Skip to main content
Search
KS
Kumārasambhavam • Chapter 04

Canto 4

चतुर्थः सर्गः

Canto 4 of Kumārasambhavam.

Total: 46 Verses • Citations: KS 4.1–46 • 1 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
KS 4.1 वियोगिनी
अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता । विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथानन्तरं मोहो मूर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोहैकशरणा सती । `परायणमभिप्रेते तत्परे परमाश्रये` । इति यादवः । विवशा मूढत्वान्निश्चेष्टा कामवधू रतिः । असह्या दुःसहा वेदना यस्मिंस्तत्तथोक्तम् । विधवाया गतभर्तृकाया भावो वैधव्यम् । नवं च तद्वैधव्यं चेति नववैधव्यम् । नवग्रहणं दुःसहत्वद्योतनार्थम् । प्रतिपादयिष्यतानुभावयिष्यता । क्रियार्थक्रियायाम् लृट् । विधिना दैवेन । `विधिर्विधाने दैवे च` इत्यमरः (अ.को.3|3|107) । विबोधिता । वैधव्यानुफलोयं विधिरिति भावः । अस्मिंन्सर्गे वियोगिनीवृत्तानि- `विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी इति लक्षणात्` अन्वयः: अथ मोहपरायणा सती विवशा कामवधूः असह्यवेदनं नववैधव्यं प्रतिपादयिष्यता विधिना विबोधिता ।
KS 4.2 वियोगिनी
अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने । न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवेति । सा रतिः प्रलयान्ते मूर्च्छावसाने । `प्रलयो नष्टचेष्टता` इत्यमरः (अ.को.1|7|35) । उन्मिषिते उन्मीलिते विलोचने । अवधानं परं प्रधानं ययोस्तेऽवधानपरे दिदृक्षयावहिते चकार । द्रष्टव्याभावात्तु न विवेदेत्याह- नेति । प्रियं काममतृप्तयोस्तृप्तिं न गतयोः । नित्यदिदृक्षमाणयोरित्यर्थः । तयोर्लोचनयोः । दर्शनक्रियापेक्षया संबन्धे षष्ठी । अत्यन्तविलुप्तं दर्शनं स्वलोचनयोः करणयोर्यस्य कर्मभूतस्य तमत्यन्तविलुप्तदर्शनं सन्तं न विवेद न ज्ञातवती । प्रियनाशापरिज्ञानाद्दिदृक्षांचक्र इति तात्पर्यार्थः अन्वयः: सा प्रलयाऽन्तोन्मिषिते विलोचने अवधानपरे चकार । प्रियम् अतृप्तयोः तयोः अत्यन्तविलुप्तदर्शनं न विवेद ।
KS 4.3 वियोगिनी
अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अयीति । अयीति प्रश्ने । `अयि प्रश्नानुनययोः` इति विश्वः । अयि जीवितनाथ ! जीवसि कच्चिदित्यभिधायोत्थितया तया रत्या पुरोऽग्रे क्षितौ पुरुषस्याकृतिरिवाकृतिर्यस्य तत्पुरुषाकृति केवलमेकं हरकोपानलभस्य ददृशे दृष्टम् । न तु पुरुष इति भावः अन्वयः: `अयि जीवितनाथ ! जीवसि ?` इति अभिधाय उत्थितया तया पुरः क्षितौ केवलं हरकोपाऽनलभस्म ददृशे ।
KS 4.4 वियोगिनी
अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ भस्मदर्शनानन्तरं पुनरेव विह्वला विक्लवा वसुधालिङ्गनधूसरस्तनी वसुधालिङ्गनेन क्षितिलुण्ठनेन धूसरौ धूसरवर्णौ स्तनौ कुचौ यस्याः सा तथोक्ता । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` (पा.4|1|54) इति ङीष् । विकीर्णमूर्धजा विकीर्णा विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थलीं वनभूमिम् । तत्रत्यान्प्राणिन इत्यर्थः । `जानपदकुण्डगोणस्थले-` त्यादिना ङीष् । समदुःशां स्वतुल्यशोकां कुर्वतीव विललाप परिदेवितवती । `विलापः परिदेवनम्` इत्यमरः अन्वयः: अथ पुनरेव विह्वला वसुधाऽऽलिङ्गनधूसरस्तनी विकीर्णमूर्द्धजा सा स्थलीं समदुःखाम् कुर्वती इव विललाप ।
KS 4.5 वियोगिनी
उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया । तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उपेति । तव यत्करणं गात्रम् । `करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि` इत्यमरः (अ.को.3|3|61) । कान्तिमत्तया सौन्दर्येण हेतुना विलसनशीलानाम् । `वौ कषलसे-` त्यादिना घिनुण्प्रत्ययः । उपमीयते येन तदुपमानमभूत् । तत्करणमिदमीदृशीं दशामवस्थां गतम् । भस्मीभूतमित्यर्थः । तथापि न विदीर्ये न विदीर्णा भवामि । कर्तरि लट् । तथाहि । स्त्रियः कठिनाः खलु । कठिनत्वादविदीर्यमाणत्वमित्यर्थः । कारणात्कार्यसमर्थनरुपोऽर्थान्तरन्यासः । `धीरसंचारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता । स्मितपूर्वं तथालापो विलास इति कीर्तितः ॥` इति अन्वयः: (हे नाथ !) तव यत् करणं कान्तिमत्तया विलासिनाम् उपमानम् अभूत् । तत् इदम् ईदृशीं दशां गतम् । (तथाऽपि) न विदीर्ये, हि स्त्रियः कठिनाः खलु ।
KS 4.6 वियोगिनी
क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः । नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्वेति । हे प्रिय ! क्षतसेतुबन्धनो भग्नसेतुबन्धो जलसंघातो जलौघो नलिनीमिव । जलैकायत्तजीवितामिति शेषः । त्वदधीनजीवितां त्वदायत्तप्राणां मां क्वनु विनिकीर्य कुत्र वा निक्षिप्य क्षणभिन्नसौहृदः क्षणत्यक्तसौहार्दः सन् । विद्रुतः पलायितोऽसि । सेतुसौहृदयोः स्थितिहेतुत्वेन साम्यम् । सुहृदो भावः सौहृदम् । युवादित्वादण्प्रत्ययः । `हृदयस्य हृल्लेखयदण्लासेषु` (पा.6|3|50) इति हृदादेशः । अणि `हृद्भगसिन्ध्वन्ते पूर्वपदस्य च` (पा.7|3|19) इत्युभयपदवृद्धिः । हृद्भूतस्याण्विधाने तूभयपदवृद्धिः स्यात् । यथा सुहृदो भावः सोहार्दमिति । तदेवाह वामनः- `सौहृददौर्हृदशब्दावदनणि हृद्भावात्` इति अन्वयः: (हे प्रिय !) क्षतसेतुबन्धनो जलसंघातो नलिनीम् इव त्वदधीनजीवितां मां क्व नु विनिकीर्य क्षणभिन्नसौहृदः (सन्) विद्रुतः असि ?
KS 4.7 वियोगिनी
कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कृतेति । हे प्रिय, त्वं मे मम विप्रियमप्रियं कृतवान्नासि । मया च ते तव प्रतिकूलमप्रियं न कृतम् । अकारणं निष्कारणमेव । परस्परापकाररूपकारणाभावेऽपीत्यर्थः । क्रियाविशेषणमेतत् । विलपन्त्यै । त्वद्दर्शनार्थिन्या अपीति भावः । रतये किं कथं दर्शनं न दीयते । क्रियाग्रहणाच्चतुर्थी अन्वयः: (हे प्रिय !) (त्वम्) मे विप्रियं कृतवान् न असि, मया च ते प्रतिकूलं न कृतम् । अकारणम् एव विलपन्त्यै रतये किं दर्शनं न दीयते ।
KS 4.8 वियोगिनी
स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्मरसीति । हे स्मर ! गोत्रस्खलितेषु नामव्यत्यासेषु । `गोत्रं नाम्न्यचले कुले` इति विश्वः । मेखलागुणैर्बन्धनं स्मरस्युत स्मरसि वा । `विकल्पे किं किमुत च` इत्यमरः । च्युतकेशरैर्भ्रष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तान्यवतंसोत्पलताडनानि । सधूलिक्षेपताडनानीत्यर्थः । स्मरसि वा । अपकारस्मरणादिदमदर्शनमिति भावः अन्वयः: हे स्मर ! गोत्रस्खलितेषु मेखलागुणैः स्मरसि उत ? च्युतकेशरदूषितेक्षणानि अवतंसोत्पलताडनानि स्मरसि वा ?
KS 4.9 वियोगिनी
हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हृदय इति । हृदये वससीति स्मरवाक्यानुवादः । इत्येवं रुपं मत्प्रियं यदवोच उक्तवानसि । ब्रञो लुङि `वच उम्` (पा.7|4|20) इत्युमागमः । तत्कैतवमवैमि मिथ्येति मन्ये । इदं वचनमुपचापरपदं परस्य रञ्जनार्थं यदसत्यभाषणं स उपचारस्तस्य पदं स्थानम् । कैतवस्थानमिति यावत् । न चेत्त्वमनङ्गोऽशरीरः । कथं रतिरक्षताऽविनष्टा । आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः अन्वयः: (हे प्रिये !) त्वं मे `हृदये वससि` इति मत्प्रियं यत् अवोचः तत् कैतवम् अवैमि । इदम् उपचारपदं न चेत् त्वम् अनङ्गः, कथं रतिः अक्षता ?
KS 4.10 वियोगिनी
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव । विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परलोकेति । परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य । अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपत्स्ये । त्वामनुगमिष्यामीत्यर्थः । अतो मे नास्ति विचार इति भावः । किंतु विधिना दैवेनैष जनो लोको वञ्चितः प्रतारितः । देहिनां सुखं त्वदधीनं त्वय्यधीनं खलु । अधिशब्दस्य शौण्डादिकत्वात् `सप्तमी शौण्डैः` (पा.2|1|40) इति समासः । `अध्युत्तरपदात्` इति खप्रत्ययः । एवमन्यत्रापि सुखप्रदाभावे कुतः सुखमिति भावः अन्वयः: अहं परलोकनवप्रवासिनः तव पदवीं प्रतिपत्स्ये । विधिना एष जनो वञ्चितः, (यत्) देहिनां सुखं त्वदधीनं खलु ।
KS 4.11 वियोगिनी
रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय कामिनां प्रियास्त्वद् ऋते प्रापयितुं क ईश्वरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रजनीति । हे प्रिय ! रजनीतिमिरेणावगुण्ठित आवृते पुरमार्गे घनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना । `अन्यारादितरर्त-` इत्यादिना पञ्चमी । क ईश्वरः शक्तः । न कश्चिदित्यर्थः । न हि कामान्धनां भीतिरस्तीति भावः अन्वयः: हे प्रिय ! रजनीतिमिराऽवगुण्ठिते पुरमार्गे घनशब्दविक्लवाः प्रियाः कामिनां वसतिं प्रापयितुं त्वत् ऋते क ईश्वरः ?
