Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 05

Pūrvaraṅgavidhāna

पूर्वरङ्गविधानम्

Detailed exposition of ritual preliminaries before the performance begins, divided into Antaryavanikā (behind the curtain: Āśrāvaṇā, Vaktrapāṇī, Parīvarta) and Bahiryavanikā (in front of the curtain: Nāndī benediction, Raṅgadvāra, Jarjarapūjā).

Total: 184 Verses • Citations: NS 5.1–184 • 31 Lexicon Terms • Page 1 of 7 (Verses 30 shown)
NS 5.p1 Prose (Gadya)
अथ पूर्वरङ्गविधानो नाम पञ्चमोऽध्यायः
atha pūrvaraṅgavidhāno nāma pañcamo'dhyāyaḥ
NS 5.1 अनुष्टुप्
भरतस्य वचः श्रुत्वा नाट्यसन्तानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥
bharatasya vacaḥ śrutvā nāṭyasantānakāraṇam । punarevābruvanvākyamṛṣayo hṛṣṭamānasāḥ ॥
NS 5.2 अनुष्टुप्
यथा नाट्यस्य जन्मेदं जर्जरस्य च सम्भवः । विघ्नानां शमनं चैव दैवतानां च पूजनम् ॥
yathā nāṭyasya janmedaṃ jarjarasya ca sambhavaḥ । vighnānāṃ śamanaṃ caiva daivatānāṃ ca pūjanam ॥
NS 5.3 अनुष्टुप्
तदस्माभिः श्रुतं सर्वं गृहीत्वा चावधारितम् । निखिलेन यथातत्त्वमिच्छामो वेदितुं पुनः ॥
tadasmābhiḥ śrutaṃ sarvaṃ gṛhītvā cāvadhāritam । nikhilena yathātattvamicchāmo vedituṃ punaḥ ॥
NS 5.4 अनुष्टुप्
पूर्वरङ्गं महातेजः सर्वलक्षणसंयुतम् । यथा बुद्ध्यामहे ब्रह्मंस्तथा व्याख्यातुमर्हसि ॥
pūrvaraṅgaṃ mahātejaḥ sarvalakṣaṇasaṃyutam । yathā buddhyāmahe brahmaṃstathā vyākhyātumarhasi ॥
NS 5.5 अनुष्टुप्
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं पूर्वरङ्गविधिं प्रति ॥
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ । pratyuvāca punarvākyaṃ pūrvaraṅgavidhiṃ prati ॥
NS 5.6 अनुष्टुप्
पूर्वरङ्गं महाभागा गदतो मे निबोधत । पादभागाः कलाश्चैव परिवर्तास्तथैव च ॥
pūrvaraṅgaṃ mahābhāgā gadato me nibodhata । pādabhāgāḥ kalāścaiva parivartāstathaiva ca ॥
NS 5.7 अनुष्टुप्
यस्माद्रङ्गे प्रयोगोऽयं पूर्वमेव प्रयुज्यते । तस्मादयं पूर्वरङ्गो विज्ञेयो द्विजसत्तमाः ॥
yasmādraṅge prayogo'yaṃ pūrvameva prayujyate । tasmādayaṃ pūrvaraṅgo vijñeyo dvijasattamāḥ ॥
NS 5.8 अनुष्टुप्
अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोअगैः पाठ्ययोगकृतैस्तथा ॥
asyāṅgāni tu kāryāṇi yathāvadanupūrvaśaḥ । tantrībhāṇḍasamāyoagaiḥ pāṭhyayogakṛtaistathā ॥
NS 5.9 अनुष्टुप्
प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च ।आश्रावणा वक्त्रपाणिस्तथा च परिघट्टना ॥
pratyāhāro'vataraṇaṃ tathā hyārambha eva ca ।āśrāvaṇā vaktrapāṇistathā ca parighaṭṭanā ॥
NS 5.10 अनुष्टुप्
सङ्घोटना ततः कार्या मार्गासारितमेव च । ज्येष्ठमध्यकनिष्ठानि तथैवासारतानि च ॥
saṅghoṭanā tataḥ kāryā mārgāsāritameva ca । jyeṣṭhamadhyakaniṣṭhāni tathaivāsāratāni ca ॥
NS 5.11 अनुष्टुप्
एतानि तु बहिर्गीतान्यन्तर्यवनिकागतैः । प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च ॥
etāni tu bahirgītānyantaryavanikāgataiḥ । prayoktṛbhiḥ prayojyāni tantrībhāṇḍakṛtāni ca ॥
NS 5.12 अनुष्टुप्
ततः सर्वैस्तु कुतपैः संयुक्तानीह कारयेत् । विघट्य वै यवनिकां नृत्तपाठ्यकृतानि तु ॥
tataḥ sarvaistu kutapaiḥ saṃyuktānīha kārayet । vighaṭya vai yavanikāṃ nṛttapāṭhyakṛtāni tu ॥
NS 5.13 अनुष्टुप्
गीतानां मद्रकादीनां योज्यमेकं तु गीतकम् । वर्धमानमथापीह ताण्डवं यत्र युज्यते ॥
gītānāṃ madrakādīnāṃ yojyamekaṃ tu gītakam । vardhamānamathāpīha tāṇḍavaṃ yatra yujyate ॥
NS 5.14 अनुष्टुप्
ततश्चोत्थापनं कार्यं परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च ॥
tataścotthāpanaṃ kāryaṃ parivartanameva ca । nāndī śuṣkāvakṛṣṭā ca raṅgadvāraṃ tathaiva ca ॥
NS 5.15 अनुष्टुप्
चारि चैव ततः कार्या महाचारी तथैव च । त्रिकं प्ररोचनां चापि पूर्वरङ्गे भवन्ति हि ॥
cāri caiva tataḥ kāryā mahācārī tathaiva ca । trikaṃ prarocanāṃ cāpi pūrvaraṅge bhavanti hi ॥
NS 5.16 अनुष्टुप्
एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः ।एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥
etānyaṅgāni kāryāṇi pūrvaraṅgavidhau dvijāḥ ।eteṣāṃ lakṣaṇamahaṃ vyākhyāsyāmyanupūrvaśaḥ ॥
NS 5.17 अनुष्टुप्
कुतपस्य तु विन्यासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायिकानां निवेशनम् ॥
kutapasya tu vinyāsaḥ pratyāhāra iti smṛtaḥ । tathāvataraṇaṃ proktaṃ gāyikānāṃ niveśanam ॥
NS 5.18 अनुष्टुप्
परिगीतक्रियारम्भ आरम्भ इति कीर्तितः ।आतोद्यरञ्जनार्थं तु भवेदाश्रावणाविधिः ॥
parigītakriyārambha ārambha iti kīrtitaḥ ।ātodyarañjanārthaṃ tu bhavedāśrāvaṇāvidhiḥ ॥
NS 5.19 अनुष्टुप्
वाद्यवृत्तिविभागार्थं वक्त्रपाणिर्विधीयते । तन्त्र्योजःकरणार्थं तु भवेच्च परिघट्टना ॥
vādyavṛttivibhāgārthaṃ vaktrapāṇirvidhīyate । tantryojaḥkaraṇārthaṃ tu bhavecca parighaṭṭanā ॥
NS 5.20 अनुष्टुप्
तथा पाणिविभागार्थं भवेत्संघोटनाविधिः । तन्त्रीभाण्डसमायोगान्मार्गासारितमिष्यते ॥
tathā pāṇivibhāgārthaṃ bhavetsaṃghoṭanāvidhiḥ । tantrībhāṇḍasamāyogānmārgāsāritamiṣyate ॥
NS 5.21 अनुष्टुप्
कलापातविभागार्थं भवेदासारितक्रिया । कीर्तनाद्देवतानां च ज्ञेयो गीतविधिस्तथा ॥
kalāpātavibhāgārthaṃ bhavedāsāritakriyā । kīrtanāddevatānāṃ ca jñeyo gītavidhistathā ॥
NS 5.22 अनुष्टुप्
यस्मादुत्थापयन्त्यत्र प्रयोगं नान्दिपाठकाः । पूर्वमेव तु रङ्गेऽस्मिंस्तस्मादुत्थापनं स्मृतम् ॥
yasmādutthāpayantyatra prayogaṃ nāndipāṭhakāḥ । pūrvameva tu raṅge'smiṃstasmādutthāpanaṃ smṛtam ॥
NS 5.23 अनुष्टुप्
यस्माच्च लोकपालानां परिवृत्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्माच्च परिवर्तनम् ॥
yasmācca lokapālānāṃ parivṛtya caturdiśam । vandanāni prakurvanti tasmācca parivartanam ॥
NS 5.24 अनुष्टुप्
आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥
āśīrvacanasaṃyuktā nityaṃ yasmātprayujyate । devadvijanṛpādīnāṃ tasmānnāndīti saṃjñitā ॥
NS 5.25 अनुष्टुप्
अत्र शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यतः । तस्माच्छुष्कावकृष्टेयं जर्जरश्लोकदर्शिता ॥
atra śuṣkākṣaraireva hyavakṛṣṭā dhruvā yataḥ । tasmācchuṣkāvakṛṣṭeyaṃ jarjaraślokadarśitā ॥
NS 5.26 अनुष्टुप्
यस्मादभिनयस्त्वत्र प्रथमं ह्यवतार्यते । रङ्गद्वारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥
yasmādabhinayastvatra prathamaṃ hyavatāryate । raṅgadvāramato jñeyaṃ vāgaṅgābhinayātmakam ॥
NS 5.27 अनुष्टुप्
शृङ्गारस्य प्रचरणाच्चारी सम्परिकीर्तिता । रौद्रप्रचरणाच्चापि महाचारीति कीर्तिता ॥
śṛṅgārasya pracaraṇāccārī samparikīrtitā । raudrapracaraṇāccāpi mahācārīti kīrtitā ॥
NS 5.28 अनुष्टुप्
विदूषकः सूत्रधारस्तथा वै पारिपार्श्वकः । यत्र कुर्वन्ति सञ्जल्पं तच्चापि त्रिगतं मतम् ॥
vidūṣakaḥ sūtradhārastathā vai pāripārśvakaḥ । yatra kurvanti sañjalpaṃ taccāpi trigataṃ matam ॥
NS 5.29 अनुष्टुप्
उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया स प्ररोचना ॥
upakṣepeṇa kāvyasya hetuyuktisamāśrayā । siddhenāmantraṇā yā tu vijñeyā sa prarocanā ॥
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →