सा मातृकेति विज्ञेया तद्योगात्करणं भवेत् । कटी कर्णसमा यत्र कोर्परांसशिरस्तथा ॥
sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet । kaṭī karṇasamā yatra korparāṃsaśirastathā ॥
समुन्नतमुरश्चैव सौष्ठवं नाम तद्भवेत् । वामे पुष्पपुटः पार्श्वे पादोऽग्रतलसञ्चरः ॥
samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet । vāme puṣpapuṭaḥ pārśve pādo'gratalasañcaraḥ ॥
तथा च सन्नतं पार्श्वं तलपुष्पपुटं भवेत् । कुञ्चितौ मणिबन्धे तु व्यावृत्तपरिवर्तितौ ॥
tathā ca sannataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet । kuñcitau maṇibandhe tu vyāvṛttaparivartitau ॥
हस्तौ निपतितौ चोर्वोर्वर्तितं करणं तु तत् । शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तितौ ॥
hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat । śukatuṇḍau yadā hastau vyāvṛttaparivartitau ॥
उरू च वलितौ यस्मिन्वलितोरुकमुच्यते ।आवर्त्य शुकतुण्डाख्यमूरुपृष्ठे निपातयेत् ॥
urū ca valitau yasminvalitorukamucyate ।āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet ॥
वामहतश्च वक्षःस्थोऽप्यपविद्धं तु तद्भवेत् । श्लिष्टौ समनखौ पदौ करौ चापि प्रलिम्बितौ ॥
vāmahataśca vakṣaḥstho'pyapaviddhaṃ tu tadbhavet । śliṣṭau samanakhau padau karau cāpi pralimbitau ॥
देहः स्वाभाविको यत्र भवेत्समनखं तु तत् । पताकाञ्जलि वक्षःस्थं प्रसारितशिरोधरम् ॥
dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat । patākāñjali vakṣaḥsthaṃ prasāritaśirodharam ॥
निहञ्चितांसकूटं च तल्लिनं करणं स्मृतम् । स्वस्तिकौ रेचिताविद्धौ विश्लिष्टौ कटिसंश्रितौ ॥
nihañcitāṃsakūṭaṃ ca tallinaṃ karaṇaṃ smṛtam । svastikau recitāviddhau viśliṣṭau kaṭisaṃśritau ॥
यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेचितम् । स्वस्तिकौ तु करौ कृत्वा प्राङ्गमुखोर्ध्वतलौ समौ ॥
yatra tatkaraṇaṃ jñeyaṃ budhaiḥ svastikarecitam । svastikau tu karau kṛtvā prāṅgamukhordhvatalau samau ॥
तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । निकुट्टितौ यदा हस्तौ स्वबाहुशिरसोऽन्तरे ॥
tathā ca maṇḍalaṃ sthānaṃ maṇḍalasvastikaṃ tu tat । nikuṭṭitau yadā hastau svabāhuśiraso'ntare ॥
पादौ निकुट्टितौ चैव ज्ञेयं तत्तु निकुट्टकम् ।अञ्चितौ बाहुशिरसि हस्तस्त्वभिमुखाङ्गुलिः ॥
pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam ।añcitau bāhuśirasi hastastvabhimukhāṅguliḥ ॥
निकुञ्चितार्धयोगेन भवेदर्थनिकुट्टकम् । पर्यायशः कटिश्छिन्ना बाह्वोः शिरसि पल्लवौ ॥
nikuñcitārdhayogena bhavedarthanikuṭṭakam । paryāyaśaḥ kaṭiśchinnā bāhvoḥ śirasi pallavau ॥
पुनःपुनश्च करणं कटिच्छिनं तु तद्भवेत् ।अपविद्धकरः सूच्या पादश्चैव निकुट्टितः ॥
punaḥpunaśca karaṇaṃ kaṭicchinaṃ tu tadbhavet ।apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ ॥
संन्नतं यत्र पार्श्वं च तद्भवेअर्धरेचितम् । स्वस्तिकौ चरणौ यत्र करौ वक्षसि रेचितौ ॥
saṃnnataṃ yatra pārśvaṃ ca tadbhaveardharecitam । svastikau caraṇau yatra karau vakṣasi recitau ॥
निकुञ्चितं तथा वक्षो वक्षस्स्वस्तिकमेव तत् ।आञ्चितेन तु पादेन रेचितौ तु करौ यदा ॥
nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat ।āñcitena tu pādena recitau tu karau yadā ॥
उन्मतं करणं तत्तु विज्ञेयं नृत्यकोविदैः । हस्ताभ्यामथ पादाभ्यां भवतः स्वस्तिकौ यदा ॥
unmataṃ karaṇaṃ tattu vijñeyaṃ nṛtyakovidaiḥ । hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā ॥
तत्स्वस्तिकमिति प्रोक्तं करणं करणार्थिभिः । विक्षिप्ताक्षिप्तबाहुभ्यां स्वस्तिकौ चरणौ यदा ॥
tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ । vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā ॥
अपक्रान्तार्धसूचिभ्यां तत्पृष्ठस्वस्तिकं भवेत् । पार्श्वयोरग्रतश्चैव यत्र श्लिष्टः करो भवेत् ॥
apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet । pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet ॥
स्वस्तिकौ हस्तपादाभ्यां तद्दिक्ष्वस्तिकमुच्यते ।अलातं चरणं कृत्वा व्यंसयेद्दक्षिणं करम् ॥
svastikau hastapādābhyāṃ taddikṣvastikamucyate ।alātaṃ caraṇaṃ kṛtvā vyaṃsayeddakṣiṇaṃ karam ॥
ऊर्ध्वजानुक्रमं कुर्यादलातकमिति स्मृतम् । स्वस्तिकापसृतः पादः करौ नाभिकटिस्थितौ ॥
ūrdhvajānukramaṃ kuryādalātakamiti smṛtam । svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau ॥
पार्श्वमुद्वाहितं चैव करणं तत्कटीसमम् । हस्तौ हृदि भवेद्वामः सव्यश्चाक्षिप्तरेचितः ॥
pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam । hastau hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ ॥
रेचितश्चापविद्धश्च तत्स्यादाक्षिप्तरेचितम् । विक्षिप्तं हस्तपादं च तसैवाक्षेपणं पुनः ॥
recitaścāpaviddhaśca tatsyādākṣiptarecitam । vikṣiptaṃ hastapādaṃ ca tasaivākṣepaṇaṃ punaḥ ॥
यत्र तत्करणं ज्ञेयं विक्षिप्ताक्षिप्तप्तकं द्विजाः । स्वस्तिकौ चरणौ कृत्वा करिहस्तं च दक्षिणम् ॥
yatra tatkaraṇaṃ jñeyaṃ vikṣiptākṣiptaptakaṃ dvijāḥ । svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam ॥
वक्षस्थाने तथा वाममर्धस्वस्तिकमादिशेत् । व्यावृत्तपरिवृत्तस्तु स एव तु करो यदा ॥
vakṣasthāne tathā vāmamardhasvastikamādiśet । vyāvṛttaparivṛttastu sa eva tu karo yadā ॥
अञ्चितो नासिकाग्रे तु तदञ्चितमुदाहृतम् । कुञ्चितं पादमुत्क्षिप्य त्र्यश्रमूरुं विवर्तयेत् ॥
añcito nāsikāgre tu tadañcitamudāhṛtam । kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet ॥
कटिजानुविवर्ताच्च भुजङ्गत्रासितं भवेत् । कुञ्चितं पादमुत्क्षिप्य जनुस्तनसमं न्यसेत् ॥
kaṭijānuvivartācca bhujaṅgatrāsitaṃ bhavet । kuñcitaṃ pādamutkṣipya janustanasamaṃ nyaset ॥
प्रयोगवशगौ हस्तावूर्ध्वजानु प्रकीर्तितम् । वृश्चिकं चरणं कृत्वा करं पार्श्वे निकुञ्चयेत् ॥
prayogavaśagau hastāvūrdhvajānu prakīrtitam । vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet ॥
नासाग्रे दक्षिणं चैव ज्ञेयं तत्तु निकुञ्चितम् । वामदक्षिणपादाभ्यां घूर्णमानोपसर्पणैः ॥
nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam । vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ ॥
उद्वेष्टितापविद्धैश्च हस्तैर्मत्तल्ल्युदाहृतम् । स्स्खलितापसृतौ पादौ वामहस्तश्च रेचितः ॥
udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtam । sskhalitāpasṛtau pādau vāmahastaśca recitaḥ ॥
सव्यहस्तः कटिस्थः स्यादर्धमत्तल्लि तत्स्मृतम् । रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः ॥
savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam । recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ ॥