Skip to main content
Search
Full Chapter
KS • Chapter 5: Canto 5

KS 5.4

Canonical Ref: KS 5.4
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
मनीषिताः सन्ति गृहेऽपि देवतास्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीशपुष्पं न पुनः पतत्रिणः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): मनीषिता इति ॥ हे वत्से ! मनस ईषिता इष्टा मनीषिताः । शकन्ध्वादित्वात्साधुः । देवताः शच्यादयो गृहेषु सन्ति । त्वं तामाराधयेति शेषः । तपः क्व तवेदं तावकम् । `युष्मदस्मदोरन्यतरस्यां खञ्च` इत्यण्प्रत्ययः । `तवकममकावेकवचन` इति तवकादेशः । वपुश्च क्व । तथाहि । पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत । पतत्त्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योपभोगभोग्यं ते वपुर्न दारुणतपःक्षममित्यर्थः । अत्र द्दष्टान्तालंकारः अन्वयः: `हे वत्से ! मनीषिता देवता गृहेषु सन्ति तपः क्व ? तावकं वपुश्च क्व ? पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत पतत्त्रिणः पुनः पदं न सहेत ।`

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
मनीषिताः
Lemma: मनीषित
POS: adj
सन्ति
Lemma: अस्
POS: 2. P. • Verb: सन्ति
गृहे
Lemma: गृह
POS: mn
ऽपि
Lemma: अपि
POS: ind
देवतास्
Lemma: देवता
POS: f
तपः
Lemma: तपस्
POS: n
क्व
Lemma: क्व
POS: ind
वत्से
Lemma: वत्सा
POS: f
क्व
Lemma: क्व
POS: ind
च
Lemma: च
POS: ind
तावकं
Lemma: तावक
POS: adj
वपुः
Lemma: वपुस्
POS: n
पदं
Lemma: पद
POS: mn
सहेत
Lemma: सह्
POS: 1. P. • Verb: सहेत
भ्रमरस्य
Lemma: भ्रमर
POS: m
पेलवं
Lemma: पेलव
POS: adj
शिरीषपुष्पं
Lemma: शिरीष
POS: mn
शिरीषपुष्पं
Lemma: पुष्प
POS: n
न
Lemma: न
POS: ind
पुनः
Lemma: पुनर्
POS: ind
पतत्रिणः
Lemma: पतत्रिन्
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 5.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.3) All Verses in Chapter 5 Next Verse (KS 5.5) →