KS 4.12 वियोगिनी
नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे-पदे । असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नयनानीति । अरुणानि नयनानि घूर्णयन्भ्रमयन् । तथा पदे पदे प्रतिपदम् । वीप्सायां द्विरुक्तिः । वचनानि स्खलयन्विपर्यासयन्प्रमदानां वारुणीमदो मद्यमदोऽधुना त्वय्यसति विडम्बनानुकृतिमात्रम् । मदनाभावे मदस्य निष्फलत्वादिति भावः । तथा च शिशुपालवधे- `तां मदो दयितसंगमभूषः` (१०/३३) इति अन्वयः: (हे प्रिय !) अरुणानि नयनानि घूर्णयन् पदे पदे वचनानि स्खलयन् प्रमदानां वारुणीमदः त्वयि असति विडम्बना ।
KS 4.13 वियोगिनी
अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः । बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवगम्येति । हे अनङ्ग अशरीर ! प्रियबन्धोः प्रियसखस्य तव वपुः शरीरं कथीकृतमकथा कथा संपद्यमानं कृतं शब्दमात्रावशिष्टमवगम्य ज्ञात्वा निष्फलोदयः । उद्दीप्याभावादुद्दीपनवैफल्यमिति भावः । निशाकरश्चन्द्रो बहुले कृष्णपक्षे गतेऽपि तनुतां कार्श्यं दुःखं यथा तथा कृच्छ्रान्मोक्ष्यति । वृद्धिरिति दुःखयिष्यत इत्यर्थः अन्वयः: हे अनङ्ग ! प्रियबन्धोः तव वपुः कथीकृतम् अवगम्य निष्फलोदयो निशाकरो बहुले गते अपि तनुतां दुःखं मोक्ष्यति ।
KS 4.14 वियोगिनी
हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः । वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हरितेति । हरितं चारुणं च । `वर्णो वर्णेन` (पा.2|1|69) इति तत्पुरुषः । हरितारुणं चारु बन्धनं वृन्तं पुङ्खश्च यस्य स तथोक्तः । कलेन मधुरेण पुंस्कोकिलशब्देन पुरुषकोकिलनादेन सूचितोऽनुमापितश्च । चूतवर्णकार्यंत्वात्कलशब्दस्येति भावः । नवचूतप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्वं गमिष्यति ? वद । अन्यस्य पुष्पबाणस्याभावादिति भावः अन्वयः: (हे कुसुमायुध !) हरिताऽरुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितो नवचूतप्रसवः सम्प्रति कस्य बाणतां गमिष्यति ? वद ।
KS 4.15 वियोगिनी
अलिपङ्क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता । विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदितीव माम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अलीति । त्वयानेकशो बहुशो धनुषः कार्मुकस्य गुणकृत्ये मौर्वीकार्ये गुणवत्कर्मणि च नियोजिताधिकृतेयमलिपङ्‌क्तिः करुणस्वनेर्दीनस्वनर्विरुतैः कूजितैर्गुरुशोकां दुर्भरदुःखाम् । `गुरुस्तु गोष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे` । इति शब्दार्णवः । मामनुरोदितीव उपसर्गात्सकर्मकत्वम् । `रुदादिभ्यः सार्वधातुके` (पा.7|2|76) इतीडागमः अन्वयः: (हे प्रिय !) त्वया अनेकशो धनुषो गुणकृत्ये नियोजिता इयम् आलिपङ्‌क्तिः करुणस्वनैः विरुतैः गुरुशोकां माम् अनुरोदिति इव ।
KS 4.16 वियोगिनी
