Skip to main content
Search
Ch. 7 KS 7.13
Full Chapter
KS • Chapter 7: Canto 7

KS 7.13

Canonical Ref: KS 7.13
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहितेऽपि नार्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तामिति । नार्यः प्रसाधिकास्तां तन्वीं पार्वतीं तत्र वेदिमध्ये प्राङ्मुखीं निवेश्योपवेश्य पुरोनिषण्णा अग्रे स्थिताः । प्रसाध्यतेऽनेनेति प्रसाधनेऽलंकारसाधनवर्गे संनिहितेऽपि भूतार्था सत्यरुपा । स्वाभाविकीति यावत् । या शोभा रामणीयकं तया ह्रियमाणान्याकृष्यमाणानि नेत्राणि यासां तास्तथोक्ताः क्षणं व्यलम्बन्त । स्वभावसुन्दर्याः किमस्याः प्रसाधनेनेति तूष्णीं तस्थुरित्यर्थः अन्वयः: नार्यः तन्वीं तां तत्र प्राङ्मुखीं निवेश्य पुरोनिषण्णाः (सत्यः) प्रसाधने सति अपि भूताऽर्थशोभाह्रियमाणनेत्राः (सत्यः) क्षणं व्यलम्बन्त ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तां
Lemma: तद्
POS: pron
प्राङ्मुखीं
Lemma: प्राञ्च्
POS: adj
प्राङ्मुखीं
Lemma: मुख
POS: adj
तत्र
Lemma: तत्र
POS: ind
निवेश्य
Lemma: निवेशय्
POS: 10. Ā.
तन्वीं
Lemma: तन्वी
POS: f
क्षणं
Lemma: क्षण
POS: m
व्यलम्बन्त
Lemma: विलम्ब्
POS: 1. P. • Verb: व्यलम्बन्त
पुरो
Lemma: पुरस्
POS: ind
निषण्णाः
Lemma: निषद्
POS: 1. Ā.
भूतार्थशोभाह्रियमाणनेत्राः
Lemma: भू
POS: 1. Ā.
भूतार्थशोभाह्रियमाणनेत्राः
Lemma: अर्थ
POS: mn
भूतार्थशोभाह्रियमाणनेत्राः
Lemma: शोभा
POS: f
भूतार्थशोभाह्रियमाणनेत्राः
Lemma: हृ
POS: 2. P.
भूतार्थशोभाह्रियमाणनेत्राः
Lemma: नेत्र
POS: mn
प्रसाधने
Lemma: प्रसाधन
POS: n
संनिहिते
Lemma: संनिधा
POS: 3. Ā.
ऽपि
Lemma: अपि
POS: ind
नार्यः
Lemma: नारी
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 7.13. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.12) All Verses in Chapter 7 Next Verse (KS 7.14) →