Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 1 (Maṇḍala 1) • Sūkta 170

Maṇḍala 1 Sūkta 170

मण्डलम् 1 • सूक्तम् 170

Maṇḍala 1 Sūkta 170 of the Ṛgveda Saṁhitā with 5 mantras.

Total: 5 Verses • Citations: RV 1.170.1–5 • 3 Lexicon Terms
(५) १,३,४ इन्द्रः, (४अगस्त्यो वा,) २,५ अगस्त्यो मैत्रावरुणिः । इन्द्रः। १बृहती, २-४ अनुष्टुप्, ५ त्रिष्टुप्।

न नू॒नमस्ति॒ नो श्वः कस्तद् वे॑द॒ यदद्भु॑तम् ।

अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति
किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।

तेभि॑: कल्पस्व साधु॒या मा न॑: स॒मर॑णे वधीः
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।

वि॒द्मा हि ते॒ यथा॒ मनो॒ ऽस्मभ्य॒मिन्न दि॑त्ससि
अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः ।

तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑: ।

इन्द्र॒ त्वं म॒रुद्भि॒: सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑
← Previous (Ch. 169) Full Table of Contents Next (Ch. 171) →