प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रतिपद्येति । तावत्पुनरपि मनोहरं वपुः शरीरं प्रतिपद्य प्राप्योत्थितः सन् । मधुरालापेषु प्रियोक्तिषु निसर्गपण्डितां स्वभावप्रगल्भां कोकिलां रतिदूतिपदेषु । सुरतदूतीस्थानेष्वादिशाज्ञापय । प्रगल्भानामेव दौत्याधिकार इति भावः । ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्‌गभयाद्‌ध्रस्वः । `अपि माषं मषं कुर्याच्छन्दोभङ्गे त्यजेद्‌गिरम्` इति केचित् । `उणादयो बहुलम्` (पा.3|3|1) इति बहुलग्रहणाद्‌घ्रस्व इति वल्लभः अन्वयः: (हे कान्त !) तावत् पुनरपि मनोहरं वपुः प्रतिपद्य उत्थितः सन् मधुरालापनिसर्गपण्डितां कोकिलां रतिदूतिपदेषु आदिश ।
KS 4.17 वियोगिनी
शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च । सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शिरसेति । हे स्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि । `ट्वितोऽथुच्` (पा.3|3|89) इत्यथुच्प्रत्ययः । सात्विकान्तरोपलक्षणमेतत् । `स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः ॥` इति । उपगूढान्यालिङ्गनानि च । नपुंसके भावे क्तः । तान्यनुभूतप्रकाराणि रह एकान्ते सुरतानि च संस्मृत्य मे शान्तिर्नास्ति । अत्र समानकर्तृकत्वं दुर्घटं समानक्रियापेक्षास्तीति केचित् अन्वयः: हे स्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि उपगूढानि च, तानि रहः सुरतानि च संस्मृत्य मे शान्तिः न अस्ति ।
KS 4.18 वियोगिनी
रचितं रतिपण्डित त्वया स्वयमङ्गेषु ममेदमार्तवम् । ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रचितमिति । हे रतिपण्डित रतिकुशल, त्वया ममाङ्‌गेष्ववयवेषु स्वयं रचितम् ऋतुरस्य प्राप्त आर्तवं वासन्तम् । `ऋतोरण्` (पा.5|1|105) इत्यण्प्रत्ययः । कुसुमप्रसाधनं पुष्पाभरणमिदं ध्रियतेऽवतिष्ठते । `धृञ् अवस्थाने` इति धातोस्तौदादिकात्कर्तरि लट् । तव तत्प्रसाधकं चारु सुन्दरं वपुस्तु न दृश्यते अन्वयः: हे रतिपण्डित ! त्वया मम अङ्गेषु स्वयं रचितम् इदम् आर्तवं कुसुमप्रसाधनं ध्रियते, तव चारु वपुः न दृश्यते ।
KS 4.19 वियोगिनी
विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः । तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विबुधैरिति । दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः । अनभिज्ञत्रत्वं च ध्वन्यते । यस्य मच्चरणस्य परिकर्मणि प्रसाधने । `परिकर्म प्रसाधनम्` इत्यमरः । आसमाप्ते सति स्मृतोऽसि । तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं कुर्वेह्यागच्छ अन्वयः: दारुणैः विबुधैः यस्य परिकर्मणि असमाप्ते (सति) स्मृतः असि, तम् इमं दक्षिणेतरं निर्मितरागं कुरु । एहि ।
KS 4.20 वियोगिनी
अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिणी भवामि ते । चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अहमिति । अहं पतङ्गवर्त्मना शलभमार्गेण । अग्निप्रवेशेनेत्यर्थः । `पतङ्गः शलभे चाग्नौ मार्जारेऽर्के शरे खगे` । इति वैजयन्ती । एत्यागत्य पुनस्तेऽङ्काश्रयण्युत्सङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । `वर्तमानसामीप्ये वर्तमानवद्वा` (पा.3|3|131) इति लट् । हे प्रिय ! दिवि स्वर्गे चतुरैः सुरकामिनीजनैरप्सरोगणैर्यावन्न विलोभ्यसे विलोभयिष्यसे । `यावत्पुरानिपातयोर्लट्` (पा.3|3|4) इति लट् अन्वयः: अहं पतङ्गवर्त्मना एत्य पुनः ते अङ्काश्रयणी भवामि, हे प्रिय ! दिवि चतुरैः सुरकामिनीजनैः यावत् न विलोभ्यसे ।
KS 4.21 वियोगिनी
मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे । वचनीयमिदं व्यवस्थितं रमण त्वामनुयामि यद्यपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मदनेनेति । हे रमण ! त्वामनुयामि यद्यप्यनुगमिष्याम्येव । `वर्तमानसामीप्ये वर्तमानवद्वा` (पा.3|3|131) इति लट् । `यद्यपीत्यवधारणे` इति केशवः । किंतु रतिर्मदनेन विनाकृता । वियोजिता सतीत्यर्थः । सुप्सुपेति समासः । क्षणमात्रं जीविता किलेतीदं वचनीयं निन्दा मे मम व्यवस्थितं स्थिरमभूत् अन्वयः: हे रमण ! त्वाम् अनुयायि यद्यपि, (किन्तु) मदनेन विनाकृता रतिः क्षणमात्रं जीविता इति मे वचनीयं व्यवस्थितम् ।
KS 4.22 वियोगिनी
क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया । सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्रियतामिति । परलोकेऽन्तरितस्य व्यवहितस्य । मृतस्येत्यर्थः । ते तव मयान्त्यमण्डनं कथं केन प्रकारेण क्रियताम् । क्रियातामित्यत्र कामचारे लोट् बोध्यः । द्रुतदग्धस्य ते यथेच्छमण्डनमपि न संभवतीत्यर्थः । कुतः । अङ्गेन च जीवितेन च समं सहैवातर्कितामविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्य मण्डनमिति भावः अन्वयः: (हे नाथ !) परलोकाऽन्तरितस्य ते अन्त्यमण्डनं मया कथं क्रियताम् ? (यत्) अङ्केन जीवितेन च समम् एव अतर्कितां गतिं गतः असि ।
KS 4.23 वियोगिनी
ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ऋजुतामिति । शरमृजुतामार्जवं नयत उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । `धनुषश्च` (पा.5|4|132) इत्यनङादेशः । ते तव मधुना वसन्तेन सह `मधुर्दैत्ये वसत्ने च चैत्रे च` इति विश्वः । सस्मितां कथामालापं तथा यन्नयनोपान्तविलोकितमपाङ्गवीक्षणम् । तत् इत्यनुषङ्गः । तच्च स्मरामि अन्वयः: शरम् ऋजुतां नयतः उत्सङ्गनिषण्णधन्वनः ते मधुना सस्मितां कथां, यत् नयनोपन्तविलोकितं च तत् स्मरामि ।
KS 4.24 वियोगिनी
क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः । न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्वेति । हृदयं गच्छतीति हृदयंगमो हृद्यः । खच्प्रकरणे गमेः सुप्युपसंख्यानम् इति खच्प्रत्ययः । `अरुर्द्विषदजन्तस्य मुम्` (पा.6|3|67) इति मुमागमः । ते तव सखा कुसुमैरायोजितमारचितं कार्मुकं येन कार्मुकनिर्माता मधुर्वसन्तः क्व नु क्व वा । गत इति शेषः । अथवा सोऽप्युग्ररुषा तीव्रकोपेन पिनाकिनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम् । भस्मतामित्यर्थः । न गमितः खलु न प्रापितः किम् । `जिज्ञासानुनये खलु` इत्यमरः अन्वयः: कुसुमयोजितकार्मुकः ते हृदयङ्गमः सखा मधुः क्व नु ? सोऽपि उग्ररुषा पिनाकिना सुहृद्गतां गतिं न गमितः खलु ?
KS 4.25 वियोगिनी
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः । रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ तैः परिदेविताक्षरैर्विलापवचनैर्हृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् । `विषाक्ते दिग्धलिप्तकौ` इत्यमरः (अ.को.2|8|88) । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुमनुग्रहीतुम् । आश्वासयितुमित्यर्थः । `अभ्युपपत्तिरनुग्रहः` इत्यमरः (अ.को.2|8|88) । आत्मानं पुराऽदर्शयत् । आविरभूदित्यर्थः अन्वयः: अथ दिग्धशरैः इव तैः परिदेविताक्षरैः हृदये आहतः मधुः आतुरां रतिम् अभ्युपपत्तुम् आत्मानं पुरः अदर्शयत् ।
KS 4.26 वियोगिनी
तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च । स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति । सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भूशं रुरोद । स्तनौ संबाध्य स्तनसंबाधम् । `परिक्लिश्यमाने च` (पा.3|4|55) इति णमुल् । उरो जघान ताडितवती च । तथाहि । स्वजनस्यग्रतो दुःखं विवृतमपसारितं द्वारं कपाटं यस्य तदिवोपजायत आविर्भवति । उच्छ्रङ्खलं प्रवर्तत इत्युत्प्रेक्षाभिप्रायः अन्वयः: सा तम् अवेक्ष्य भृशं रुरोद, स्तनसम्बाधम् उरश्च जघान । हि दुःखं स्वजनस्य अग्रतः विवृतद्वारम् इव उपजायते ।
KS 4.27 वियोगिनी
इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् । यदिदं कणशः प्रकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति । दुःखमस्याः संजातं दुःखिता । संजातदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिरेनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त ! पश्य सुहृदस्त्वत्सखस्य किं स्थितं किमुपस्थितं तदिदं कपोतकर्बुरं पारावतशबलं कणशश्चूर्णीभूतम् । अल्पार्थाच्छस्प्रत्ययः । भस्म पवनैर्विकीर्यते विक्षिप्यते । पश्य भस्मीभूतस्ते सुहृदित्यर्थः अन्वयः: दुःखिता सा एनम् इति प्रवाच च- हि वसन्त ! पश्य सुहृदः किं स्थितं ? तत् इदं कपोतकर्बुरं भस्म पवनैः कणशो विकीर्यते।
KS 4.28 वियोगिनी
अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः । दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अयीति । अयि स्मर ! संप्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सकस्त्वद्दर्शनोत्कण्ठितः । त्वामप्यनादृतवतोऽस्य को माधव इत्याशङ्क्याह- नृणां पुरुषाणां दयितासु प्रेमानवस्थितमस्थिरम् । चलमित्यर्थः । सुहृज्जने प्रेम तु न चलं खलु अन्वयः: अयि स्मर ! सम्प्रति दर्शनं देहि, एष माधवः पर्युत्सुकः । नृणां दयितासु प्रेम अनवस्थितं सुहृज्जने तु प्रेम न चलं खलु ।
KS 4.29 वियोगिनी
अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव । बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमुनेति । ननु मदन पार्श्ववर्तिना सहचरेणामुना वसन्तेन ससुरासुरं सुरासुरसहितं जगद्विसतन्दुगुणस्य मृणालसूत्रमौर्वीकस्य पेलवानि कोमलानि पुष्पाण्येव पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् । जगदाज्ञा कारितेत्यर्थः । `हृक्रोरन्यतरस्याम्` (पा.1|4|53) इति जगतः कर्मत्वम् अन्वयः: ननु ! तव पार्श्‌ववर्तिना अमुना ससुराऽसुरं जगत् विसतन्तुगुणस्य पेलवपुष्पपत्त्रिणः तव धनुषः आज्ञां कारितम् ।
KS 4.30 वियोगिनी
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः । अहमस्य दशेव पश्य मामविषह्यव्यसनप्रधूषिताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गत इति । स ते सखाऽनिलाहतो वायुताडितो दीप इव गत एव न निवर्तते । अहमस्य दीपायमानस्य दशा वर्तिरिव । तिष्ठामीति शेषः । `दशा वर्ताववस्थायां वस्त्रान्तं स्युर्दशा अपि` । इति विश्वः । कुतः । अविषह्यव्यसनेन सोढुमशक्यदुःखप्रकर्षेण धूमितां संजातधूमां मां पश्य । धूमवत्त्वान्नष्टदीपदशासाम्यं धूमश्च व्यसनमेवेत्यर्थः अन्वयः: (हे वसन्त !) स ते सखा अनिलाऽऽहतो दीप इव गत एव, न निवर्तते। अहम् अस्य दशा इव (तिष्ठामि) अविषह्यव्यसनेन धूमितां मां पश्य ।
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →