Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 4 (Maṇḍala 4) • Sūkta 45

Maṇḍala 4 Sūkta 45

मण्डलम् 4 • सूक्तम् 45

Maṇḍala 4 Sūkta 45 of the Ṛgveda Saṁhitā with 7 mantras.

Total: 7 Verses • Citations: RV 4.45.1–7 • 3 Lexicon Terms
७ वामदेवो गौतमः। अश्विनौ। जगती, ७ त्रिष्टुप् ।

ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथ॒: परि॑ज्मा दि॒वो अ॒स्य सान॑वि ।

पृ॒क्षासो॑ अस्मिन् मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते
उद् वां॑ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु ।

अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी॑वृतं॒ स्व१र्ण शु॒क्रं त॒न्वन्त॒ आ रज॑:
मध्व॑: पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ॑म् ।

आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मन्तमश्विना
हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुध॑: ।

उ॒द॒प्रुतो॑ म॒न्दिनो॑ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्ष॒: सव॑नानि गच्छथः
स्व॒ध्व॒रासो॒ मधु॑मन्तो अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो॑र॒श्विना॑ ।

यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः
आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वत॒: स्व१र्ण शु॒क्रं त॒न्वन्त॒ आ रज॑: ।

सूर॑श्चि॒दश्वा॑न् युयुजा॒न ई॑यते॒ विश्वाँ॒ अनु॑ स्व॒धया॑ चेतथस्प॒थः
प्र वा॑मवोचमश्विना धियं॒धा रथ॒: स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ ।

येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्म॑न्तं त॒रणिं॑ भो॒जमच्छ॑
← Previous (Ch. 340) Full Table of Contents Next (Ch. 342) →