Skip to main content
Search
NC
Naiṣadhīyacaritam • Chapter 07

Canto 7

सप्तमः सर्गः

Canto 7 of Naiṣadhīyacaritam.

Total: 110 Verses • Citations: NC 7.1–110 • 1 Lexicon Terms • Page 4 of 4 (Verses 20 shown)
NC 7.91 उपजातिः
अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्रपत्रम् । न चेद्विशेषादितरच्छदेभ्यः तस्यास्तु काम्पस्तु कुतो भयेन ॥
NC 7.92 इन्द्रवज्रा
भ्रूश्चित्रलेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः । दृष्टा ततः पूरयतीयमेकान् एकाप्सरः प्रेक्षणकौतुकानि ॥
NC 7.93 उपजातिः
रम्भापि किं चिह्नयति प्रकाण्डं न चात्मनः स्वेन न चैतदूरु । स्वस्यैव येनोपरि सा ददाना पत्राणि जागर्त्यनयोर्भ्रमेण ॥
NC 7.94 उपजातिः
विधाय मूर्धानमदश्चरं चेन्मुञ्चेत्तपोभिः स्मरसामभावम् । जाड्यं च नाञ्चेत्कदली बलीयस्तदा यदि स्यादिदमूरुचारुः ॥
NC 7.95 उपजातिः
ऊरुप्रकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः । युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः ॥
NC 7.96 उपजातिः
अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली । नानारदाह्लादि मुखं श्रितोरुः व्यासो महाभारतसर्गयोग्यः ॥
NC 7.97 उपजातिः
क्रमाद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः । अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् ॥
NC 7.98 उपजातिः
अरुन्धतीकामपुरंघ्रिलक्ष्मीजन्भद्विषद्दारनवाम्बिकानाम् । चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥
NC 7.99 उपजातिः
अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः । जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ॥
NC 7.100 उपजातिः
जगद्वधूमूर्धसु रूपदर्पाद्यदेतयादायि पदारविन्दम् । तत्सान्द्रसिन्दूरपरागरागैः ध्रुवं प्रवालप्रबलारुणं तत् ॥
NC 7.101 उपजातिः
रुषारुणा सर्वगुणैर्जयन्त्या भैम्याः पदं श्रीः स्म विधेर्वृणीते । ध्रुवं स तामच्छलयद्यतः सा भृशारुणैतत्पदभाग्विभाति ॥
NC 7.102 उपजातिः
यानेन तन्व्या जितदन्तिनाथौ पादाब्जराजौ परिशुद्धपार्ष्णी । जाने न शुश्रूषयितुं स्वमिच्छू नतेन मूर्ध्ना कतरस्य राज्ञः ॥
NC 7.103 उपजातिः
कर्णाक्षिदन्तच्छदबाहुपाणिपादादिनः स्वाखिलतुल्यजेतुः । उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयम् ॥
NC 7.104 उपजातिः
तुषारनिःशेषितमब्जसर्गं विधातुकामस्य पुनर्विधातुः । पञ्चस्विहास्याङ्घ्रिकरेष्वभिख्याभिक्षाधुना माधुकरीसदृक्षा ॥
NC 7.105 उपजातिः
एष्यन्ति यावद्गणनाद्दिगन्तान्नृपाः स्मरार्ताः शरणे प्रवेष्टुम् । इमे पदाब्जे विधिनापि सृष्टाः तावत्य एवाङ्गुलयोऽत्र लेखाः ॥
NC 7.106 उपजातिः
प्रियानखीभूतवतो मुदेदं व्यधाद्विधिः साधुदशत्वमिन्दोः । एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥
NC 7.107 उपजातिः
यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या । कला चतुःषष्टिरुपैतु वासं तस्यां कथं सुभ्रुवि नाम नास्याम् ॥
NC 7.108 उपजातिः
सृष्टातिविश्वा विधिनैव तावत्तस्यापि नीतोपरि यौवनेन । वैदग्ध्यमध्याप्य मनोभुवेयम् अवापिता वाक्पथपारमेव ॥
NC 7.109 हरिणी
इति स चिकुरादारभ्यैनां नखावधि वर्णयन्हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः । हृदयभरणोद्वेलनन्दः सखीवृतभीमजानयनविषयीभावे भावं दधार धराधिपः ॥
NC 7.110 शार्दूलविक्रीडितम्
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । गौडर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महाकाव्ये चारुणि वैरसेनिचरिते सर्गोऽगमत्सप्तमः ॥
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →