Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 05

Pūrvaraṅgavidhāna

पूर्वरङ्गविधानम्

Detailed exposition of ritual preliminaries before the performance begins, divided into Antaryavanikā (behind the curtain: Āśrāvaṇā, Vaktrapāṇī, Parīvarta) and Bahiryavanikā (in front of the curtain: Nāndī benediction, Raṅgadvāra, Jarjarapūjā).

Total: 184 Verses • Citations: NS 5.1–184 • 31 Lexicon Terms • Page 4 of 7 (Verses 30 shown)
NS 5.89 अनुष्टुप्
भवेदतिजगत्यान्तु सा ध्रुवा परिवर्तनी । वार्तिकेन तु मार्गेण वाद्येनानुगतेन च ॥
bhavedatijagatyāntu sā dhruvā parivartanī । vārtikena tu mārgeṇa vādyenānugatena ca ॥
NS 5.90 अनुष्टुप्
ललितैः पादविन्यासैर्वन्द्या देवा यथादिशम् । द्विकलं पादपतनं पादचार्या गतं भवेत् ॥
lalitaiḥ pādavinyāsairvandyā devā yathādiśam । dvikalaṃ pādapatanaṃ pādacāryā gataṃ bhavet ॥
NS 5.91 अनुष्टुप्
वामपादेन वेधस्तु कर्तव्यो नृत्तयोक्तृभिः । द्वितालान्तरविष्कम्भो विक्षेपो दक्षिणस्य च ॥
vāmapādena vedhastu kartavyo nṛttayoktṛbhiḥ । dvitālāntaraviṣkambho vikṣepo dakṣiṇasya ca ॥
NS 5.92 अनुष्टुप्
ततः पञ्चपदीं गच्छेदतिक्रान्तैः पदरथ । ततोऽभिवादनं कुर्याद्देवतानां यथादिशम् ॥
tataḥ pañcapadīṃ gacchedatikrāntaiḥ padaratha । tato'bhivādanaṃ kuryāddevatānāṃ yathādiśam ॥
NS 5.93 अनुष्टुप्
वन्देत प्रथमं पूर्वां दिशं शक्राधिदैवताम् । द्वितीयां दक्षिणामाशां वन्देत यमदेवताम् ॥
vandeta prathamaṃ pūrvāṃ diśaṃ śakrādhidaivatām । dvitīyāṃ dakṣiṇāmāśāṃ vandeta yamadevatām ॥
NS 5.94 अनुष्टुप्
वन्देत पश्चिमामाशां ततो वरुणदैवताम् । चतुर्थीमुत्तरामाशां वन्देत धनदाश्रयाम् ॥
vandeta paścimāmāśāṃ tato varuṇadaivatām । caturthīmuttarāmāśāṃ vandeta dhanadāśrayām ॥
NS 5.95 अनुष्टुप्
दिशां तु वन्दनं कृत्वा वामवेधं प्रयोजयेत् । दक्षिणेन च कर्तव्यं विक्षेपपरिवर्तनम् ॥
diśāṃ tu vandanaṃ kṛtvā vāmavedhaṃ prayojayet । dakṣiṇena ca kartavyaṃ vikṣepaparivartanam ॥
NS 5.96 अनुष्टुप्
प्राङ्ग्मुखस्तु ततः कुर्यात्पुरुषस्त्रीनपुंसकैः । त्रिपद्या सूत्रभृद्रुद्रब्रह्मोपेन्द्राभिवादनम् ॥
prāṅgmukhastu tataḥ kuryātpuruṣastrīnapuṃsakaiḥ । tripadyā sūtrabhṛdrudrabrahmopendrābhivādanam ॥
NS 5.97 अनुष्टुप्
दक्षिणं तु पदं पुंसो वामं स्त्रीणां प्रकीर्तितम् । पुनर्दक्षिणमेव स्यान्नात्युत्क्षिप्तं नपुंसकम् ॥
dakṣiṇaṃ tu padaṃ puṃso vāmaṃ strīṇāṃ prakīrtitam । punardakṣiṇameva syānnātyutkṣiptaṃ napuṃsakam ॥
NS 5.98 अनुष्टुप्
वन्देत पौरुषेणेशं स्त्रीपदेन जनार्दनम् । नपुंसक्पदेनापि तथैवाम्बुजसम्भवम् ॥
vandeta pauruṣeṇeśaṃ strīpadena janārdanam । napuṃsakpadenāpi tathaivāmbujasambhavam ॥
NS 5.99 अनुष्टुप्
परिवर्तनमेवं स्यात्तस्यान्ते प्रविशेत्ततः । चतुर्थकारः पुष्पाणि प्रगृह्य विधिपूर्वकम् ॥
parivartanamevaṃ syāttasyānte praviśettataḥ । caturthakāraḥ puṣpāṇi pragṛhya vidhipūrvakam ॥
NS 5.100 अनुष्टुप्
यथावत्तेन कर्तव्यं पूजनं जर्जरस्य तु । कुतपस्य च सर्वस्य सूत्रधारस्य चैव हि ॥
yathāvattena kartavyaṃ pūjanaṃ jarjarasya tu । kutapasya ca sarvasya sūtradhārasya caiva hi ॥
NS 5.101 अनुष्टुप्
तस्य भाण्डसमः कार्यस्तज्ज्ञैर्गतिपरिक्रमः । न तत्र गानं कर्तव्यं तत्र स्तोभक्रिया भवेत् ॥
tasya bhāṇḍasamaḥ kāryastajjñairgatiparikramaḥ । na tatra gānaṃ kartavyaṃ tatra stobhakriyā bhavet ॥
NS 5.102 अनुष्टुप्
चतुर्थकारः पूजां तु स कृत्वान्तर्हितो भवेत् । ततो गेयावकृष्टा तु चतुरश्रा स्थिता ध्रुवा ॥
caturthakāraḥ pūjāṃ tu sa kṛtvāntarhito bhavet । tato geyāvakṛṣṭā tu caturaśrā sthitā dhruvā ॥
NS 5.103a अनुष्टुप्
गुरुप्राया तु सा कार्या तथा चैवावपाणिका । स्थायिवर्णाश्रयोपेता कलाष्टकविनिर्मिता ॥
guruprāyā tu sā kāryā tathā caivāvapāṇikā । sthāyivarṇāśrayopetā kalāṣṭakavinirmitā ॥
NS 5.103b अनुष्टुप्
[चतुर्थं पञ्चमं चैव सप्तमं चाष्टमं तथा । लघूनि पादे पङ्क्त्यान्तु सावकृष्टा ध्रुवा स्मृता] ॥
[caturthaṃ pañcamaṃ caiva saptamaṃ cāṣṭamaṃ tathā । laghūni pāde paṅktyāntu sāvakṛṣṭā dhruvā smṛtā] ॥
NS 5.104 अनुष्टुप्
सूत्रधारः पठेत्तत्र मध्यमं स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टभिर्वाऽप्यलङ्कृताम् ॥
sūtradhāraḥ paṭhettatra madhyamaṃ svaramāśritaḥ । nāndīṃ padairdvādaśabhiraṣṭabhirvā'pyalaṅkṛtām ॥
NS 5.105 अनुष्टुप्
नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यः शुभं तथा । जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥
namo'stu sarvadevebhyo dvijātibhyaḥ śubhaṃ tathā । jitaṃ somena vai rājñā śivaṃ gobrāhmaṇāya ca ॥
NS 5.106 अनुष्टुप्
ब्रह्मोत्तरं तथैवास्तु हता ब्रह्मद्विषस्तथा । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥
brahmottaraṃ tathaivāstu hatā brahmadviṣastathā । praśāstvimāṃ mahārājaḥ pṛthivīṃ ca sasāgarām ॥
NS 5.107 अनुष्टुप्
राष्ट्रं प्रवर्धतां चैव रङ्गस्याशा समृद्ध्यतु । प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्मभाषितः ॥
rāṣṭraṃ pravardhatāṃ caiva raṅgasyāśā samṛddhyatu । prekṣākarturmahāndharmo bhavatu brahmabhāṣitaḥ ॥
NS 5.108 अनुष्टुप्
काव्यकर्तुर्यशश्चास्तु धर्मश्चापि प्रवर्धताम् ।इज्यया चानया नित्यं प्रीयन्तां देवता इति ॥
kāvyakarturyaśaścāstu dharmaścāpi pravardhatām ।ijyayā cānayā nityaṃ prīyantāṃ devatā iti ॥
NS 5.109 अनुष्टुप्
नान्दीपदान्तरेष्वेषु ह्येवमार्येति नित्यशः । वदेतां सम्यगुक्ताभिर्वाग्भिस्तौ पारिपार्श्विकौ ॥
nāndīpadāntareṣveṣu hyevamāryeti nityaśaḥ । vadetāṃ samyaguktābhirvāgbhistau pāripārśvikau ॥
NS 5.110 अनुष्टुप्
एवं नान्दी विधातव्या यथावल्लक्षणान्विता । ततश्शुष्कावकृष्टा स्याज्जर्जरश्लोकदर्शिका ॥
evaṃ nāndī vidhātavyā yathāvallakṣaṇānvitā । tataśśuṣkāvakṛṣṭā syājjarjaraślokadarśikā ॥
NS 5.111 अनुष्टुप्
नवं गुर्वाक्षराण्यादौ षड्लघूनि गुरुत्रयम् । शुष्कावकृष्टा तु भवेत्कला ह्यष्टौ प्रमाणतः ॥
navaṃ gurvākṣarāṇyādau ṣaḍlaghūni gurutrayam । śuṣkāvakṛṣṭā tu bhavetkalā hyaṣṭau pramāṇataḥ ॥
NS 5.112 आर्या
यथा: दिग्ले दिग्ले दिग्ले दिग्ले जम्बुकपलितकते तेचाम् । कृत्वा शुष्कावकृष्टां तु यथावद्द्विजसत्तमाः ॥
yathā: digle digle digle digle jambukapalitakate tecām । kṛtvā śuṣkāvakṛṣṭāṃ tu yathāvaddvijasattamāḥ ॥
NS 5.113 अनुष्टुप्
ततः श्लोकं पठेदेकं गम्भीरस्वरसंयुतम् । देवस्तोत्रं पुरस्कृत्य यस्य पूजा प्रवर्तते ॥
tataḥ ślokaṃ paṭhedekaṃ gambhīrasvarasaṃyutam । devastotraṃ puraskṛtya yasya pūjā pravartate ॥
NS 5.114 अनुष्टुप्
राज्ञो वा यत्र भक्तिः स्यादथ वा ब्रह्मणस्स्तवम् । गदित्वा जर्जरश्लोकं रङ्गद्वारे च यत्स्मृतम् ॥
rājño vā yatra bhaktiḥ syādatha vā brahmaṇasstavam । gaditvā jarjaraślokaṃ raṅgadvāre ca yatsmṛtam ॥
NS 5.115 अनुष्टुप्
पठेदन्यं पुनः श्लोकं जर्जरस्य विनाशनम् । जर्जरं नमयित्वा तु ततश्चारीं प्रयोजयेत् ॥
paṭhedanyaṃ punaḥ ślokaṃ jarjarasya vināśanam । jarjaraṃ namayitvā tu tataścārīṃ prayojayet ॥
NS 5.116 अनुष्टुप्
पारिपार्श्विकयोश्च स्यात्पश्चिमेनापसर्पणम् ।अङ्किता चात्र कर्तव्या ध्रुवा मध्यलयान्विता ॥
pāripārśvikayośca syātpaścimenāpasarpaṇam ।aṅkitā cātra kartavyā dhruvā madhyalayānvitā ॥
NS 5.117 अनुष्टुप्
चतुर्भिः सन्निपातैश्च चतुरश्रा प्रमाणतः ।आद्यमन्त्यं चतुर्थं च पञ्चमं च तथा गुरु ॥
caturbhiḥ sannipātaiśca caturaśrā pramāṇataḥ ।ādyamantyaṃ caturthaṃ ca pañcamaṃ ca tathā guru ॥
← Previous (Ch. 4) Full Table of Contents Next (Ch. 6) →