Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 10 (Kāṇḍa 10) • Sūkta 5

Kāṇḍa 10 Sūkta 5

काण्डम् 10 • सूक्तम् 5

Kāṇḍa 10 Sūkta 5 of the Shaunaka Saṁhitā of Atharvaveda with 50 mantras.

Total: 50 Verses • Citations: AV 10.5.1–50 • 2 Lexicon Terms • Page 2 of 2 (Verses 20 shown)
६॥
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा य॒ज्ञसं॑शितो॒ ब्रह्म॑तेजाः ।
य॒ज्ञमनु॒ वि क्र॑मे॒ऽहं य॒ज्ञात् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
७॥
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हौष॑धीसंशितः॒ सोम॑तेजाः ।
ओष॑धी॒रनु॒ वि क्र॑मे॒ऽहमोष॑धीभ्य॒स्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
८॥
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाप्सुसं॑शितो॒ वरु॑णतेजाः ।
अ॒पोऽनु॒ वि क्र॑मे॒ऽहम॒द्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
९॥
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा कृ॒षिसं॑शि॒तोऽन्न॑तेजाः ।
कृ॒षिमनु॒ वि क्र॑मे॒ऽहं कृ॒ष्यास्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
१०॥
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा प्रा॒णसं॑शितः॒ पुरु॑षतेजाः ।
प्रा॒णमनु॒ वि क्र॑मे॒ऽहं प्रा॒णात् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
११॥
(६)
३६-४१ (१-६) ब्रह्मा। मन्त्रोक्ताः। ३६ मार्त्वी पञ्चपदातिशाक्वरातिजागतगर्भाष्टिः, ३७ विराट् पुरस्ताद्बृहती, ३८ पुर उष्णिक्, ३९, ४० आर्षी गायत्री, ४० विराड् विषमा गायत्री।
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यऽष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः ।
इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि
१॥
सूर्य॑स्या॒वृत॑म॒न्वाव॑र्ते॒ दक्षि॑णा॒मन्वा॒वृत॑म्।
सा मे॒ द्रवि॑णं यच्छतु॒ सा मे॑ ब्राह्मणवर्च॒सम्
२॥
दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते ।
ता मे॒ द्रवि॑णं यच्छन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम्
३॥
स॒प्त॒ऋ॒षीन॒भ्याव॑र्ते । ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम्
४॥
ब्रह्मा॒भ्याव॑र्ते । तन्मे॒ द्रवि॑णं यच्छतु तन्मे॑ ब्राह्मणवर्च॒सम्
५॥
ब्रा॒ह्म॒णाँ अ॒भ्याव॑र्ते । ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम्
६॥
(७)
४२-५० (१-९) विहव्यः। प्राजापत्या अनुष्टुप्, ४४ त्रिपदा गायत्रीगर्भानुष्टुप्, ५० त्रिष्टुप्।
यं व॒यं मृ॒गया॑महे॒ तं व॒धै स्तृ॑णवामहै ।
व्यात्ते॑ परमे॒ष्ठिनो॒ ब्रह्म॒णापी॑पदाम॒ तम्
वै॒श्वा॒न॒रस्य॒ दंष्ट्रा॑भ्यां हे॒तिस्तं सम॑धाद॒भि।
इ॒यं तं प्सा॒त्वाहु॑तिः स॒मिद् दे॒वी सही॑यसी
राज्ञो॒ वरु॑णस्य ब॒न्धोऽसि ।
सो॒३मुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान
यत् ते॒ अन्नं॑ भुवस्पत आक्षि॒यति॑ पृथि॒वीमनु॑ ।
तस्य॑ न॒स्त्वं भु॑वस्पते सं॒प्रय॑च्छ प्रजापते
अ॒पो दि॒व्या अ॑चायिषं॒ रसे॑न॒ सम॑पृक्ष्महि ।
पय॑स्वानग्न॒ आग॑मं॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा ।
वि॒द्युर्मे॑ अ॒स्य दे॒वा इन्द्रो॑ विद्यात् स॒ह ऋषि॑भिः
यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद् वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः ।
म॒न्योर्मन॑सः शर॒व्या॒३ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न्
परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न् परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि ।
परा॒र्चिषा॒ मूर॑देवां छृणीहि॒ परा॑सु॒तृपः॒ शोशु॑चतः शृणीहि
अ॒पाम॑स्मै॒ वज्रं॒ प्र ह॑रामि॒ चतु॑र्भृष्टिं शीर्ष॒भिद्या॑य वि॒द्वान्।
सो अ॒स्याङ्गा॑नि॒ प्र शृ॑णातु॒ सर्वा॒ तन्मे॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑
← Previous (Ch. 457) Full Table of Contents Next (Ch. 459) →