Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 04

Tāṇḍavalakṣaṇa

ताण्डवलक्षणम्

Comprehensive choreography of Lord Śiva's cosmic dance, enumerating and defining 108 Karaṇas (fundamental synchronized postures of hands and feet), 32 Aṅgahāras (composite movement sequences), 4 Recakas, and Piṇḍībandhas.

Total: 331 Verses • Citations: NS 4.1–331 • 31 Lexicon Terms • Page 10 of 12 (Verses 30 shown)
NS 4.265 अनुष्टुप् (Anuṣṭubh)
मङ्गलमिति कृत्वा च नृत्तमेतत्प्रकीर्तितम् । विवाहप्रसवावाहप्रमोदाभ्युअदयादिषु ॥
maṅgalamiti kṛtvā ca nṛttametatprakīrtitam । vivāhaprasavāvāhapramodābhyuadayādiṣu ॥
NS 4.266 अनुष्टुप्
विनोदकारणं चेति नृत्तमेतत्प्रवर्तितम् ।अतश्चैव प्रतिक्षेपाद्भूतसङ्घैः प्रवर्तिताः ॥
vinodakāraṇaṃ ceti nṛttametatpravartitam ।ataścaiva pratikṣepādbhūtasaṅghaiḥ pravartitāḥ ॥
NS 4.267 अनुष्टुप्
ये गीतकादौ युज्यन्ते सम्यङ्नृत्तविभागकाः । देवेन चापि सम्प्रोक्तस्तण्डुस्ताण्डवपूर्वकम् ॥
ye gītakādau yujyante samyaṅnṛttavibhāgakāḥ । devena cāpi samproktastaṇḍustāṇḍavapūrvakam ॥
NS 4.268 अनुष्टुप्
गीतप्रयोगमाश्रित्य नृत्तमेतत्प्रवर्त्यताम् । प्रायेण ताण्डवविधिर्देवस्तुत्याश्रयो भवेत् ॥
gītaprayogamāśritya nṛttametatpravartyatām । prāyeṇa tāṇḍavavidhirdevastutyāśrayo bhavet ॥
NS 4.269 अनुष्टुप्
सुकुमारप्रयोगश्च शृङ्गाररससम्भवः । तस्य तण्डुप्रयुक्तस्य ताण्डवस्य विधिक्रियाम् ॥
sukumāraprayogaśca śṛṅgārarasasambhavaḥ । tasya taṇḍuprayuktasya tāṇḍavasya vidhikriyām ॥
NS 4.270 अनुष्टुप्
वर्धमानकमासाद्य सम्प्रवक्ष्यमि लक्षणम् । कलानां वृद्धिमासाद्य ह्यक्षराणां च वर्धनात् ॥
vardhamānakamāsādya sampravakṣyami lakṣaṇam । kalānāṃ vṛddhimāsādya hyakṣarāṇāṃ ca vardhanāt ॥
NS 4.271 अनुष्टुप्
लयस्य वर्धनाच्चापि वर्धमानकमुच्यते । कृत्त्वा कुतपविन्यासं यथावद्द्विजसत्तमाः ॥
layasya vardhanāccāpi vardhamānakamucyate । kṛttvā kutapavinyāsaṃ yathāvaddvijasattamāḥ ॥
NS 4.272 अनुष्टुप्
आसारितप्रयोगस्तु ततः कार्यः प्रयोक्तृभिः । तत्र तूपोहनं कृत्त्वा तन्त्रीगानसमन्वितम् ॥
āsāritaprayogastu tataḥ kāryaḥ prayoktṛbhiḥ । tatra tūpohanaṃ kṛttvā tantrīgānasamanvitam ॥
NS 4.273 अनुष्टुप्
कार्यः प्रवेशो नर्तक्या भाण्डवाद्यसमन्वितः । विशुद्धकरणायां तु जात्यां वाद्यं प्रयोजयेत् ॥
kāryaḥ praveśo nartakyā bhāṇḍavādyasamanvitaḥ । viśuddhakaraṇāyāṃ tu jātyāṃ vādyaṃ prayojayet ॥
NS 4.274 अनुष्टुप्
गत्या वाद्यानुसारिण्या तस्याश्चारीं प्रयोजयेत् । वैशाखस्थानकेनेह सर्वरेचकचारिणी ॥
gatyā vādyānusāriṇyā tasyāścārīṃ prayojayet । vaiśākhasthānakeneha sarvarecakacāriṇī ॥
NS 4.275 अनुष्टुप्
पुष्पाञ्जलिधरा भूत्वा प्रविशेद्रङ्गमण्डपम् । पुष्पाञ्जलिं विसृज्याथ रङ्गपीठं परीत्य च ॥
puṣpāñjalidharā bhūtvā praviśedraṅgamaṇḍapam । puṣpāñjaliṃ visṛjyātha raṅgapīṭhaṃ parītya ca ॥
NS 4.276 अनुष्टुप्
प्रणम्य देवताभ्यश्च ततोऽभिनयमाचरेत् । यत्राभिनेयं गीतं स्यात्तत्र वाद्यं न योजयेत् ॥
praṇamya devatābhyaśca tato'bhinayamācaret । yatrābhineyaṃ gītaṃ syāttatra vādyaṃ na yojayet ॥
NS 4.277 अनुष्टुप्
अङ्गहारप्रयोगे तु भाण्डवाद्यं विधीयते । समं रक्तं विभक्तं च स्फुटं शुद्धप्रहारजम् ॥
aṅgahāraprayoge tu bhāṇḍavādyaṃ vidhīyate । samaṃ raktaṃ vibhaktaṃ ca sphuṭaṃ śuddhaprahārajam ॥
NS 4.278 अनुष्टुप्
नृत्ताङ्गग्राहि वाद्यज्ञैर्वाद्यं योज्यं तु ताण्डवे । प्रयुज्य गीतवाद्ये तु निष्क्रामेन्नर्तकी ततः ॥
nṛttāṅgagrāhi vādyajñairvādyaṃ yojyaṃ tu tāṇḍave । prayujya gītavādye tu niṣkrāmennartakī tataḥ ॥
NS 4.279 अनुष्टुप्
अनेनैव विधानेन प्रविशन्त्यपराः पृथक् ।अन्याश्चानुक्रमेणाथ पिण्डीं बध्नन्ति याः स्त्रियः ॥
anenaiva vidhānena praviśantyaparāḥ pṛthak ।anyāścānukrameṇātha piṇḍīṃ badhnanti yāḥ striyaḥ ॥
NS 4.280 अनुष्टुप्
तावत्पर्यस्तकः कार्यो यावत्पिण्डी न बध्यते । पिण्डीं बद्ध्वा ततः सर्वा निष्क्रामेयुः स्त्रियस्तु ताः ॥
tāvatparyastakaḥ kāryo yāvatpiṇḍī na badhyate । piṇḍīṃ baddhvā tataḥ sarvā niṣkrāmeyuḥ striyastu tāḥ ॥
NS 4.281 अनुष्टुप्
पिण्डीबन्धेषु वाद्यं तु कर्तव्यमिह वादकैअः । पर्यस्तकप्रमाणेन चित्रौघकरणान्वितम् ॥
piṇḍībandheṣu vādyaṃ tu kartavyamiha vādakaiaḥ । paryastakapramāṇena citraughakaraṇānvitam ॥
NS 4.282 अनुष्टुप्
तत्रोपवाहनं भूयः कार्यं पूर्ववदेव हि । ततश्चासारितं भूयो गायनं तु प्रयोजयेत् ॥
tatropavāhanaṃ bhūyaḥ kāryaṃ pūrvavadeva hi । tataścāsāritaṃ bhūyo gāyanaṃ tu prayojayet ॥
NS 4.283 अनुष्टुप्
पूर्वेणैव विधानेन प्रविशेच्चापि नर्तकी । गीतकार्थं त्वभिनयेद्द्वितीयासारितस्य तु ॥
pūrveṇaiva vidhānena praviśeccāpi nartakī । gītakārthaṃ tvabhinayeddvitīyāsāritasya tu ॥
NS 4.284 अनुष्टुप्
तदेव च पुनर्वस्तु नृत्तेनापि प्रदर्शयेत् ।आसारिते समाप्ते तु निष्क्रामेन्नर्तकी ततः ॥
