Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 04

Tāṇḍavalakṣaṇa

ताण्डवलक्षणम्

Comprehensive choreography of Lord Śiva's cosmic dance, enumerating and defining 108 Karaṇas (fundamental synchronized postures of hands and feet), 32 Aṅgahāras (composite movement sequences), 4 Recakas, and Piṇḍībandhas.

Total: 331 Verses • Citations: NS 4.1–331 • 31 Lexicon Terms • Page 1 of 12 (Verses 30 shown)
NS 4.p1 Prose (Gadya)
अथ चतुर्थोऽध्यायः
atha caturtho'dhyāyaḥ
NS 4.1 अनुष्टुप्
एवं तु पूजनं कृत्वा मया प्रोक्तः पितामहः ।आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ॥
evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ ।ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām ॥
NS 4.2 अनुष्टुप्
ततोऽस्म्युक्तो भगवता योजयामृतमन्थनम् ।एतदुत्साहजननं सुरप्रीतिकरं तथा ॥
tato'smyukto bhagavatā yojayāmṛtamanthanam ।etadutsāhajananaṃ suraprītikaraṃ tathā ॥
NS 4.3 अनुष्टुप्
योऽयं समवकारस्तु धर्मकामार्थसाधकः । मया प्राग्ग्रथितो विद्वन्स प्रयोगः प्रयुज्यताम् ॥
yo'yaṃ samavakārastu dharmakāmārthasādhakaḥ । mayā prāggrathito vidvansa prayogaḥ prayujyatām ॥
NS 4.4 अनुष्टुप्
तस्मिन्समवकारे तु प्रयुक्ते देवदानवाः । हृष्टाः समभवन्सर्वे कर्मभावानुदर्शनात् ॥
tasminsamavakāre tu prayukte devadānavāḥ । hṛṣṭāḥ samabhavansarve karmabhāvānudarśanāt ॥
NS 4.5 अनुष्टुप्
कस्यचित्वथ कालस्य मामाहाम्बुजसम्भवः । नाट्यं सन्दर्शयामोऽद्य त्रिनेत्राय महात्मने ॥
kasyacitvatha kālasya māmāhāmbujasambhavaḥ । nāṭyaṃ sandarśayāmo'dya trinetrāya mahātmane ॥
NS 4.6 अनुष्टुप्
ततः सार्धं सुरैर्गत्वा वृषभाङ्कनिवेशनम् । समभ्यर्च्य शिवं पश्चादुवाचेदं पितामहः ॥
tataḥ sārdhaṃ surairgatvā vṛṣabhāṅkaniveśanam । samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ ॥
NS 4.7 अनुष्टुप्
मया समवाकरस्तु योऽयं सृष्टः सुरोत्तम । श्रवणे दर्शने चास्य प्रसादं कर्तुमर्हसि ॥
mayā samavākarastu yo'yaṃ sṛṣṭaḥ surottama । śravaṇe darśane cāsya prasādaṃ kartumarhasi ॥
NS 4.8 अनुष्टुप्
पश्याम इति देवेशो द्रुहिणं वाक्यमब्रवीत् । ततो मामाह भगवान्सज्जो भव महामते ॥
paśyāma iti deveśo druhiṇaṃ vākyamabravīt । tato māmāha bhagavānsajjo bhava mahāmate ॥
NS 4.9 अनुष्टुप्
ततो हिमवतः पृष्ठे नानानागसमाकुले । बहुभूतगणाकीर्णे रम्यकन्दरनिर्ज़्हरे ॥
tato himavataḥ pṛṣṭhe nānānāgasamākule । bahubhūtagaṇākīrṇe ramyakandaranirज़्hare ॥
NS 4.10 अनुष्टुप्
पूर्वरङ्गः कृतः पूर्वं तत्रायं द्विजसत्तमाः । तथा त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥
pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ । tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ ॥
NS 4.11 अनुष्टुप्
ततो भूतगणा हृष्टाः कर्नभावानुकीर्तनात् । महादेवश्च सुप्रीतः पितामहमथाब्रवीत् ॥
tato bhūtagaṇā hṛṣṭāḥ karnabhāvānukīrtanāt । mahādevaśca suprītaḥ pitāmahamathābravīt ॥
NS 4.12 अनुष्टुप्
अहो नाट्यमिदं सम्यक्त्वया सृष्टं महामते । यशस्यं च शुभार्थं च पुण्यं बुद्धिविवर्धनम् ॥
aho nāṭyamidaṃ samyaktvayā sṛṣṭaṃ mahāmate । yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam ॥
NS 4.13 अनुष्टुप्
मयापीदं स्मृतं नृत्यं सन्ध्याकालेषु नृत्यता । नानाकरणसंयुक्तैरङ्गहारैर्विभूषितम् ॥
mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā । nānākaraṇasaṃyuktairaṅgahārairvibhūṣitam ॥
NS 4.14 अनुष्टुप्
पूर्वरङ्गविधावस्मिंस्त्वया सम्यक्प्रयोज्यताम् । वर्धमानकयोगेषु गीतेष्वासारितेषु च ॥
pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām । vardhamānakayogeṣu gīteṣvāsāriteṣu ca ॥
NS 4.15 अनुष्टुप्
महागीतेषु चैवार्थान्सम्यगेवाभिनेष्यसि । यश्चायं पूर्वरङ्गस्तु त्वया शुद्धः प्रयोजितः ॥
mahāgīteṣu caivārthānsamyagevābhineṣyasi । yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ ॥
NS 4.16 अनुष्टुप्
एभिर्विमिश्रितश्चायं चित्रो नाम भविष्यति । श्रुत्वा महेश्वरवचः प्रत्युक्तस्तु स्वयंभुवा ॥
ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati । śrutvā maheśvaravacaḥ pratyuktastu svayaṃbhuvā ॥
NS 4.17 अनुष्टुप्
प्रयोगमङ्गहाराणामाचक्ष्व सुरसत्तम । ततस्तण्डुं समाहूय प्रोक्तवान्भुवनेश्वरः ॥
prayogamaṅgahārāṇāmācakṣva surasattama । tatastaṇḍuṃ samāhūya proktavānbhuvaneśvaraḥ ॥
NS 4.18 अनुष्टुप्
प्रयोगमङ्गहाराणामाचक्ष्व भरताय वै । ततो ये तण्डुना प्रोक्तास्त्वङ्गहारा महात्मना ॥
prayogamaṅgahārāṇāmācakṣva bharatāya vai । tato ye taṇḍunā proktāstvaṅgahārā mahātmanā ॥
NS 4.19 अनुष्टुप्
तान्वः करणसंयुक्तान्व्याख्यास्यामि सरेचकान् । स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः स्मृतः ॥
tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān । sthirahasto'ṅgahārastu tathā paryastakaḥ smṛtaḥ ॥
NS 4.20 अनुष्टुप्
सूचिविद्धस्तथा चैव ह्यपविद्धस्तथैव च ।आक्षिप्तकोऽथ विज्ञेयस्तथा चोद्धट्टितः स्मृतः ॥
sūcividdhastathā caiva hyapaviddhastathaiva ca ।ākṣiptako'tha vijñeyastathā coddhaṭṭitaḥ smṛtaḥ ॥
NS 4.21 अनुष्टुप्
विष्कम्भश्चैव सम्प्रोक्तस्तथा चैवापराजितः । विष्कम्भापसृतश्चैअव मत्ताक्रीडस्तथैव च ॥
viṣkambhaścaiva samproktastathā caivāparājitaḥ । viṣkambhāpasṛtaścaiava mattākrīḍastathaiva ca ॥
NS 4.22 अनुष्टुप्
स्वस्तिको रेचितश्चैव पार्श्वस्वस्तिक एव च । वृश्चिकापसृतः प्रोक्तो भ्रमरश्च तथापरः ॥
svastiko recitaścaiva pārśvasvastika eva ca । vṛścikāpasṛtaḥ prokto bhramaraśca tathāparaḥ ॥
NS 4.23 अनुष्टुप्
मत्तस्खलितकश्चैव मदाद्विलसितस्तथा । गतिमण्डलको ज्ञेयः परिच्छिन्नस्तथैव च ॥
mattaskhalitakaścaiva madādvilasitastathā । gatimaṇḍalako jñeyaḥ paricchinnastathaiva ca ॥
NS 4.24 अनुष्टुप्
परिवृत्तचितोऽथ स्यात्तथा वैशाखरेचितः । परावृत्तोऽथ विज्ञेयस्तथा चैवाप्यलातकः ॥
parivṛttacito'tha syāttathā vaiśākharecitaḥ । parāvṛtto'tha vijñeyastathā caivāpyalātakaḥ ॥
NS 4.25 अनुष्टुप्
पार्श्वच्छेदोऽथ सम्प्रोक्तो विद्युद्भ्रान्तस्तथैव च ।ऊरूद्वृत्तस्तथा चैव स्यादालीढस्तथैव च ॥
pārśvacchedo'tha samprokto vidyudbhrāntastathaiva ca ।ūrūdvṛttastathā caiva syādālīḍhastathaiva ca ॥
NS 4.26 अनुष्टुप्
रेचितश्चापि विज्ञेयस्तथैवाच्छुरितः स्मृतः ।आक्षिप्तरेचितश्चैव सम्भ्रान्तश्च तथापरः ॥
recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ ।ākṣiptarecitaścaiva sambhrāntaśca tathāparaḥ ॥
NS 4.27 अनुष्टुप्
अपसर्पस्तु विज्ञेयस्तथा चार्धनिकुट्टकः । द्वात्रिंशदेते सम्प्रोक्ता अङ्गहारास्तु नामतः ॥
apasarpastu vijñeyastathā cārdhanikuṭṭakaḥ । dvātriṃśadete samproktā aṅgahārāstu nāmataḥ ॥
NS 4.28 अनुष्टुप्
एतेषां तु प्रवक्ष्यामि प्रयोगं करणाश्रयम् । हस्तपादप्रचारश्च यथा योज्यः प्रयोक्तृभिः ॥
eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam । hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ ॥
NS 4.29 अनुष्टुप्
अङ्गहारेषु वक्ष्यामि करणेषु च वै द्विजाः । सर्वेषामङ्गहाराणां निष्पत्तिः करणैर्यतः ॥
aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ । sarveṣāmaṅgahārāṇāṃ niṣpattiḥ karaṇairyataḥ ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →