Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 19 (Kāṇḍa 19) • Sūkta 2

Kāṇḍa 19 Sūkta 2

काण्डम् 19 • सूक्तम् 2

Kāṇḍa 19 Sūkta 2 of the Shaunaka Saṁhitā of Atharvaveda with 5 mantras.

Total: 5 Verses • Citations: AV 19.2.1–5 • 2 Lexicon Terms
आपः।
१-५ सिन्धुद्वीपः। आपः। अनुष्टुप्।
शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः ।
शं ते॑ सनि॒ष्यदा॒ आपः॒ शमु॑ ते सन्तु व॒र्ष्याः
शं त॒ आपो॑ धन्व॒न्याः॒३ शं ते॑ सन्त्वनू॒प्याः ।
शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः
अ॒न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑ ।
भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अच्छा॑ वदामसि
अ॒पामह॑ दि॒व्याऽनाम॒पां स्रो॑त॒स्याऽनाम्।
अ॒पामह॑ प्र॒णेज॒नेऽश्वा॑ भवथ वा॒जिनः॑
ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः ।
यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः
← Previous (Ch. 522) Full Table of Contents Next (Ch. 524) →