Skip to main content
Search
Full Chapter
KS • Chapter 7: Canto 7

KS 7.9

Canonical Ref: KS 7.9
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् । वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तामिति । लोध्रकल्केन लोध्रचूर्णेन हृतमङ्गतैलं यस्यास्ताम् । कृतोद्वर्तनामित्यर्थः । आश्यानमीषच्छुष्कं तेन कालेयेन गन्धद्रव्येण कृताङ्गरागाम् । कृतस्नैग्ध्यामित्यर्थः । `अथ जायकम् । कालेयकं च कालानुसार्यं चेत्यमरः । अभिषेकयोग्यं वासो वस्त्रं वसानां स्नानशाजीमाच्छादयन्तीं तां पार्वतीं नार्यश्चतुष्कं चतुः स्तम्भगृहं तदभिमुखं व्यनैषुः । स्नानगृहं निन्युरित्यर्थः अन्वयः: लोध्रकल्केन हृताऽङ्गतैलाम् आश्यानकालेयकृताऽङ्गरागाम् अभिषेकयोग्यं वासो वसानां तां नार्यः चतुष्काऽभिमुखं व्यनैषुः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तां
Lemma: तद्
POS: pron
लोध्रकल्केन
Lemma: लोध्र
POS: mn
लोध्रकल्केन
Lemma: कल्क
POS: mn
हृताङ्गतैलाम्
Lemma: हृ
POS: 2. P.
हृताङ्गतैलाम्
Lemma: अङ्ग
POS: n
हृताङ्गतैलाम्
Lemma: तैल
POS: n
आश्यानकालेयकृताङ्गरागाम्
Lemma: आश्या
POS: 4. P.
आश्यानकालेयकृताङ्गरागाम्
Lemma: कालेय
POS: n
आश्यानकालेयकृताङ्गरागाम्
Lemma: कृ
POS: 2. Ā.
आश्यानकालेयकृताङ्गरागाम्
Lemma: अङ्ग
POS: n
आश्यानकालेयकृताङ्गरागाम्
Lemma: राग
POS: m
वासो
Lemma: वासस्
POS: n
वसानाम्
Lemma: वसा
POS: f
अभिषेकयोग्यं
Lemma: अभिषेक
POS: m
अभिषेकयोग्यं
Lemma: योग्य
POS: adj
नार्यश्
Lemma: नारी
POS: f
चतुष्काभिमुखं
Lemma: चतुष्क
POS: m
चतुष्काभिमुखं
Lemma: अभिमुख
POS: adj
व्यनैषुः
Lemma: विनी
POS: 1. Ā. • Verb: व्यनैषुः
Canonical CTS URN Reference
Kumārasambhavam, KS 7.9. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.8) All Verses in Chapter 7 Next Verse (KS 7.10) →