तान्यतः सम्प्रवक्ष्यामि नामतः कर्मतस्तथा । हस्तपादसमायोगो नृत्यस्य करणं भवेत् ॥
tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā । hastapādasamāyogo nṛtyasya karaṇaṃ bhavet ॥
द्वे नृत्तकरणे चैव भवतो नृत्तमातृका । द्वाभ्यां त्रिभिश्चतुर्भिर्वाप्यङ्गहारस्तु मातृभिः ॥
dve nṛttakaraṇe caiva bhavato nṛttamātṛkā । dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ ॥
त्रिभिः कलापकं चैव चतुर्भिः षण्डकं भवेत् । पञ्चैव करणानि स्युः सङ्घातक इति स्मृतः ॥
tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet । pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ ॥
षड्भिर्वा सप्तभिर्वापि अष्टभिर्नवभिस्तथा । करणैरिह संयुक्ता अङ्गहाराः प्रकीर्ताः ॥
ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā । karaṇairiha saṃyuktā aṅgahārāḥ prakīrtāḥ ॥
एतेषामेव वक्ष्यामि हस्तपादविकल्पनम् । तलपुष्पपुटं पूर्वं वर्तितं वलितोरु च ॥
eteṣāmeva vakṣyāmi hastapādavikalpanam । talapuṣpapuṭaṃ pūrvaṃ vartitaṃ valitoru ca ॥
अपविद्धं समनखं लीनं स्वस्तिकरेचितम् । मण्डलस्वस्तिकं चैव निकुट्टकमथापि च ॥
apaviddhaṃ samanakhaṃ līnaṃ svastikarecitam । maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca ॥
तथैवार्धनिकुट्टं च कटिच्छिन्नं तथैव च ।अर्धरेचितकं चैव वक्षःस्वस्तिकमेव च ॥
tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca ।ardharecitakaṃ caiva vakṣaḥsvastikameva ca ॥
उन्मत्तं स्वस्तिकं चैव पृष्ठस्वस्तिकमेव च । दिक्ष्वस्तिकमलातं च तथैव च कटीसमम् ॥
unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca । dikṣvastikamalātaṃ ca tathaiva ca kaṭīsamam ॥
आक्षिप्तरेचितं चैव विक्षिप्ताक्षिप्तकं तथा ।अर्धस्वस्तिकमुद्दिष्टमञ्चितं च तथापरम् ॥
ākṣiptarecitaṃ caiva vikṣiptākṣiptakaṃ tathā ।ardhasvastikamuddiṣṭamañcitaṃ ca tathāparam ॥
भुजङ्गत्रासितं प्रोक्तमूर्ध्वजानु तथैव च । निकुञ्चितं च मत्तल्लि त्वर्धमत्तल्लि चैव हि ॥
bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca । nikuñcitaṃ ca mattalli tvardhamattalli caiva hi ॥
स्याद्रेचकनिक्कुट्टं च तथा पादापविद्धकम् । वलितं घूर्णितं चैव ललितं च तथापरम् ॥
syādrecakanikkuṭṭaṃ ca tathā pādāpaviddhakam । valitaṃ ghūrṇitaṃ caiva lalitaṃ ca tathāparam ॥
दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥
daṇḍapakṣaṃ tathā caiva bhujaṅgatrastarecitam । nūpuraṃ caiva samproktaṃ tathā vaiśākharecitam ॥
भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥
bhramaraṃ caturaṃ caiva bhujaṅgāñcitameva ca । daṇḍarecitakaṃ caiva tathā vṛścikakuṭṭitam ॥
कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥
kaṭibhrāntaṃ tathā caiva latāvṛścikameva ca । chinnaṃ ca karaṇaṃ proktaṃ tathā vṛścikarecitam ॥
वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥
vṛścikaṃ vyaṃsitaṃ caiva tathā pārśvanikuṭṭakam । lalāṭatilakaṃ krāntaṃ kuñcitaṃ cakramaṇḍalam ॥
उरोमण्डलमाक्षिप्तं तथा तलविलासितम् ।अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥
uromaṇḍalamākṣiptaṃ tathā talavilāsitam ।argalaṃ cātha vikṣiptamāvṛttaṃ dolapādakam ॥
विवृत्तं विनिवृत्तं च पार्श्वक्रान्तं निशुम्भितम् । विद्युत्भ्रान्तमतिक्रान्तं विवर्तितकमेव च ॥
vivṛttaṃ vinivṛttaṃ ca pārśvakrāntaṃ niśumbhitam । vidyutbhrāntamatikrāntaṃ vivartitakameva ca ॥
गजक्रीडितकं चैव तलसंस्फोटितं तथा । गरुडप्लुतकं चैव गण्डसूचि तथापरम् ॥
gajakrīḍitakaṃ caiva talasaṃsphoṭitaṃ tathā । garuḍaplutakaṃ caiva gaṇḍasūci tathāparam ॥
परिवृत्तं समुद्दिष्टं पार्श्वजानु तथैव च । गृध्रावलीनकं चैव सन्नतं सूच्यथापि च ॥
parivṛttaṃ samuddiṣṭaṃ pārśvajānu tathaiva ca । gṛdhrāvalīnakaṃ caiva sannataṃ sūcyathāpi ca ॥
अर्धसूचीति करणं सूचिविद्धं तथैव च ।अपक्रान्तं च सम्प्रोक्तं मयूरललितं तथा ॥
ardhasūcīti karaṇaṃ sūcividdhaṃ tathaiva ca ।apakrāntaṃ ca samproktaṃ mayūralalitaṃ tathā ॥
सर्पितं दण्डपादं च हरिणप्लुतमेव च । प्रेङ्खोलितं नितम्बं च स्खलितं करिहस्तकम् ॥
sarpitaṃ daṇḍapādaṃ ca hariṇaplutameva ca । preṅkholitaṃ nitambaṃ ca skhalitaṃ karihastakam ॥
प्रसर्पितकमुद्दिष्टं सिंहविक्रीडतं तथा । सिंहाकर्षितमुद्वृत्तं तथोपसृतमेव च ॥
prasarpitakamuddiṣṭaṃ siṃhavikrīḍataṃ tathā । siṃhākarṣitamudvṛttaṃ tathopasṛtameva ca ॥
तलसंघट्टितं चैव जनितं चावहित्थकम् । निवेशमेलकाक्रीडमूरूद्वृत्तं तथैव च ॥
talasaṃghaṭṭitaṃ caiva janitaṃ cāvahitthakam । niveśamelakākrīḍamūrūdvṛttaṃ tathaiva ca ॥
मदस्खलितकं चैव विष्णुक्रान्तमथापि च । सम्भ्रान्तमथ विष्कम्भमुद्घट्टितमथापि च ॥
madaskhalitakaṃ caiva viṣṇukrāntamathāpi ca । sambhrāntamatha viṣkambhamudghaṭṭitamathāpi ca ॥
वृषभक्रीडितं चैव लोलितं च तथापरम् । नागापसर्पितं चैव शकटास्यं तथैव च ॥
vṛṣabhakrīḍitaṃ caiva lolitaṃ ca tathāparam । nāgāpasarpitaṃ caiva śakaṭāsyaṃ tathaiva ca ॥
गङ्गावतरणं चैवेत्युक्तमष्टाधिकं शतम् ।अष्टोत्तरशतं ह्येतत्करणानां मयोदितम् ॥
gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam ।aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam ॥
नृत्ये युद्धे नियुद्धे च तथ गतिपरिक्रमे । गतिप्रचारे वक्ष्यामि युद्धचारीविकल्पनम् ॥
nṛtye yuddhe niyuddhe ca tatha gatiparikrame । gatipracāre vakṣyāmi yuddhacārīvikalpanam ॥
यत्र तत्रापि संयोज्यमाचार्यैर्नाट्यशक्तिनः । प्रायेण करणे कार्यो वामो वक्षःस्थितः करः ॥
yatra tatrāpi saṃyojyamācāryairnāṭyaśaktinaḥ । prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ ॥
चरणस्यानुगश्चापि दक्षिणस्तु भवेत्करः । हस्तपादप्रचारन्तु कटिपार्श्वोरुसंयुतम् ॥
caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ । hastapādapracārantu kaṭipārśvorusaṃyutam ॥
उरःपृष्ठोदरोपेतं वक्ष्यमाणं निबोधत । यानि स्थानानि याश्चार्यो नृत्यहस्तास्तथैव च ॥
uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata । yāni sthānāni yāścāryo nṛtyahastāstathaiva ca ॥