Skip to main content
Search
Ch. 5 KS 5.62
Full Chapter
KS • Chapter 5: Canto 5

KS 5.62

Canonical Ref: KS 5.62
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया । अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अगूढेति । इङ्गितज्ञया पार्वतीहृदयाभिज्ञया । `इङ्गितं हृद्गतो भावः` इति सज्जनः । तया गौरीसख्येत्येवमगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवेदितो ज्ञापितो निष्ठा मरणमवधिर्यस्य स नैष्ठिको यावज्जीवब्रह्मचारी सुन्दरो विलासी । नैष्ठिकश्चासौ सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविवक्षायां विशेषणसमासः । किंतु नैषठिकत्वविशेषणेन कामित्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति न विरोधः । अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ! अयीति कोमलामन्त्रणे । इदं त्वत्सखीभाषितमेवम् । सत्यं किमित्यर्थः । परिहासः केलिर्वा । `द्रवकेलिपरीहासाः` इत्यमरः (अ.को.1|7|34) । इत्येवमुमामपृच्छत्पृष्टवान् अन्वयः: इङ्गितज्ञया तया इति अगूढसद्भावं निवेदितो नैष्ठिकसुन्दरः अव्यञ्जितहर्षलक्षणः (सन्) `अयि ! इदम् एवं, परिहासो वा` ? इति उमाम् अपृच्छत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अगूढसद्भावम्
Lemma: अगूढ
POS: adj
अगूढसद्भावम्
Lemma: सद्भाव
POS: m
इतीङ्गितज्ञया
Lemma: इति
POS: ind
इतीङ्गितज्ञया
Lemma: इङ्गित
POS: n
इतीङ्गितज्ञया
Lemma: ज्ञ
POS: adj
निवेदितो
Lemma: निवेदय्
POS: 10. Ā.
नैष्ठिकसुन्दरस्
Lemma: नैष्ठिक
POS: adj
नैष्ठिकसुन्दरस्
Lemma: सुन्दर
POS: adj
तया
Lemma: तद्
POS: pron
अयीदम्
Lemma: अयि
POS: ind
अयीदम्
Lemma: इदम्
POS: pron
एवं
Lemma: एवम्
POS: ind
परिहास
Lemma: परिहास
POS: m
इत्य्
Lemma: इति
POS: ind
उमाम्
Lemma: उमा
POS: f
अपृच्छद्
Lemma: प्रच्छ्
POS: 1. P. • Verb: अपृच्छत्
अव्यञ्जितहर्षलक्षणः
Lemma: अव्यञ्जित
POS: adj
अव्यञ्जितहर्षलक्षणः
Lemma: हर्ष
POS: m
अव्यञ्जितहर्षलक्षणः
Lemma: लक्षण
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 5.62. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.61) All Verses in Chapter 5 Next Verse (KS 5.63) →