tadeva ca punarvastu nṛttenāpi pradarśayet ।āsārite samāpte tu niṣkrāmennartakī tataḥ ॥
NS 4.285 अनुष्टुप्
पूर्ववत्प्रविशन्त्यन्याः प्रयोगः स्यात्स एव हि ।एवं पदे पदे कार्यो विधिरासारितस्य तु ॥
pūrvavatpraviśantyanyāḥ prayogaḥ syātsa eva hi ।evaṃ pade pade kāryo vidhirāsāritasya tu ॥
NS 4.286 अनुष्टुप्
भाण्डवाद्यकृते चैव तथा गानकृतेऽपि च ।एका तु प्रथमं योज्या द्वे द्वितीयं तथैव च ॥
bhāṇḍavādyakṛte caiva tathā gānakṛte'pi ca ।ekā tu prathamaṃ yojyā dve dvitīyaṃ tathaiva ca ॥
NS 4.287 अनुष्टुप्
तिस्रो वस्तु तृतीयं तु चतस्रस्तु चतुर्थकम् । पिण्डीनां विधयश्चैव चत्वारः सम्प्रकीर्तिताः ॥
tisro vastu tṛtīyaṃ tu catasrastu caturthakam । piṇḍīnāṃ vidhayaścaiva catvāraḥ samprakīrtitāḥ ॥
NS 4.288 अनुष्टुप्
पिण्डी शृङ्खलिका चैव लताबन्धोऽथ भेद्यकः । पिण्डीबन्धस्तु पिण्डत्वाद्गुल्मः शृङ्खलिका भवेत् ॥
piṇḍī śṛṅkhalikā caiva latābandho'tha bhedyakaḥ । piṇḍībandhastu piṇḍatvādgulmaḥ śṛṅkhalikā bhavet ॥
NS 4.289 अनुष्टुप्
जालोपनद्धा च लता सनृत्तो भेद्यकः स्मृतः । पिण्डीबन्धः कनिष्ठे तु शृङ्खला तु लयान्तरे ॥
jālopanaddhā ca latā sanṛtto bhedyakaḥ smṛtaḥ । piṇḍībandhaḥ kaniṣṭhe tu śṛṅkhalā tu layāntare ॥
NS 4.290 अनुष्टुप्
मध्यमे च लताबन्धो ज्येष्ठे चैवाथ भेद्यकः । पिण्डीनां विविधा योनिर्यन्त्रं भद्रासनं तथा ॥
madhyame ca latābandho jyeṣṭhe caivātha bhedyakaḥ । piṇḍīnāṃ vividhā yoniryantraṃ bhadrāsanaṃ tathā ॥
NS 4.291 अनुष्टुप्
शिक्षायोगस्तथा चैव प्रयोक्तव्यः प्रयोक्तृभिः ।एवं प्रयोगः कर्तव्यो वर्धमाने तपोधनाः ॥
śikṣāyogastathā caiva prayoktavyaḥ prayoktṛbhiḥ ।evaṃ prayogaḥ kartavyo vardhamāne tapodhanāḥ ॥
NS 4.292 अनुष्टुप्
गीतानां छन्दकानां च भूयो वक्ष्याम्यहं विधिम् । यानि वस्तुनिबद्धानि यानि चाङ्गिकृतानि तु ॥
gītānāṃ chandakānāṃ ca bhūyo vakṣyāmyahaṃ vidhim । yāni vastunibaddhāni yāni cāṅgikṛtāni tu ॥
NS 4.293 अनुष्टुप्
गीतानि तेषां वक्ष्यामि प्रयोगं नृत्तवाद्ययोः । तत्रावतरणं कार्यं नर्तक्याः सार्वभाण्डिकम् ॥
gītāni teṣāṃ vakṣyāmi prayogaṃ nṛttavādyayoḥ । tatrāvataraṇaṃ kāryaṃ nartakyāḥ sārvabhāṇḍikam ॥
NS 4.294 अनुष्टुप्
क्षेपप्रतिक्षेपकृतं भाण्डोपोहनसंस्कृतम् । प्रथमं त्वभिनेयं स्यद्गीतके सर्ववस्तुकम् ॥
kṣepapratikṣepakṛtaṃ bhāṇḍopohanasaṃskṛtam । prathamaṃ tvabhineyaṃ syadgītake sarvavastukam ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →