Skip to main content
Search
KS
Kumārasambhavam • Chapter 04

Canto 4

चतुर्थः सर्गः

Canto 4 of Kumārasambhavam.

Total: 46 Verses • Citations: KS 4.1–46 • 1 Lexicon Terms • Page 2 of 2 (Verses 16 shown)
KS 4.31 वियोगिनी
विधिना कृतमर्धवैशसं ननु माम्कामवधे विमुञ्चता । अनघापि हि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विधिनेति । ननु वसन्त ! कामवधे मदनवधे मां विमुञ्चता वर्जयता । अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिनस्तीति विशसो धातुकः । पचाद्यच् । विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमर्धवधः कृतम् । `अर्धो वा एष आत्मनो यत्पत्नी` इति श्रुतेः । पत्युः स्वस्य चाश्रयाश्रयिभूतयोरेकपदार्थत्वाभिप्रायेणार्धोक्तिः । तथा चैकदेशवधे देशान्तरस्यापि वधनियमनान्मामपि विधिरघ्नन्नेव हतवानिति तात्पर्यम् । एतदेवोपपादयति-अनपायिन्यनपायित्वेन विश्वस्ते संश्रयद्रुमे आश्रयवृक्षे गजभग्ने सति वल्लरी लता पतनाय भवतीति शेषः । पतितुमेव सालमित्यर्थः । `तुमर्थाच्च भाववचनात्` (पा.2|3|15) इति चतुर्थी अन्वयः: ननु ! कामवधे मां विमुञ्चता विधिना अर्द्धवैशसं कृतम् । अनपायिनि संश्रयद्रुमे गजभग्ने सति वल्लरी पतनाय (भवति) ।
KS 4.32 वियोगिनी
तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् । विधुरां ज्वलनातिसर्जनान्ननु मां प्रापय पत्युरन्तिकम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति । तत्तस्मात्कारणादुक्तप्रकारेण । अन्यथापि मरणस्यावश्यंभावादित्यर्थः । अनन्तरं भवतेदं वक्ष्यमाणं बन्धुजनप्रयोजनं बन्धुकृत्यं क्रियताम् । प्रार्थनायां लोट् । तदेवोपदिशति-ननु वसन्त ! विधुरां विवशां मां ज्वलनातिसर्जनादग्निदानात्पत्युरन्तिकं प्रापय । अग्निप्रवेशनं कारयेत्यर्थः अन्वयः: तत् अनन्तरं भवता इदं बन्धुजनप्रयोजनं क्रियताम् । ननु ! विधुरां मां ज्वलनाऽतिसर्जनात् पत्यु अन्तिकं प्रापय ।
KS 4.33 वियोगिनी
शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शशिनेति । कौमुदी चन्द्रिका शशिना सह याति । शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडित्सौदामिनी मेघेन सह प्रलीयते प्रणश्यति । कर्तरि लट् । प्रमदाः स्त्रियः पतिवर्त्मगच्छन्तीति पतिवर्त्मगाः पतिमार्गानुगामिन्य इत्येतद्विचेतनैः । अविवेकिभिरपीत्यर्थः । नाथस्तु पृथग्जनैः इति पपाठ । प्रतिपन्नं ज्ञातम् । `अलवणा यवागूः` `अनुदराकन्या` इति वदल्पत्वाभिप्रायेण विचेतनैरपीति निर्देशः । पतिवर्त्मगा इत्यत्र स्मृतिः- `आर्तार्ते, मुदिते हृष्टा, प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ, सा स्त्री ज्ञेया पतिव्रता ॥` इति अन्वयः: कौमुदी शशिना सह याति । तडित् मेघेन सह प्रलीयते । हि प्रमदाः पतिवर्त्मगाः इति विचेतनैरपि प्रतिपन्नम् ।
KS 4.34 वियोगिनी
अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना । नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमुनेति ॥ अमुना पुरोवर्तिना सुभगेन शोभनेन प्रियगात्रभस्मनैव । एवकारो मण्डनान्तरनिवृत्त्यर्थः । कषायितस्तनी रञ्जितस्तनो । `रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे` । इति वैजयन्ती । नवपल्लवसंस्तरे यथा नवपल्लवतल्प इव विभावसौ वह्नौ तनुं शरीरं रचयिष्यामि निधास्यामीत्यर्थः अन्वयः: अमुना सुभगेन प्रियगात्रभस्मना एव कषायितस्तनी नवपल्लवसंस्तरे यथा विभावसौ तनुं रचयिष्यामि ।
KS 4.35 वियोगिनी
कुसुमास्तरणे सहायतां बहुशः सौम्य गतस्त्वमावयोः । कुरु संप्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुसुमेति ॥ हे सौम्य ! साधो त्वमावयो रतिपञ्चबाणयोर्बहुशो बहुवारं कुसुमास्तरणे पुष्पशयने सहयतां गतः । संप्रति प्रणिपाताञ्जलिना याचितः । अञ्जलिपूर्वकं प्रार्थितः सन्नित्यर्थः । आशु मे चितां काष्ठचयं कुरु कुरुष्व । यथेह तथामुत्रोपकर्तव्यं मित्रेणेत्यर्थः अन्वयः: हे सौम्य ! त्वम् आवयोः बहुशः कुसुमास्तरणे सहायतां गतः । सम्प्रति प्रणिपाताऽञ्जलि याचितः (यन्) तावत् आशु मे चितां कुरु ।
KS 4.36 वियोगिनी
तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः । विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदन्विति । तच्चिताकरणानन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिणवातवीजनैर्मलयमारुतसंचारणैस्त्वरयेः । त्वरितं ज्वलयेत्यर्थः । त्वराहेतुमाह ते तव विदितं खलु `मतिबुद्धिपूजार्थेभ्यश्च` (पा.3|2|188) इति वर्तमाने क्तः । तद्योगात्कर्तरि षष्ठी । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोत्सहते न हृष्यति । तथा त्वया ज्ञातमेवेत्यर्थः अन्वयः: (हे वसन्त !) तदनु मदर्पितं ज्वलनं दक्षिणवातवीजनैः त्वरयेः, यथा स्मरः मां विना क्षणम् अपि न उत्सहते ते विदितं खलु ।
KS 4.37 वियोगिनी
इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ । अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति ॥ अपि चेत्येवं विधाय कृत्वा नावावाभ्यामेक एव सलिलस्याञ्जलिर्दीयताम् । तमञ्जलिं स ते बान्धवः सखा स्मरः परत्र परलोके मया सहितोऽविभज्य पास्यति अन्वयः: अपि च इति विधाय नौ एव सलिलस्य अञ्जलिः दीयताम् तं स ते बान्धवः परत्र मया सहितः अविभज्य पास्यति ।
KS 4.38 वियोगिनी
परलोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः । निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परलोकेति ॥ किंच हे माधव वसन्त ! परलोकविधौ पिण्डोदकादिकर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः सहकारमञ्जरीश्चूतवल्लरीर्निर्वपेर्देहि । हि यस्मात्कारणात्ते सखा स्मरः प्रियाश्चूतप्रसवा यस्य स तथोक्तः अन्वयः: हे माघव ! परलोकविधौ स्मरम् उद्दिश्य विलोलपल्लवाः सहकारमञ्जरीः निवपेः, हि ते सखा प्रियचूतप्रसवः ।
KS 4.39 वियोगिनी
इति देवविमुक्तये स्थितां रतिमाकाशभवा सरस्वती । शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पत ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति । इति देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् । कृतनिश्चयामिति यावत् । रतिमाकाशभवा सरस्वत्यशरीरा वाग्ध्रदशोषविक्लवां ह्रदस्य जलाधारस्य शोषेण विक्लवां शफलीं`प्रौष्ठी तु शफरी द्वयोः` इत्यमरः (अ.को.1|7|19) । प्रथमा वृष्टिर्वर्षमिवान्वकम्पयदनुकम्पितवती । सदयमुवाचेत्यर्थः । `कृपा दयानुकम्पा स्यात्` इत्यमरः अन्वयः: इति देहविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती ह्रदशोषविक्लवां शफरीं प्रथमा वृष्टिः इव अन्वकम्पयत् ।
KS 4.40 वियोगिनी
कुसुमायुधपत्नि दुर्लभस्तव भर्ता न चिराद्भविष्यति । शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुसुमेति ॥ हे कुसुमायुधपत्नि रते ! तव भर्ता चिराच्चिरं दुर्लभो न भविष्यति । किंत्वचिरमेव सुलभो भविष्यतीत्यर्थः । किंच श्रृणु । तत्कर्मेति शेषः । येन कर्मणा स ते भर्त्ता हरलोचनस्यार्चिर्ज्वाला । `ज्वाला भासो न पुंस्यर्चिः` इत्यमरः (अ.को.2|5|31) । तस्मिञ्शलभत्वं पतङ्गत्वं गतः । `समौ पतङ्गशलभौ` इत्यमरः अन्वयः: हे कुसुमायुधपत्नि ! तव भर्ता चिरात् दुर्लभो न भविष्यति । श्रृणु, येन कर्मणा स हरलोचनाऽर्चिषि शलभत्वं गतः ।
KS 4.41 वियोगिनी
अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः । अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अभिलाषेति ॥ उदीरितेन्द्रियः प्रेरितेन्द्रियः स्मरेणेति शेषः । प्रजापतिर्ब्रह्मा स्वसुतायां सरस्वत्यामभिलाषमनुरागमकरोत् । अथ तेन प्रजापतिना विक्रियामिन्द्रियविकारं निगृह्य निरुद्याभिशप्तः सन् । एतत् फलं दाहात्मकं स्वकर्मफलमन्वभूत् अन्वयः: उदीरितेन्द्रियः प्रजापतिः स्वसुतायाम् अभिलाषम् अकरोत् । अथ तेन विक्रियां निगृह्य अभिशप्तः (सन्) एतत् फलम् अन्वभूत् ।
KS 4.42 वियोगिनी
परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः । उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परिणेष्यतीति ॥ इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वतीं परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तनन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । इत्येवं स्मरशापस्यावधिदामवसानदायिनीं सरस्वती वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधराश्चाशनेरमृतस्य चेत्युभयोर्योनयः प्रभवः वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ॥ ४.४२ - ४३ ॥ अन्वयः: धर्मयाचितः स `तपसा तत्प्रवणीकृतो हरो यदा पार्वतीं परिणेष्यति, तदा उपलब्धसुखः (सन्) स्मरं स्वेन वपुषा नियोजयिष्यति` इति स्मरशापाऽवधिदां सरस्वतीम् आह । वशिनः अम्बुधराश्च अशने अमृतस्य उभयोश्च योनयः ।
KS 4.43 वियोगिनी
इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् । अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परिणेष्यतीति ॥ इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वतीं परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तनन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । इत्येवं स्मरशापस्यावधिदामवसानदायिनीं सरस्वती वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधराश्चाशनेरमृतस्य चेत्युभयोर्योनयः प्रभवः वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ॥ ४.४२ - ४३ ॥ अन्वयः: धर्मयाचितः स `तपसा तत्प्रवणीकृतो हरो यदा पार्वतीं परिणेष्यति, तदा उपलब्धसुखः (सन्) स्मरं स्वेन वपुषा नियोजयिष्यति` इति स्मरशापाऽवधिदां सरस्वतीम् आह । वशिनः अम्बुधराश्च अशने अमृतस्य उभयोश्च योनयः ।
KS 4.44 वियोगिनी
तदिदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः । रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति ॥ हेशोभने ! तत्तस्मात्कारणाद्भवितव्यो भविष्यन्प्रियसंगमो यस्य तत्तथोक्तमिदं वपुः परिरक्ष । तथाहि । रविपीतजला नदी तपात्यये प्रावृषि। `प्रावृट् तपात्यये` इति हलायुधः । पुनरोघेण प्रवाहेण युज्यते संगच्छते हि अन्वयः: हे शोभने ! तत् भवितव्यप्रियसङ्गमम् इदं वपुः परिरक्ष । हि रविपीतजला नदी तपाऽत्यये पुनरोघेण युज्यते ।
KS 4.45 वसन्ततिलका
इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनामाश्वासयत्सुचरितार्थपदैर्वचोभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति ॥ इत्थमनेन प्रकारेणादृश्यरुपं किमपि भूतं कश्चित्प्राणी । `युक्तेक्ष्मादावृते भूतं प्राण्यतोते समे त्रिषु` इत्यमरः (अ.को.3|3|102) । रतेर्मदनदाराणां मरणव्यवसायबुद्धिं मरणोद्योगबुद्धिं मन्दीचकार । निवारयामासेत्यर्थः । `मूढाल्पापटुनिर्भाग्या मन्दाः` इत्यमरः (अ.को.3|3|102) । अथ कुसुमायुधबन्धुर्वसन्तश्च तत्प्रत्ययात्तस्मिन्भूते विश्वासात् । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु` इत्यमरः (अ.को.3|3|102) । एनां रतिं सुष्ठु चरितार्थानि पदानि येषां तैर्वचोभिर्वाक्यैराश्वासयत् । सर्वथा ते देवताप्रसादात्प्रियसंगमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारेत्यर्थः अन्वयः: इत्थम् अदृश्यरुपं किमपि भूतं रतेः मरणव्यवसायबुद्धिं मन्दीचकार । अथ कुसुमायुधबन्धुः तत्प्रत्ययात् एनां सुचरिताऽर्थपदैः वचोभिः आश्वासयत् ।
KS 4.46 पुष्पिताग्रा
अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयां बभूव । शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति ॥ अथानन्तरं व्यसनेन दुःखेन कृशा मदनवधू रतिरुपप्लवान्तं विपदवधिं किरणपरिक्षयेण धूसरा मलिना दिवातनस्य दिनभवस्य । `सायंचिरम्` इत्यादिना ट्युप्रत्ययः । शशिनश्चन्द्रस्य लेखा प्रदोषं रात्रिमिव परिपालयांबभूव प्रतीक्षांचक्रे । पुष्पिताग्रावृत्तम्- `अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` इति लक्षणात् अन्वयः: अथ व्यसनकृशा मदनवधूः उपप्लवाऽन्तं किरणपरिक्षयधूसरा दिवातनस्य शशिनः लेखा प्रदोषम् इव परिपालयाम्बभूव ।
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →