Skip to main content
Search
Ch. 8 KS 8.17
Full Chapter
KS • Chapter 8: Canto 8

KS 8.17

Canonical Ref: KS 8.17
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया । शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): शिष्यतामिति । रहस्येकान्ते निधुवनमुपदिशतीति निधुवनोपदेशिनः सुरतविद्यागुरोः । `व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्` इत्यमरः (अ.को.2|7|61) । शंकरस्य शिष्यतां प्रपन्नया प्राप्तया तया पार्वत्या यद्युवतिनैपुणं युवतिजनोचितं नैपुणम् । सुरतकौशलमित्यर्थः । शिक्षितमभ्यस्तम् । आचरितमित्यर्थः । अनेन कृतप्रतिकृतं सूच्यते अन्वयः: रहसि निधुवनोपदेशिनः शङ्करस्य शिष्यतां प्रपन्नया तया यद् युवतिनैपुणं शिक्षितं तया तदेव गुरुदक्षिणीकृतम् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
शिष्यतां
Lemma: शिष्य
POS: m
शिष्यतां
Lemma: ता
POS: f
निधुवनोपदेशिनः
Lemma: निधुवन
POS: n
निधुवनोपदेशिनः
Lemma: उपदेशिन्
POS: adj
शङ्करस्य
Lemma: शंकर
POS: m
रहसि
Lemma: रहस्
POS: n
प्रपन्नया
Lemma: प्रपद्
POS: 4. P.
शिक्षितं
Lemma: शिक्षय्
POS: 10. Ā.
युवतिनैपुणं
Lemma: युवति
POS: f
युवतिनैपुणं
Lemma: नैपुण
POS: n
तया
Lemma: तद्
POS: pron
यत्
Lemma: यद्
POS: pron
तद्
Lemma: तद्
POS: pron
एव
Lemma: एव
POS: ind
गुरुदक्षिणीकृतम्
Lemma: गुरु
POS: m
गुरुदक्षिणीकृतम्
Lemma: दक्षिणीकृ
POS: 8. P.
Canonical CTS URN Reference
Kumārasambhavam, KS 8.17. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.16) All Verses in Chapter 8 Next Verse (KS 8.18) →