Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 13 (Kāṇḍa 13) • Sūkta 2

Kāṇḍa 13 Sūkta 2

काण्डम् 13 • सूक्तम् 2

Kāṇḍa 13 Sūkta 2 of the Shaunaka Saṁhitā of Atharvaveda with 46 mantras.

Total: 46 Verses • Citations: AV 13.2.1–46 • 2 Lexicon Terms • Page 2 of 2 (Verses 16 shown)
अ॒र्वाङ् प॒रस्ता॒त् प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित् प॒तय॑न् पत॒ङ्गः ।
विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न् प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त्
चि॒त्रश्चि॑कि॒त्वान् म॑हि॒षः सु॑प॒र्ण आ॑रो॒चय॒न् रोद॑सी अ॒न्तरि॑क्षम्।
अ॒हो॒रा॒त्रे परि॒ सूर्यं॒ वसा॑ने॒ प्रास्य॒ विश्वा॑ तिरतो वी॒र्याऽणि
ति॒ग्मो वि॒भ्राज॑न् त॒न्वं॑१ शिशा॑नोऽरंग॒मासः॑ प्र॒वतो॒ ररा॑णः ।
ज्योति॑ष्मान् प॒क्षी म॑हि॒षो व॑यो॒धा विश्वा॒ आस्था॑त् प्र॒दिशः॒ कल्प॑मानः
चि॒त्रं दे॒वानां॑ के॒तुरनी॑कं॒ ज्योति॑ष्मान् प्र॒दिशः॒ सूर्य॑ उ॒द्यन्।
दि॒वा॒क॒रोऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद् दुरि॒तानि॑ शु॒क्रः
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒द् द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च
उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्।
पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यदवि॑न्द॒दत्त्रिः॑
दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः ।
स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम
स॒ह॒स्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न् याति॒ भुव॑नानि॒ विश्वा॑
रोहि॑तः का॒लो अ॑भव॒द् रोहि॒तोऽग्रे॑ प्र॒जाप॑तिः ।
रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्व॑१राभ॑रत्
रोहि॑तो लो॒को अ॑भव॒द् रोहि॒तोऽत्य॑तप॒द् दिव॑म्।
रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत्
सर्वा॒ दिशः॒ सम॑चर॒द् रोहि॒तोऽधि॑पतिर्दि॒वः ।
दिवं॑ समु॒द्रमाद् भूमिं॒ सर्वं॑ भू॒तं वि र॑क्षति
आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः ।
चि॒त्रश्चि॑कि॒त्वान् म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद् वि॒भाति॑
अ॒भ्य॑१न्यदे॑ति॒ पर्य॒न्यद॑स्यतेऽहोरा॒त्राभ्यां॑ महि॒षः कल्प॑मानः ।
सूर्यं॑ व॒यं रज॑सि क्षि॒यन्तं॑ गातु॒विदं॑ हवामहे॒ नाध॑मानाः
पृ॒थि॒वी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ ब॒भूव॑ ।
विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि
पर्य॑स्य महि॒मा पृ॑थि॒वीं स॑मु॒द्रं ज्योति॑षा वि॒भ्राज॒न् परि॒ द्याम॒न्तरि॑क्षम्।
सर्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि
अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म्।
य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑
← Previous (Ch. 479) Full Table of Contents Next (Ch. 481) →