Skip to main content
Search
YV
Śukla Yajurveda Saṁhitā (Vājasaneyi) • Chapter 33

Adhyāya 33

अध्यायः 33

Adhyāya 33 of the Vājasaneyi Mādhyandina Saṁhitā of Śukla Yajurveda with 96 mantras.

Total: 96 Verses • Citations: YV 33.1–96 • 2 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॑म्
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒२ अनु॑ । त्वं व॑रुण॒ पश्य॑सि
दैव्या॑वध्वर्यू॒ आ ग॑त॒ᳪ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञᳪ सम॑ञ्जाथे ।
तं प्र॒त्नथा॒ ऽयं वे॒नश्चि॒त्रं दे॒वाना॑म्
आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम्
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ᳪ सं ज॑भार ।
य॒देदयु॑क्त ह॒रित॑: स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाज॑: कृ॒ष्णम॒न्यद्ध॒रित॒: सं भ॑रन्ति
बण्म॒हाँ२ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ२ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ२ अ॑सि
बट् सू॑र्य॒ श्रव॑सा म॒हाँ२ अ॑सि स॒त्रा दे॑व म॒हाँ२ अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्य॒: पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम्
श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम
अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरᳪह॑सः पिपृ॒ता निर॑व॒द्यात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौ:
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न्
प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ व्वीरि॑ट इयाते ।
वि॒शाम॒क्तोरु॒षस॑: पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न्
इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं भग॑म् । आ॒दि॒त्यान् मारु॑तं ग॒णम्
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑: । कर॑तां नः सु॒राध॑सः
अधि॑ न इन्द्रैषां॒ विष्णो॑ सजा॒त्या॒नाम् । इ॒ता मरु॑तो॒ अश्वि॑ना ।
तं प्र॒त्नथा॒ ऽयं वे॒नो ये दे॑वास॒ आ न॒ इडा॑भि॒र्विश्वे॑भिः सो॒म्यं मध्वोमा॑सश्चर्षणीधृतः
अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवा॒: शर्ध॒: प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो ।
उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒: सर॑स्वती जुषन्त
इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑ति॒ᳪ स्व॑: पृथि॒वीं द्यां म॒रुत॒: पर्व॑ताँ२ अ॒पः ।
हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शᳪस॑ᳪ सवि॒तार॑मू॒तये॑
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषा॑: ।
यः शᳪस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ२ अ॑वन्तु दे॒वाः
अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् ।
त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः ।
विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे
विश्वे॑ देवाः शृणु॒तेमᳪ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम्
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वᳪ सु॒वसि॑ भा॒गमु॑त्त॒मम् ।
आदिद्दा॒मान॑ᳪ सवित॒र्व्यू॒र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रᳪ रथ॒प्राम् ।
द्यु॒तद्या॑मा नि॒युत॒: पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि
मि॒त्रᳪ हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् । धियं॑ घृ॒ताची॒ᳪ साध॑न्ता
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । आ या॑तᳪ रुद्रवर्तनी ।। तं प्र॒त्नथा॒ ऽयं वे॒नः ।। ५ ८ ।।
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथ॑: पू॒र्व्यᳪ स॒ध्र्य॒क्कः ।
अग्रं॑ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त्
न॒हि स्पश॒मवि॑दन्न॒न्यम॒स्माद्वै॑श्वान॒रात्पु॑र ए॒तार॑म॒ग्नेः ।
एमे॑नमवृधन्न॒मृता॒ अम॑र्त्यं वैश्वान॒रं क्षै॑त्रजित्याय दे॒वाः
उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे । ता नो॑ मृडात ई॒दृशे॑
← Previous (Ch. 32) Full Table of Contents Next (Ch. 34) →