Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 4 (Maṇḍala 4) • Sūkta 46

Maṇḍala 4 Sūkta 46

मण्डलम् 4 • सूक्तम् 46

Maṇḍala 4 Sūkta 46 of the Ṛgveda Saṁhitā with 7 mantras.

Total: 7 Verses • Citations: RV 4.46.1–7 • 3 Lexicon Terms
७ वामदेवो गौतमः। इन्द्रवायू, १ वायुः। गायत्री।

अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु । त्वं हि पू॑र्व॒पा असि॑
श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः । वायो॑ सु॒तस्य॑ तृम्पतम्
आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रय॑: । वह॑न्तु॒ सोम॑पीतये
रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् । आ हि स्थाथो॑ दिवि॒स्पृश॑म्
रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् । इन्द्र॑वायू इ॒हा ग॑तम्
इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभि॑: स॒जोष॑सा । पिब॑तं दा॒शुषो॑ गृ॒हे
इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् । इ॒ह वां॒ सोम॑पीतये
← Previous (Ch. 341) Full Table of Contents Next (Ch. 343) →