Skip to main content
Search
Ch. 7 KS 7.12
Full Chapter
KS • Chapter 7: Canto 7

KS 7.12

Canonical Ref: KS 7.12
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन । पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मादिति । किंचेति चार्थः । तस्मात्प्रदेशात्स्नानप्रदेशाद्वितानवन्तमुल्लोचयुक्तम् । `अस्त्री वितानमुल्लोचः` इत्यमरः (अ.को.2|6|121) । मणिस्तम्भचतुष्टयेन युक्तं क्लृप्तं सज्जमानमासनं यस्मिंस्तं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य दौर्भ्यामालिङ्ग्य निन्ये नीता । प्रसाधनार्थमित्यर्थः अन्वयः: तस्मात् प्रदेशात् वितानवन्तं मणिस्तम्भचतुष्टयेन युक्तं क्लॄप्तासनं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य (सा) निन्ये ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तस्मात्
Lemma: तद्
POS: pron
प्रदेशाच्
Lemma: प्रदेश
POS: m
च
Lemma: च
POS: ind
वितानवन्तं
Lemma: वितानवत्
POS: adj
युक्तं
Lemma: युज्
POS: 6. Ā.
मणिस्तम्भचतुष्टयेन
Lemma: मणि
POS: m
मणिस्तम्भचतुष्टयेन
Lemma: स्तम्भ
POS: m
मणिस्तम्भचतुष्टयेन
Lemma: चतुष्टय
POS: fn
पतिव्रताभिः
Lemma: पतिव्रता
POS: f
परिगृह्य
Lemma: परिग्रह्
POS: 9. Ā.
निन्ये
Lemma: नी
POS: 2. P. • Verb: निन्ये
क्ᄆप्तासनं
Lemma: क्ᄆप्
POS: 1. P.
क्ᄆप्तासनं
Lemma: आसन
POS: n
कौतुकवेदिमध्यम्
Lemma: कौतुक
POS: n
कौतुकवेदिमध्यम्
Lemma: वेदि
POS: f
कौतुकवेदिमध्यम्
Lemma: मध्य
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 7.12. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.11) All Verses in Chapter 7 Next Verse (KS 7.13) →