विधिना कृतमर्धवैशसं ननु माम्कामवधे विमुञ्चता । अनघापि हि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
विधिनेति । ननु वसन्त ! कामवधे मदनवधे मां विमुञ्चता वर्जयता । अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिनस्तीति विशसो धातुकः । पचाद्यच् । विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमर्धवधः कृतम् । `अर्धो वा एष आत्मनो यत्पत्नी` इति श्रुतेः । पत्युः स्वस्य चाश्रयाश्रयिभूतयोरेकपदार्थत्वाभिप्रायेणार्धोक्तिः । तथा चैकदेशवधे देशान्तरस्यापि वधनियमनान्मामपि विधिरघ्नन्नेव हतवानिति तात्पर्यम् । एतदेवोपपादयति-अनपायिन्यनपायित्वेन विश्वस्ते संश्रयद्रुमे आश्रयवृक्षे गजभग्ने सति वल्लरी लता पतनाय भवतीति शेषः । पतितुमेव सालमित्यर्थः । `तुमर्थाच्च भाववचनात्` (पा.2|3|15) इति चतुर्थी
अन्वयः:
ननु ! कामवधे मां विमुञ्चता विधिना अर्द्धवैशसं कृतम् । अनपायिनि संश्रयद्रुमे गजभग्ने सति वल्लरी पतनाय (भवति) ।
Morphemic Decomposition & Padaccheda
विधिना
विधि [m]
कृतम्
कृ [2. Ā.]
अर्धवैशसं
अर्ध [adj]
अर्धवैशसं
वैशस [n]
ननु
ननु [ind]
माम्
मद् [pron]
कामवधे
काम [m]
कामवधे
वध [m]
विमुञ्चता
विमुच् [6. Ā.]
अनघापि
अनघ [adj]
अनघापि
अपि [ind]
हि
हि [ind]
संश्रयद्रुमे
संश्रय [m]
संश्रयद्रुमे
द्रुम [m]
गजभग्ने
गज [m]
गजभग्ने
भञ्ज् [4. P.]
पतनाय
पतन [n]
वल्लरी
वल्लरी [f]