Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 4 (Maṇḍala 4) • Sūkta 39

Maṇḍala 4 Sūkta 39

मण्डलम् 4 • सूक्तम् 39

Maṇḍala 4 Sūkta 39 of the Ṛgveda Saṁhitā with 6 mantras.

Total: 6 Verses • Citations: RV 4.39.1–6 • 3 Lexicon Terms
६ वामदेवो गौतमः। दधिक्राः। त्रिष्टुप्, ६ अनुष्टुप्।

आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम ।

उ॒च्छन्ती॒र्मामु॒षस॑: सूदय॒न्त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन्
म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्ण॑: पुरु॒वार॑स्य॒ वृष्ण॑: ।

यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिम्
यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त् समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ ।

अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषा॑:
द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रम् ।

स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इन्द्रं॒ वज्र॑बाहुम्
इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्त॑: ।

द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्व॑म्
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।

सु॒र॒भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयूं॑षि तारिषत्
← Previous (Ch. 334) Full Table of Contents Next (Ch. 336) →