Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 02

Maṇḍapa Vidhāna (Nāṭyagṛha Nirūpaṇa)

मण्डपविधानम्

Systematic architectural treatise describing measurement units (Hasta, Daṇḍa), sacred geometry, and nine playhouse configurations across three shapes (Vikṛṣṭa rectangular, Caturasra square, Tryasra triangular) and three scale gradations (Jyeṣṭha, Madhya, Avara).

Total: 112 Verses • Citations: NS 2.1–112 • 31 Lexicon Terms • Page 4 of 4 (Verses 22 shown)
NS 2.85 अनुष्टुप्
लताबन्धाश्च कर्तव्याश्चरितं चात्म्भोगजम् ।एवं विकृष्टं कर्तव्यं नाट्यवेश्म प्रयोक्तृभिः ॥
latābandhāśca kartavyāścaritaṃ cātmbhogajam ।evaṃ vikṛṣṭaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ ॥
NS 2.86 अनुष्टुप्
पुनरेव हि वक्ष्यामि चतुरश्रस्य लक्षणम् । समन्ततश्च कर्तव्या हस्ता द्वात्रिंशदेव तु ॥
punareva hi vakṣyāmi caturaśrasya lakṣaṇam । samantataśca kartavyā hastā dvātriṃśadeva tu ॥
NS 2.87 अनुष्टुप्
शुभभूमिविभागस्थो नाट्यज्ञैर्नाट्यमण्डपः । यो विधिः पूर्वमुक्तस्तु लक्षणं मङ्गलानि च ॥
śubhabhūmivibhāgastho nāṭyajñairnāṭyamaṇḍapaḥ । yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca ॥
NS 2.88 अनुष्टुप्
विकृष्टे तान्यशेषाणि चतुरश्रेऽपि कारयेत् । चतुरश्रं समं कृत्वा सूत्रेण प्रविभज्य च ॥
vikṛṣṭe tānyaśeṣāṇi caturaśre'pi kārayet । caturaśraṃ samaṃ kṛtvā sūtreṇa pravibhajya ca ॥
NS 2.89 अनुष्टुप्
बाह्यतः सर्वतः कार्या भित्तिः श्लिष्टेष्टका दृढा । तत्राभ्यन्तरतः कार्या रङ्गपीठोपरि स्थिताः ॥
bāhyataḥ sarvataḥ kāryā bhittiḥ śliṣṭeṣṭakā dṛḍhā । tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ ॥
NS 2.90 अनुष्टुप्
दश प्रयोक्तृभिः स्तम्भाः शक्ता मण्डपधारणे । स्तम्भानां बाह्यतश्चापि सोपानाकृति पीठकम् ॥
daśa prayoktṛbhiḥ stambhāḥ śaktā maṇḍapadhāraṇe । stambhānāṃ bāhyataścāpi sopānākṛti pīṭhakam ॥
NS 2.91 अनुष्टुप्
इष्टकादारुभिः कार्यं प्रेक्षकाणां निवेशनम् । हस्तप्रमाणैरुत्सेधैर्भूमिभागसमुत्थितैः ॥
iṣṭakādārubhiḥ kāryaṃ prekṣakāṇāṃ niveśanam । hastapramāṇairutsedhairbhūmibhāgasamutthitaiḥ ॥
NS 2.92 अनुष्टुप्
रङ्गपीठावलोक्यं तु कुर्यादासनजं विधिम् । षडन्यानन्तरे चैव पुनः स्तम्भान्यथादिशम् ॥
raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim । ṣaḍanyānantare caiva punaḥ stambhānyathādiśam ॥
NS 2.93 अनुष्टुप्
विधिना स्थापयेतज्ञो दृढान्मण्डपधारणे ।अष्टौ स्तम्भान्पुनश्चैव तेषामुपरि कल्पयेत् ॥
vidhinā sthāpayetajño dṛḍhānmaṇḍapadhāraṇe ।aṣṭau stambhānpunaścaiva teṣāmupari kalpayet ॥
NS 2.94 अनुष्टुप्
स्थाप्यं चैव ततः पीठमष्टहस्तप्रमाणतः । विद्धास्यमष्टहस्तं च पीठं तेषु ततो न्यसेत् ॥
sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ । viddhāsyamaṣṭahastaṃ ca pīṭhaṃ teṣu tato nyaset ॥
NS 2.95 अनुष्टुप्
तत्र स्तम्भाः प्रदातव्यास्तज्ञैर्मण्डपधारणे । धारणीधारणास्ते च शालस्त्रीभिरलङ्कृताः ॥
tatra stambhāḥ pradātavyāstajñairmaṇḍapadhāraṇe । dhāraṇīdhāraṇāste ca śālastrībhiralaṅkṛtāḥ ॥
NS 2.96 अनुष्टुप्
नेपथ्यगृहकं चैव ततः कार्यं प्रयत्नतः । द्वारं चैकं भवेत्तत्र रङ्गपीठप्रवेशनम् ॥
nepathyagṛhakaṃ caiva tataḥ kāryaṃ prayatnataḥ । dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam ॥
NS 2.97 अनुष्टुप्
जनप्रवेशनं चान्यदाभिमुख्येन कारयेत् । रङ्गस्याभिमुखं कार्यं द्वितीयं द्वारमेव तु ॥
janapraveśanaṃ cānyadābhimukhyena kārayet । raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu ॥
NS 2.98 अनुष्टुप्
अष्टहस्तं तु कर्तव्यं रङ्गपीठं प्रमाणतः । चतुरश्रं समतलं वेदिकासमलङ्कृतम् ॥
aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ । caturaśraṃ samatalaṃ vedikāsamalaṅkṛtam ॥
NS 2.99 अनुष्टुप्
पूर्वप्रमाणनिर्दिष्टा कर्तव्या मत्तवारणी । चतुःस्तम्भसमायुक्ता वेदिकायास्तु पार्श्वतः ॥
pūrvapramāṇanirdiṣṭā kartavyā mattavāraṇī । catuḥstambhasamāyuktā vedikāyāstu pārśvataḥ ॥
NS 2.100 अनुष्टुप्
समुन्नतं समं चैव रङ्गशीर्षं तु कारयेत् । विकृष्टे तून्नतं कार्यं चतुरश्रे समं तथा ॥
samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet । vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā ॥
NS 2.101 अनुष्टुप्
एवमेतेन विधिना चतुरश्रं गृहं भवेत् ।अतः परं प्रवक्ष्यामि त्र्यश्रगेहस्य लक्षणम् ॥
evametena vidhinā caturaśraṃ gṛhaṃ bhavet ।ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam ॥
NS 2.102 अनुष्टुप्
त्र्यश्रं त्रिकोणं कर्तव्यं नाट्यवेश्मप्रयोक्तृभिः । मध्ये त्रिकोणमेवास्य रङ्गपीठं तु कारयेत् ॥
tryaśraṃ trikoṇaṃ kartavyaṃ nāṭyaveśmaprayoktṛbhiḥ । madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet ॥
NS 2.103 अनुष्टुप्
द्वारं तैनैव कोणेन कर्तव्यं तस्य वेश्मनः । द्वितीयं चैव कर्तव्यं रङ्गपीठस्य पृष्ठतः ॥
dvāraṃ tainaiva koṇena kartavyaṃ tasya veśmanaḥ । dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ ॥
NS 2.104 अनुष्टुप्
विधिर्यश्चतुरश्रस्य भित्तिस्तम्भसमाश्रयः । स तु सर्वः प्रयोक्तव्यस्त्र्यश्रस्यापि प्रयोक्तृभिः ॥
vidhiryaścaturaśrasya bhittistambhasamāśrayaḥ । sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ ॥
NS 2.105 अनुष्टुप्
एवमेतेन विधिना कार्या नाट्यगृहा बुधैः । पुनरेषां प्रवक्ष्यामि पूजामेवं यथाविधिः ॥
evametena vidhinā kāryā nāṭyagṛhā budhaiḥ । punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhiḥ ॥
NS 2.p112 Prose (Gadya)
इति भारतीये नाट्यशास्त्रे मण्डपविधानो नाम द्वितीयोऽध्यायः
iti bhāratīye nāṭyaśāstre maṇḍapavidhāno nāma dvitīyo'dhyāyaḥ
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →