तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तमिति । अतिथिषु साध्व्यातिथेयी । `पथ्यतिथी-` त्यादिना ढञ्प्रत्ययः । `टिढ्ढाणञि`-त्यादिना ङीप् । पार्वती तं ब्रह्मचारिणं बहुमानपूर्वया । बहुमानः पूर्वो यस्यास्तया । गौरवपूर्वयेत्यर्थः । सपर्ययार्चया `सपर्यार्चार्हणाः समाः` इत्यमरः (अ.को.2|7|37) । प्रत्युदियाय प्रत्युज्जगाम । कथं समानेऽपि तस्यास्तदृशी प्रतिपत्तिरत आह-साम्ये सत्यपि निविष्टचेतसां स्थरचित्तानां वपुर्विशेषेषु व्यक्तिविशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवसहिताः क्रियाश्चेष्टा भवन्ति । प्रवर्तन्त । इत्यर्थः । साधवो न साम्याभिनिवेशिन इति भावः
अन्वयः:
आतिथेयी पार्वती तं बहुमानपूर्वया सपर्यया प्रत्युदियाय । सम्येऽपे निविष्टचेतसां वपुर्विशेषेपु अति गौरवाः क्रिया भवन्ति ।
Morphemic Decomposition & Padaccheda
तम्
तद् [pron]
आतिथेयी
आतिथेय [adj]
बहुमानपूर्वया
बहु [adj]
बहुमानपूर्वया
मान [n]
बहुमानपूर्वया
पूर्व [pron]
सपर्यया
सपर्या [f]
प्रत्युदियाय
प्रत्युदि [2. P.]
पार्वती
पार्वती [f]
भवन्ति
भू [1. Ā.]
साम्ये
साम्य [n]
ऽपि
अपि [ind]
निविष्टचेतसां
निविश् [6. Ā.]
निविष्टचेतसां
चेतस् [n]
वपुर्विशेषेष्व्
वपुस् [n]
वपुर्विशेषेष्व्
विशेष [m]
अतिगौरवाः
अति [ind]
अतिगौरवाः
गौरव [n]
क्रियाः
क्रिया [f]