Skip to main content
Search
Ch. 5 KS 5.30
Full Chapter
KS • Chapter 5: Canto 5

KS 5.30

Canonical Ref: KS 5.30
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथानन्तरमजिनं कृष्णमृगत्वक् । आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः । `पालाशो दण्ड आषाढः` इत्यमरः (अ.को.2|7|49) । `विशाखाषाढादण्मन्थदण्डयोः` इत्यण्प्रत्ययः । तयोर्धरस्तथोक्तः प्रगल्भवाक्प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजसा । ब्रह्मवर्चसेनेत्यर्थः । ज्वलन्निव स्थितः । इवशब्दो निर्धारणार्थः । कश्चिदनिर्दिष्टो जटिलो जटावान् । ब्रह्मचारीति शेषः । पिच्छादित्वादिलच्प्रत्ययः । शरीरबद्धो बद्धशरीरः । शरीरवानित्यर्थः । वाहिताग्न्यादिषु पाठात्साधुः । प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव यथाशब्द इवार्थे । तपोवनम् । देव्या इति शेषः । विवेश प्रविष्टवान् अन्वयः: अथ अजिनाषाढधरः प्रगल्भवाक् ब्रह्ममयेन तेजसा ज्वलन् इव कश्चित् जटिलः शरीरबद्धः प्रथमाश्रमे यथा तपोवनं विवेश ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अथाजिनाषाढधरः
Lemma: अथ
POS: ind
अथाजिनाषाढधरः
Lemma: अजिन
POS: n
अथाजिनाषाढधरः
Lemma: आषाढ
POS: m
अथाजिनाषाढधरः
Lemma: धर
POS: adj
प्रगल्भवाग्
Lemma: प्रगल्भ
POS: adj
प्रगल्भवाग्
Lemma: वाच्
POS: f
ज्वलन्न्
Lemma: ज्वल्
POS: 1. Ā.
इव
Lemma: इव
POS: ind
ब्रह्ममयेन
Lemma: ब्रह्मन्
POS: n
ब्रह्ममयेन
Lemma: मय
POS: adj
तेजसा
Lemma: तेजस्
POS: n
विवेश
Lemma: विश्
POS: 4. P. • Verb: विवेश
कश्चिज्
Lemma: कश्चित्
POS: pron
जटिलस्
Lemma: जटिल
POS: adj
तपोवनं
Lemma: तपस्
POS: n
तपोवनं
Lemma: वन
POS: n
शरीरबद्धः
Lemma: शरीर
POS: n
शरीरबद्धः
Lemma: बन्ध्
POS: 4. P.
प्रथमाश्रमो
Lemma: प्रथम
POS: adj
प्रथमाश्रमो
Lemma: आश्रम
POS: mn
यथा
Lemma: यथा
POS: ind
Canonical CTS URN Reference
Kumārasambhavam, KS 5.30. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.29) All Verses in Chapter 5 Next Verse (KS 5.31) →