललाटत्कनलंकारे` इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरंवर्णा अलकाश्चूर्णकुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि तुषारसंघातास्तुषारघनास्त एव शिलास्तासां तलेषूपरिभागेष्वपि निर्वृतिं सुखं न लभते स्म । एतेनारत्यपरसंज्ञा विषयविद्वेषावस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते अन्वयः: तदा प्रभृति पितुः गुहे उन्मदना ललाटिकाचन्दनधूसराऽलका बाला तुषारसङ्घातशिलातलेषु अपि जातु निर्वृतिं न लभते ।
KS 5.56 वंशस्थम्
उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् । अनेकशः किन्नरराजकन्यका वनान्तसंगीतसखीररोदयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उपातेति । पिनाकिनः शंभोश्चरिते त्रिपुरविजयादिचेष्टित उपात्तवर्णेप्रारब्धगीतक्रमे । `गीतक्रमेस्तुतौ वेदे वर्णशब्दः प्रयुज्यते` । इति हलायुधः । सबाष्पे गद्गदे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिङन्तरुपैः करणैः वनान्ते संगीतेन निमित्तेन सखीर्वयस्याः । किन्नरराजकन्यका अनेकशो बहुशोऽरोदयदश्रुमोक्षमकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्यकिंनर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलनलक्षणकार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्च्छावस्थाप्रादुर्भावो व्यज्यतेऽन्यथा सखीरोदनानुपपतेरिति । द्वादशावस्थापक्षे तु प्रलापावस्था च व्यज्यते । `प्रलापो गुणकीर्तनम्` इत्यालंकारिकाः अन्वयः: इयं पिनाकिनः चरिते उपात्तवर्णे सबाष्पकण्ठस्खलितैः पदैः वनाऽन्तसङ्गीतसखीः किन्नरराजकन्यकाः अनेकशः अरोदयत् ।
KS 5.57 वंशस्थम्
त्रिभागशेषासु निशासु च क्षणम्निमील्य नेत्रे सहसा व्यबुध्यत । क्व नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त्रिभागेति । किंचेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्यः शेषास्वशिष्टासु । यद्वा रात्रेस्त्रियामत्वेन प्रसिद्धत्वात्तृतीयो भागास्त्रिभागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा `शतांशः` `सहस्रांशः` इति । त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेत्रे निमील्य मीलयित्वा सहसा सद्यः । हे नीलकण्ठ ! क्व व्हजसि कुत्र गच्छसीत्यलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता तथासत्ये मिथ्याभूते कण्ठेऽर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचितौ अन्वयः: त्रिभागशेषासु निशासु क्षणं नेत्रे निमील्य सहसा `हे नीलकण्ठ ! क्व व्रजसि` इति अलक्ष्यवाक् असत्यकण्ठाऽर्पितबाहुबन्धना (सती) व्यबुध्यत ।
KS 5.58 वंशस्थम्
यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं जनं कथम् । इति स्वहस्ताल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यदेति । यदा यत इत्यर्थः । यदेति हेतावित्युक्त्वा गणव्याख्यानेऽस्योदाहृतत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्युच्यसे । तत इत्यध्याहारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् । त्वय्यनुरागिणमित्यर्थः । इमं जनम् । इममित्यात्मनिर्देशः । कथं न वेत्सि न जानासीति मुग्धया मूढया अकिंचित्करश्चित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तया स्वहस्तेनोल्लिखितश्चित्रे लिखितश्चन्द्रशेखरो रहस्येकान्ते । सखीमात्रसमक्षमित्यर्थः । उपालभ्यत साधिक्षेपमुक्तश्च । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीसमक्षकरणाल्लज्जत्यगो व्यज्यत एव अन्वयः: `यदा त्वं बुधैः सर्वगत उच्यसे, ततः भावस्थम् इमं जनं कथं न वेत्सि ?` इति मुग्धया स्वहस्तोल्लिखितः चन्द्रशेखरो रहसि उपालभ्यत ।
KS 5.59 वंशस्थम्
यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती । तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यदेति । जगत्पतेस्तस्येश्वरस्याधिगमे प्राप्तावन्यं विधिमुपायं विचिन्वती मृगयमाणा यदा नापश्यत्तदेयं पार्वती गुरोः पितुरनुज्ञयास्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता अन्वयः: जगत्पतेः तस्य अधिगमे अन्यं विधिं विचिन्वती (पार्वती) यदा न अपश्यत् , तदा इयं गुरोः अनुज्ञया अस्माभिः सह तपसे तपोवनं प्रपन्ना ।
KS 5.60 वंशस्थम्
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): द्रुमेष्विति । सख्या पार्वत्या स्वयं कृतं जन्म येषां तेषु । स्वयं रोपितेष्वित्यर्थः । तपसः साक्षिषु साक्षाद्रष्टृष्वेषु द्रुमेष्वपि फलं दृष्टम् लब्धम् । जनितमित्यर्थः । अस्याः पार्वत्याः शशिमौलिसंश्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखोऽङकुरोन्मुखोऽपि न दृश्यते । `प्ररोहस्त्वङ्कुरोङ्कुरः` इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाङ्कुरोदयोऽप्यस्ति । फलाशा तु दूरापास्तेत्यर्थः अन्वयः: सख्या स्वयं कृतजन्मसु तपःसाक्षिषु एषु द्रुमेषु अपि फलं दृष्टम् । (परम्) अस्याः शशिमौलिसंश्रयो मनोरथश्च प्ररोहाऽभिमुखोऽपि न दृश्यते ।
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →