अथाख्यायि कलासख्या कुप्य मे दमयन्ति मा । कर्णाद्द्वितीयतोऽप्यस्याः संगोप्यैव यदब्रवम् ॥
प्रियः प्रियामथाचष्ट दृष्टं कपटपाटवम् । वयस्ययोरिदं तेऽस्मान्मा सखीष्वेव विश्वसीः ॥
आलापि कलयापीयं पतिर्नालपति क्वचित् । रहस्येऽसौ रहस्यं तत्सभ्ये विस्रभ्यमीदृशि ॥
इति व्युत्तिष्ठमानायां तस्यामूचे नलः प्रियाम् । भण भैमि बहिः कुर्वे दुर्विनीते गृहादमुम् ॥
शिरःकम्पानुमत्याथ सुदत्या प्रीणितः प्रियः । चुलुकं तुच्छमुत्सर्प्य सख्योः सलिलमक्षिपत् ॥
तच्चित्रदत्ताचित्ताभ्यामुच्चैः सिचयसेचनम् । ताभ्यामलिम्भि दूरेऽपि नलेच्छापूरिभिर्जलैः ॥
वरेण वरुणस्यायं सुलभैरम्भसां भरैः । एतयोः स्तिमितीचक्रे हृदयं विस्मयैरपि ॥
तेनापि नापसर्पन्त्यौ दमयन्तीमयं ततः । हर्षेणादर्शयत्पश्य नन्विमे तन्वि मे पुरः ॥
क्लिन्नीकृत्याम्भसा वस्त्रं जैनप्रव्रजितीकृते । सख्यौ सक्षौमभावेऽपि निर्विघ्नस्तनदर्शने ॥
अम्बुनः शम्बरत्वेन मायैवाविरभूदियम् । यत्पटावृतमप्यङ्गमनयोः कथयत्यदः ॥
वाससो वाम्बरत्वेन दृश्यतेयमुपागमत् । चारुहारमणिश्रेणितारवीक्षणलक्षणा ॥
ते निरीक्ष्य निजावस्थां ह्रीणे निर्ययतुस्ततः । तयोर्वीक्षारसात्सख्यः सर्वां निश्चक्रमुः क्रमात् ॥
ता बहिर्भूय वैदर्भीमूचुर्नीतावधीतिनि । उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाप्यमू ॥
उच्चैरूचेऽथ ता राजा सखीयमिदमाह वः । श्रुतं मर्म ममैताभ्यां दृष्टं तत्तु मयानयोः ॥
मद्विरोधितयोर्वाचि न श्रद्धातव्यमेतयोः । अभ्यषिञ्चदिमे मायामिथ्यासिंहासने विधिः ॥
घौतेऽपि कीर्तिधाराभिश्चरिते चारुणि द्विषः । मृषामषीलवैर्लक्ष्म लेखितुं के न शिल्पिनः ॥
ते सख्यावाचचक्षाते न किंचिद्ब्रूवहे बहु । वक्ष्यावस्तत्परं यस्मै सर्वा निर्वासिता वयम् ॥
स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः । कृतामपि तथावाचि करकम्पेन वारणाम् ॥
अपयातमितो धृष्टे धिग्वामश्लीलशीलताम् । इत्युक्ते चोक्तवन्तश्च व्यतिद्राते स्म ते भिया ॥
आह स्म तद्गिरा ह्रीणां प्रियां नतमुखीं नलः । ईदृग्भण्डसखी कापि निस्त्रपा न मनागपि ॥
अहो नापत्रपाकं ते जातरूपमिदं मुखम् । नातितापार्जनेऽपि स्यादितो दुर्वर्णनिर्गमः ॥
तामथैष हृदि न्यस्य ददौ तल्पतले तनुम् । निमिष्य च तदीयाङ्गसौकुमार्यमसिस्वदत् ॥
न्यस्य तस्याः कुचद्वन्द्वे मध्येनीवि निवेश्य च । स पाणेः सफलं चक्रे तत्करग्रहणश्रमम् ॥
स्थापितामुपरि स्वस्य तां हृदा स मुदा वहन् । तदुद्वहनकर्तृत्वमाचष्ट स्पष्टमात्मनः ॥
स्विद्यत्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया । पूत्कार्यपीडनौ चक्रे स सखीषु प्रियास्तनौ ॥
तत्कुचे नखमारोप्य चमत्कुर्वंस्तयेक्षितः । सोऽवादीत्तां हृदिस्थं ते किं मामभिनदेष न ॥
अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् । अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ॥
यच्चुम्बति नितम्बोरु यदालिङ्गति च स्तनौ । भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम् ॥
लीनचीनांशुकं स्वेदि दरालोक्यं विलोकयन् । तन्नितम्बं स निश्वस्य निनिन्द दिनदीर्घताम् ॥
देशमेव ददंशासौ प्रियादन्तच्छदान्तिकम् । चकाराधरपानस्य तत्रैवालीकचापलम् ॥