Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 10 (Kāṇḍa 10) • Sūkta 8

Kāṇḍa 10 Sūkta 8

काण्डम् 10 • सूक्तम् 8

Kāṇḍa 10 Sūkta 8 of the Shaunaka Saṁhitā of Atharvaveda with 44 mantras.

Total: 44 Verses • Citations: AV 10.8.1–44 • 2 Lexicon Terms • Page 2 of 2 (Verses 14 shown)
अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता ।
तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः
अन्ति॒ सन्तं॒ न ज॑हा॒त्यन्ति॒ सन्तं॒ न प॑श्यति ।
दे॒वस्य॑ पश्य॒ काव्यं॒ न म॑मार॒ न जी॑र्यति
अ॒पू॒र्वेणे॑षि॒ता वाच॒स्ता व॑दन्ति यथाय॒थम्।
वद॑न्ती॒र्यत्र गच्छ॑न्ति॒ तदा॑हु॒र्ब्राह्म॑णं म॒हत्
यत्र॑ दे॒वाश्च॑ मनु॒ष्याऽश्चा॒रा नाभा॑विव श्रि॒ताः ।
अ॒पां त्वा॒ पुष्पं॑ पृच्छामि॒ यत्र॒ तन्मा॒यया॑ हि॒तम्
ये भि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑ ।
य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन्
इ॒मामे॑षां पृथि॒वीं वस्त॒ एको॒ऽन्तरि॑क्षं॒ पर्ये॑को॑ बभूव ।
दिव॑मेषां ददते॒ यो वि॑ध॒र्ता विश्वा॒ आशाः॒ प्रति॑ रक्ष॒न्त्येके॑
यो वि॒द्यात् सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः ।
सूत्रं॒ सूत्र॑स्य॒ यो वि॒द्याद् स वि॑द्या॒द् ब्राह्म॑णं म॒हत्
वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः ।
सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद् ब्राह्म॑णं म॒हत्
यद॑न्त॒रा द्यावा॑पृथि॒वी अ॒ग्निरैत् प्र॒दह॑न् विश्वदा॒व्यः ।
यत्राति॑ष्ठ॒न्नेक॑पत्नीः प॒रस्ता॒त् क्वेऽवासीन्मात॒रिश्वा॑ त॒दानी॑म्
अ॒प्स्वाऽसीन्मात॒रिश्वा॒ प्रवि॑ष्टः॒ प्रवि॑ष्टा दे॒वाः स॑लि॒लान्या॑सन्॥
बृ॒हन् ह॑ तस्थौ॒ रज॑सो वि॒मानः॒ पव॑मानो ह॒रित॒ आ वि॑वेश
उत्त॑रेणेव गाय॒त्रीम॒मृतेऽधि॒ वि च॑क्रमे ।
साम्ना॒ ये साम॑ संवि॒दुर॒जस्तद् द॑दृशे॒ क्वऽ
नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां दे॒व इ॑व सवि॒ता स॒त्यध॑र्मा ।
इन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम्
पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्।
तस्मि॒न् यद् य॒क्षमा॑त्म॒न्वत् तद् वै ब्र॑ह्म॒विदो॑ विदुः
अ॒का॒मो धीरो॑ अ॒मृतः॑ स्वयं॒भू रसे॑न तृ॒प्तो न कुत॑श्च॒नोनः॑ ।
तमे॒व वि॒द्वान् न बि॑भाय मृ॒त्योरा॒त्मानं॒ धीर॑म॒जरं॒ युवा॑नम्
← Previous (Ch. 460) Full Table of Contents Next (Ch. 462) →