दोला चैव भवेद्वामस्तद्रेचितनिकुट्टितम् । कार्यौ नाभितटे हस्तौ प्राङ्मुखौ खटकामुखौ ॥
dolā caiva bhavedvāmastadrecitanikuṭṭitam । kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau ॥
सूचीविद्धावपक्रान्तौ पादौ पादापविद्धके ।अपविद्धो भवेद्धस्तः सूचीपादस्तथैअव च ॥
sūcīviddhāvapakrāntau pādau pādāpaviddhake ।apaviddho bhaveddhastaḥ sūcīpādastathaiava ca ॥
तथा त्रिकं विवृत्तं च वलितं नाम तद्भवेत् । वर्तिताघूर्णितः सव्यो हस्तो वामश्च दोलितः ॥
tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet । vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ ॥
स्वस्तिकापसृतः पादः करणं घूर्णितं तु तत् । करिहस्तो भवेद्वामो दक्षिणश्च विवर्तितः ॥
svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat । karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ ॥
बहुशः कुट्टितः पदो ज्ञेयं तल्ललितं बुधैः ।ऊर्ध्वजानुं विधायाथ तस्योपरि लतां न्यसेत् ॥
bahuśaḥ kuṭṭitaḥ pado jñeyaṃ tallalitaṃ budhaiḥ ।ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset ॥
दण्ड्पक्षं तत्प्रोक्तं कर्णं नृत्यवेदिभिः । भुजञ्गत्रासितं कृत्वा यत्रोभावपि रेचितौ ॥
daṇḍpakṣaṃ tatproktaṃ karṇaṃ nṛtyavedibhiḥ । bhujañgatrāsitaṃ kṛtvā yatrobhāvapi recitau ॥
वामपार्श्वस्थ्तौ हस्तौ भुजङ्गत्रस्तरेचितम् । त्रिकं सुवलितं कृत्वा लतारेचितकौ करौ ॥
vāmapārśvasthtau hastau bhujaṅgatrastarecitam । trikaṃ suvalitaṃ kṛtvā latārecitakau karau ॥
नूपुर्श्च तथा पादः करणे नूपुरे न्यसेत् । रेचितौ हस्तपादौ च कटी ग्रीवा च रेचिता ॥
nūpurśca tathā pādaḥ karaṇe nūpure nyaset । recitau hastapādau ca kaṭī grīvā ca recitā ॥
वैशाखस्थानकेनैतद्भवेवैशाखरेचितम् ।आक्षिप्तः स्वस्तिकः पादः करौ चोद्वेष्टितौ तथा ॥
vaiśākhasthānakenaitadbhavevaiśākharecitam ।ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā ॥
त्रिकस्य वलनाच्चैव ज्ञेयं भ्रमरकं तु तत् ।अञ्चितः स्यात्करो वामः सव्यश्चतुर एव तु ॥
trikasya valanāccaiva jñeyaṃ bhramarakaṃ tu tat ।añcitaḥ syātkaro vāmaḥ savyaścatura eva tu ॥
दक्षिणः कुट्टितः पादश्चतुरं तत्प्रकीर्तितम् । भुजङ्गत्रासितः पादो दक्षिणो रेचितः करः ॥
dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam । bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ ॥
लताख्यश्च करो वामो भुजङ्गाञ्चितकं भवेत् । विक्षिप्तं हस्तपादं तु समन्ताद्यत्र दण्डवत् ॥
latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet । vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat ॥
रेच्यते तद्धि करणं ज्ञेयं दण्डकरेचितम् । वृश्चिकं चरणं कृत्वा द्वावप्यथ निकुट्टितौ ॥
recyate taddhi karaṇaṃ jñeyaṃ daṇḍakarecitam । vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau ॥
विधातव्यौ करौ तत्तु ज्ञेयं वृश्चिककुट्टितम् । सूचिं कृत्वापविद्धं च दक्षिणं चरणं न्यसेत् ॥
vidhātavyau karau tattu jñeyaṃ vṛścikakuṭṭitam । sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset ॥
रेचिता च कटिर्यत्र कटिभ्रान्तं तदुच्यते ।अञ्चितः पृष्ठतः पादः कुञ्चितोर्ध्वतलाङ्गुलिः ॥
recitā ca kaṭiryatra kaṭibhrāntaṃ taducyate ।añcitaḥ pṛṣṭhataḥ pādaḥ kuñcitordhvatalāṅguliḥ ॥
लताख्यश्च करो वामस्तल्लतावृश्चिकं भवेत् ।अलपद्मः कटीदेशे छिन्ना पर्यायशः कटी ॥
latākhyaśca karo vāmastallatāvṛścikaṃ bhavet ।alapadmaḥ kaṭīdeśe chinnā paryāyaśaḥ kaṭī ॥
वैशाखस्थानकेनेह तच्छिन्नं करणं भवेत् । वृश्चिकं चरणं कृत्वा स्वस्तिकौ च करवुभौ ॥
vaiśākhasthānakeneha tacchinnaṃ karaṇaṃ bhavet । vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karavubhau ॥
रेचितौ विप्रकीर्णौ च करौ वृश्चिकरेचितम् । बाहुशीर्षाञ्चितौ हस्तौ पादः पृष्ठाञ्चितस्तथा ॥
recitau viprakīrṇau ca karau vṛścikarecitam । bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā ॥
दूरसन्नतपृष्ठं च वृश्चिकं तत्प्रकीर्तितम् ।आलीढं स्थानकं यत्र करौ वक्षसि रेचितौ ॥
dūrasannatapṛṣṭhaṃ ca vṛścikaṃ tatprakīrtitam ।ālīḍhaṃ sthānakaṃ yatra karau vakṣasi recitau ॥
ऊर्ध्वाधो विप्रकीर्णौ च व्यंसितं करणं तु तत् । हस्तौ तु स्वस्तिकौ पार्श्वे तथा पादो निकुट्टितः ॥
ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat । hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ ॥
यत्र तत्करणं ज्ञेयं बुधैः पार्श्वनिकुट्टितम् । वृश्चिकं चरणं कृत्वा पादस्याङ्गुष्ठकेन तु ॥
yatra tatkaraṇaṃ jñeyaṃ budhaiḥ pārśvanikuṭṭitam । vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu ॥
ललाटे तिलकं कुर्याल्ललाटतिलकं तु तत् । पृष्ठतः कुञ्चितं कृत्वा व्यतिक्रान्तक्रमं ततः ॥
lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat । pṛṣṭhataḥ kuñcitaṃ kṛtvā vyatikrāntakramaṃ tataḥ ॥
आक्षिप्तौ च करौ कार्यौ क्रान्तके करणे द्विजाः ।आद्यः पादो नतः कार्यः सव्यहस्तश्च कुञ्चितः ॥
ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ ।ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ ॥
उत्तानो वामपार्श्वस्थस्तत्कुञ्चितमुदाहृतम् । प्रलम्बिताभ्यां बाहुभ्यां यद्गात्रेणानतेन च ॥
uttāno vāmapārśvasthastatkuñcitamudāhṛtam । pralambitābhyāṃ bāhubhyāṃ yadgātreṇānatena ca ॥
अभ्यन्तरापविद्धः स्यात्तज्ज्ञेयं चक्रमण्डलम् । स्वस्तिकापसृतौ पादावपविद्धक्रमौ यदा ॥
abhyantarāpaviddhaḥ syāttajjñeyaṃ cakramaṇḍalam । svastikāpasṛtau pādāvapaviddhakramau yadā ॥
उरोमण्डलकौ हस्तावुरोमण्डलिकस्तु तत् ।आक्षिप्तं हस्तपादं च क्रियते यत्र वेगतः ॥
uromaṇḍalakau hastāvuromaṇḍalikastu tat ।ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ ॥
आक्षिओतं नाम करणं विज्ञेयं तत्द्विजोत्तमाः ।ऊर्ध्वाङ्गुलितलः पादः पार्श्वेनोर्ध्वं प्रसारितः ॥
ākṣiotaṃ nāma karaṇaṃ vijñeyaṃ tatdvijottamāḥ ।ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ ॥
प्रकुर्यादञ्चिततलौ हस्तौ तलविलासिते । पृष्ठतः प्रसृतः पादौ द्वौ तालावर्धमेव च ॥
prakuryādañcitatalau hastau talavilāsite । pṛṣṭhataḥ prasṛtaḥ pādau dvau tālāvardhameva ca ॥
तस्येव चानुगो हस्तः पुरतस्त्वर्गलं तु तत् । विक्षिप्तं हस्तपादं च पृष्ठतः पार्श्वतोऽपि वा ॥
tasyeva cānugo hastaḥ puratastvargalaṃ tu tat । vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato'pi vā ॥
एकमार्गगतं यत्र तद्विक्षिप्तमुदाहृतम् । प्रसार्य कुञ्चितं पादं पुनरावर्तयेत्द्रुतम् ॥
ekamārgagataṃ yatra tadvikṣiptamudāhṛtam । prasārya kuñcitaṃ pādaṃ punarāvartayetdrutam ॥