अ॒भि त्वा॑ रु॒द्रा वस॑वो गृणन्त्वि॒मा ब्रह्म॑ पीपिहि॒ सौभ॑गायाश्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॑ स्वावे॒शा त॒न्वा सं वि॑शस्वा॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाऽऽय॑जस्वा॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे
ग्रै॒ष्मा॑वृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रुवे सी॑दतम्
स॒जूरृ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जूर्वसु॑भिः स॒जूर्दे॒वैर्व॑योनाधैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूरृ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जू रु॒द्रैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूरृ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जूरा॑दि॒त्यैः स॒जूर्दे॒वैर्व॑योना॒धैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
स॒जूरृ॒तुभि॑: स॒जूर्वि॒धाभि॑: स॒जूर्विश्वै॑र्दे॒वैः स॒जूर्दे॒वैर्व॑योनाधैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
अ॒पः पि॒न्वौष॑धीर्जिन्व द्वि॒पाद॑व चतु॑ष्पात् पाहि दि॒वो वृष्टि॒मेर॑य
वि॒श्वक॑र्मा॒ वय॑: परमे॒ष्ठी छन्दो॑ ब॒स्तो वयो॑ विव॒लं छन्दो॒ वृष्णि॒र्वयो॑ विशा॒लं छन्द॒:
पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्टं॒ छन्द॑: सि॒ᳪहो वय॑श्छ॒दिश्छन्द॑: पष्ठ॒वाड्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वय॑: क॒कुप् छन्द॑ ऋष॒भो वय॑: स॒तोबृ॑हती॒ छन्द॑:
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृᳪहतं यु॒वम् ।
पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ वि बा॑धसे
वा॒युष्ट्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॒ विश्वं॒ ज्योति॑र्यच्छ ।
वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द
ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे
वार्षि॑कावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे शा॒र॒दावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
श्रोत्रं॑ मे पाहि॒ वाचं॑ मे पिन्व॒ मनो॑ मे जिन्वात्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ
बृह॒ती छन्दो॑ ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गा॑य॒त्री छन्द॑ स्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्द॑:
कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ ऽजाश्छन्दो ऽश्व॒श्छन्द॑:
ऽऽदि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा देवता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑
आयु॑षे त्वा॒ वर्च॑से त्वा कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा
इ॒षे त्वो॒र्जे त्वा॑ र॒य्यै त्वा॒ पोषा॑य त्वा लो॒कं ता इन्द्र॑म्
प्रतू॑र्तिरष्टाद॒शस्तपो॑ नवद॒शो॒ ऽभीव॒र्त्त: स॑वि॒ᳪशो वर्चो॑ द्वावि॒ᳪशः
स॒म्भर॑णस्त्रयोवि॒ᳪशो योनि॑श्चतुर्वि॒ᳪशो गर्भा॑: पञ्चवि॒ᳪश ओज॑स्त्रिण॒वः
क्रतु॑रेकत्रि॒ᳪशः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ᳪशो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रि॒ᳪशो नाक॑: षट्त्रि॒ᳪशो
वि॑व॒र्तो॒ऽष्टाचत्वारि॒ᳪशो ध॒र्त्रं च॑तुष्टो॒मः
इन्द्र॑स्य भा॒गो॒ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्रᳪ स्पृ॒तं प॑ञ्चद॒शः स्तोमो॑
नृ॒चक्ष॑सां भा॒गो॒ऽसि धा॒तुराधि॑पत्यं ज॒नित्र॑ᳪ स्पृ॒तᳪ स॑प्तद॒श स्तोमो
मि॒त्रस्य॑ भा॒गो॒ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृष्टि॒र्वात॑ स्पृ॒त ए॑कवि॒ᳪश स्तोम॑:
आदि॒त्यानां॑ भा॒गो॒ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः प॑ञ्चवि॒ᳪश॒ स्तोमो
ऽदि॑त्यै भा॒गो॒ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑ स्पृ॒तं त्रि॑ण॒व स्तोमो॑
दे॒वस्य॑ सवि॒तुर्भा॒गो॒ऽसि बृह॒स्पते॒राधि॑पत्यᳪ स॒मीची॒र्दिश॑ स्पृ॒ताश्च॑तुष्टो॒म स्तोम॑:
ऋ॑भू॒णां भा॒गो॒ऽसि विश्वे॑षां दे॒वाना॒माधि॑पत्यं भू॒तᳪ स्पृ॒तं त्र॑यस्त्रि॒ᳪश स्तोम॑:
ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे
है॑मन्तिकावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
त्रयो॑विᳪशत्यास्तुवत क्षु॒द्रा: प॒शवो॑ऽसृज्यन्त पू॒षाऽधि॑पतिरासी॒त् पञ्च॑विᳪशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत्
स॒प्तवि॑ᳪशत्याऽस्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्या॒यँ॒स्त ए॒वाधि॑पतय आसन्