Skip to main content
Search
Ch. 5 KS 5.61
Full Chapter
KS • Chapter 5: Canto 5

KS 5.61

Canonical Ref: KS 5.61
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् । तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): नेति । प्रार्थितः सन्दुर्लभः स देवस्तपःकृशां तपसा कृशां क्षीणामत एव सखीभिरस्त्रोत्तरमश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्ट्या क्षतां पीडिताम् । `वृष्टिर्वर्षं तद्विघातोऽवग्रहावग्रहौ समौ` इत्यमरः (अ.को.2|9|15) । अवग्रहः । वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । `सीता लाङ्गलपद्धतिः` इत्यमरः (अ.को.2|9|15) । वृषा वासव इव । `वासवो वृत्रहा वृषा` इत्यमरः (अ.को.2|9|15) । कदाभ्युपपत्स्यते कदानुग्रहिष्यति न वेद्मि । अत्र वाक्यार्थः कर्म । तदवग्रहक्षतामित्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्यापत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः अन्वयः: प्रार्थितदुर्लभः स तपःकुशां सखीभिः अस्त्रोत्तरम् ईक्षिताम् इमां सखीं तदवग्रहक्षतां सीताम् इव कदा अभ्युपपत्स्यते (इति) न वेद्मि ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
न
Lemma: न
POS: ind
वेद्मि
Lemma: विद्
POS: 6. Ā. • Verb: वेद्मि
स
Lemma: तद्
POS: pron
प्रार्थितदुर्लभः
Lemma: प्रार्थय्
POS: Denom. Ā.
प्रार्थितदुर्लभः
Lemma: दुर्लभ
POS: adj
कदा
Lemma: कदा
POS: ind
सखीभिर्
Lemma: सखी
POS: f
अस्रोत्तरम्
Lemma: अस्र
POS: n
अस्रोत्तरम्
Lemma: उत्तर
POS: adj
ईक्षिताम्
Lemma: ईक्ष्
POS: 4. P.
इमाम्
Lemma: इदम्
POS: pron
तपःकृशाम्
Lemma: तपस्
POS: n
तपःकृशाम्
Lemma: कृश
POS: adj
अभ्युपपत्स्यते
Lemma: अभ्युपपद्
POS: 4. P. • Verb: अभ्युपपत्स्यते
सखीं
Lemma: सखी
POS: f
वृषेव
Lemma: वृषन्
POS: m
वृषेव
Lemma: इव
POS: ind
सीतां
Lemma: सीता
POS: f
तदवग्रहक्षताम्
Lemma: तद्
POS: pron
तदवग्रहक्षताम्
Lemma: अवग्रह
POS: m
तदवग्रहक्षताम्
Lemma: क्षन्
POS: 8. Ā.
Canonical CTS URN Reference
Kumārasambhavam, KS 5.61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.60) All Verses in Chapter 5 Next Verse (KS 5.62) →