Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 02

Maṇḍapa Vidhāna (Nāṭyagṛha Nirūpaṇa)

मण्डपविधानम्

Systematic architectural treatise describing measurement units (Hasta, Daṇḍa), sacred geometry, and nine playhouse configurations across three shapes (Vikṛṣṭa rectangular, Caturasra square, Tryasra triangular) and three scale gradations (Jyeṣṭha, Madhya, Avara).

Total: 112 Verses • Citations: NS 2.1–112 • 31 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
NS 2.55 अनुष्टुप्
ब्राह्मणांस्तर्पयित्वा तु स्तम्भानुत्थापयेत्ततः ।अचलं चाप्यकम्पञ्च तथैवावलितं पुनः ॥
brāhmaṇāṃstarpayitvā tu stambhānutthāpayettataḥ ।acalaṃ cāpyakampañca tathaivāvalitaṃ punaḥ ॥
NS 2.56 अनुष्टुप्
स्तम्भस्योत्थापने सम्यग्दोषा ह्येते प्रकीर्तिताः ।अवृष्टिरुक्ता चलने वलने मृत्युतो भयम् ॥
stambhasyotthāpane samyagdoṣā hyete prakīrtitāḥ ।avṛṣṭiruktā calane valane mṛtyuto bhayam ॥
NS 2.57 अनुष्टुप्
कम्पने परचक्रात्तु भयं भवति दारुणम् । दोषैरेतैर्विहीनं तु स्तम्भमुत्थापयेच्छिवम् ॥
kampane paracakrāttu bhayaṃ bhavati dāruṇam । doṣairetairvihīnaṃ tu stambhamutthāpayecchivam ॥
NS 2.58 अनुष्टुप्
पवित्रे ब्राह्मणस्तम्भे दातव्या दक्षिणा च गौः । शेषाणां भोजनं कार्यं स्थापने कर्तृसंश्रयम् ॥
pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ । śeṣāṇāṃ bhojanaṃ kāryaṃ sthāpane kartṛsaṃśrayam ॥
NS 2.59 अनुष्टुप्
मन्त्रपूतं च तद्देयं नाट्याचार्येण धीमता । पुरोहितं नृपं चैव भोजयेन्मधुपायसैः ॥
mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā । purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ ॥
NS 2.60 अनुष्टुप्
कर्तॄनापि तथा सर्वान्कृसरां लवणोत्तराम् । सर्वमेवं विधिं कृत्वा सर्वातोद्यैः प्रवादितैः ॥
kartṝnāpi tathā sarvānkṛsarāṃ lavaṇottarām । sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ ॥
NS 2.61 अनुष्टुप्
अभिमन्त्र्य यथान्यायं स्तम्भानुत्थापयेच्छुचिः ।ऽयथाऽचलो गिरिर्मेरुर्हिमवांश्च महाबलः ॥
abhimantrya yathānyāyaṃ stambhānutthāpayecchuciḥ ।'yathā'calo girirmerurhimavāṃśca mahābalaḥ ॥
NS 2.62 अनुष्टुप्
जयावहो नरेन्द्रस्य तथा त्वमचलो भवऽ । स्तम्भद्वारं च भित्तिं च नेपथ्यगृहमेव च ॥
jayāvaho narendrasya tathā tvamacalo bhava' । stambhadvāraṃ ca bhittiṃ ca nepathyagṛhameva ca ॥
NS 2.63 अनुष्टुप्
एवमुत्थापयेतज्ज्ञो विधिदृष्टेन कर्मणा । रङ्गपीठस्य पार्श्वे तु कर्तव्या मत्तवारणी ॥
evamutthāpayetajjño vidhidṛṣṭena karmaṇā । raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī ॥
NS 2.64 अनुष्टुप्
चतुस्तम्भसमायुक्ता रङ्गपीठप्रमाणतः ।अध्यर्धहस्तोत्सेधेन कर्तव्या मत्तवारणी ॥
catustambhasamāyuktā raṅgapīṭhapramāṇataḥ ।adhyardhahastotsedhena kartavyā mattavāraṇī ॥
NS 2.65 अनुष्टुप्
उत्सेधेन तयोस्तुल्यं कर्तव्यं रङ्गमण्डपम् । तस्यां माल्यं च धूपं च गन्धं वस्त्रं तथैव च ॥
utsedhena tayostulyaṃ kartavyaṃ raṅgamaṇḍapam । tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca ॥
NS 2.66 अनुष्टुप्
नानावर्णानि देयानि तथा भूतप्रियो बलिः ।आयसं तत्र दातव्यं स्तम्भानां कुशैलैरधः ॥
nānāvarṇāni deyāni tathā bhūtapriyo baliḥ ।āyasaṃ tatra dātavyaṃ stambhānāṃ kuśailairadhaḥ ॥
NS 2.67 अनुष्टुप्
भोजने कृसराश्चैव दातव्यं ब्राह्मणाशनम् ।एवं विधिपुरस्कारैः कर्तव्या मत्तवारणी ॥
bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam ।evaṃ vidhipuraskāraiḥ kartavyā mattavāraṇī ॥
NS 2.68 अनुष्टुप्
रङ्गपीठं ततः कार्यं विधिदृष्टेण कर्मणा । रङ्गशीर्षस्तु कर्तव्यं षड्दारुकसमन्वितम् ॥
raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā । raṅgaśīrṣastu kartavyaṃ ṣaḍdārukasamanvitam ॥
NS 2.69 अनुष्टुप्
कार्यं द्वारद्वयं चात्र नेपथ्यगृहकस्य तु । पूरणे मृत्तिका चात्र कृष्णा देया प्रयत्नतः ॥
kāryaṃ dvāradvayaṃ cātra nepathyagṛhakasya tu । pūraṇe mṛttikā cātra kṛṣṇā deyā prayatnataḥ ॥
NS 2.70 अनुष्टुप्
लाङ्गलेन समुत्कृष्य निर्लोष्टतृणशर्करम् । लाङ्गले शुद्धवर्णो तु धुर्यो योज्यौ प्रयत्नतः ॥
lāṅgalena samutkṛṣya nirloṣṭatṛṇaśarkaram । lāṅgale śuddhavarṇo tu dhuryo yojyau prayatnataḥ ॥
NS 2.71 अनुष्टुप्
कर्तारः पुरुषश्चात्र येऽङ्गदोषविविर्जिताः ।अहीनाङ्गैश्च वोढव्या मृत्तिका पिटकैर्नवैः ॥
kartāraḥ puruṣaścātra ye'ṅgadoṣavivirjitāḥ ।ahīnāṅgaiśca voḍhavyā mṛttikā piṭakairnavaiḥ ॥
NS 2.72 अनुष्टुप्
एवंविधैः प्रकर्तव्यं रङ्गशीर्षं प्रयत्नतः । कूर्मपृष्ठं न कर्तव्यं मत्स्यपृष्ठं तथैव च ॥
evaṃvidhaiḥ prakartavyaṃ raṅgaśīrṣaṃ prayatnataḥ । kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca ॥
NS 2.73 अनुष्टुप्
शुद्धादर्शतलाकारं रङ्गशीर्षं प्रशस्यते । रत्नानि चात्र देयानि पूर्वे वज्रं विचक्षणैः ॥
śuddhādarśatalākāraṃ raṅgaśīrṣaṃ praśasyate । ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ ॥
NS 2.74 अनुष्टुप्
वैडूर्यं दक्षिणे पार्श्वे स्फटिकं पश्चिमे तथा । प्रवालमुत्तरे चैव मध्ये तु कनकं भवेत् ॥
vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā । pravālamuttare caiva madhye tu kanakaṃ bhavet ॥
NS 2.75 अनुष्टुप्
एवं रङ्गशिरः कृत्वा दारुकर्म प्रयोजयेत् ।ऊहप्रत्यूहसंयुक्तः नानाशिल्पप्रयोजितम् ॥
evaṃ raṅgaśiraḥ kṛtvā dārukarma prayojayet ।ūhapratyūhasaṃyuktaḥ nānāśilpaprayojitam ॥
NS 2.76 अनुष्टुप्
नानासञ्जवनोपेतं बहुव्यालोपशोभितम् । ससालभञ्जिकाभिश्च समन्तात्समलङ्कृतम् ॥
nānāsañjavanopetaṃ bahuvyālopaśobhitam । sasālabhañjikābhiśca samantātsamalaṅkṛtam ॥
NS 2.77 अनुष्टुप्
निर्व्यूहकुहरोपेतं नानाग्रथितवेदिकम् । नानाविन्याससंयुक्तं चित्रजालगवाक्षकम् ॥
nirvyūhakuharopetaṃ nānāgrathitavedikam । nānāvinyāsasaṃyuktaṃ citrajālagavākṣakam ॥
NS 2.78 अनुष्टुप्
सुपीठधारिणीयुक्तं कपोतालीसमाकुलम् । नानाकुट्टिमविन्यस्तैः स्तम्भैश्चाप्युपशोभितम् ॥
supīṭhadhāriṇīyuktaṃ kapotālīsamākulam । nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam ॥
NS 2.79 अनुष्टुप्
एवं काष्ठविधिं कृत्वा भित्तिकर्म प्रयोजयेत् । स्तम्भं वा नागदन्तं वा वातायनमथापि वा ॥
evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet । stambhaṃ vā nāgadantaṃ vā vātāyanamathāpi vā ॥
NS 2.80 अनुष्टुप्
कोणं वा सप्रतिद्वारं द्वारविद्धं न कारयेत् । कार्यः शैलगुहाकारो द्विभूमिर्नाट्यमण्डपः ॥
koṇaṃ vā sapratidvāraṃ dvāraviddhaṃ na kārayet । kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ ॥
NS 2.81 अनुष्टुप्
मन्दवातायनोपेतो निर्वातो धीरशब्दवान् । तस्मान्निवातः कर्तव्यः कर्तृभिर्नाट्यमण्डपः ॥
mandavātāyanopeto nirvāto dhīraśabdavān । tasmānnivātaḥ kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ ॥
NS 2.82 अनुष्टुप्
गम्भीरस्वरता येन कुतपस्य भविष्यति । भित्तिकर्मविधिं कृत्वा भित्तिलेपं प्रदापयेत् ॥
gambhīrasvaratā yena kutapasya bhaviṣyati । bhittikarmavidhiṃ kṛtvā bhittilepaṃ pradāpayet ॥
NS 2.83 अनुष्टुप्
सुधाकर्म बहिस्तस्य विधातव्यं प्रयत्नतः । भित्तिष्वथ विलिप्तासु परिमृष्टासु सर्वतः ॥
sudhākarma bahistasya vidhātavyaṃ prayatnataḥ । bhittiṣvatha viliptāsu parimṛṣṭāsu sarvataḥ ॥
NS 2.84 अनुष्टुप्
समासु जातशोभासु चित्रकर्म प्रयोजयेत् । चित्रकर्मणि चालेख्याः पुरुषाः स्रीजनास्तथा ॥
samāsu jātaśobhāsu citrakarma prayojayet । citrakarmaṇi cālekhyāḥ puruṣāḥ srījanāstathā ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →