वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यं धे॒नुं गां न वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यं धे॒नुं गां न वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
द्वि॒पदं॒ छन्द॑ इन्द्रि॒यमु॒क्षाणं॒ गां न वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
क॒कुभं॒ छन्द॑ इ॒हेन्द्रि॒यं व॒शां वे॒हतं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
अति॑च्छन्दसं॒ छन्द॑ इन्द्रि॒यं बृ॒हदृ॑ष॒भं गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
गा॒य॒त्र्या छन्द॑सेन्द्रि॒यं चक्षु॒रिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑
उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यं प्रा॒णमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं बल॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑
बृ॒ह॒त्या छन्द॑सेन्द्रि॒यᳪ श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑
प॒ङ्क्त्या छन्द॑सेन्द्रि॒यᳪ शु॒क्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑
त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं त्विषि॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑
जग॑त्या॒ छन्द॑सेन्द्रि॒यᳪ शूष॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
वि॒राजा॒ छन्द॑सेन्द्रि॒यᳪ रु॒पमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑
द्विप॑दा॒ छन्द॑सेन्द्रि॒यं भग॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑
क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ इन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑
अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यं क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य वयो॒धसे॒ छागे॑न ।
अघ॒त्तं मे॑द॒स्तः प्रति॑पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒डाशे॑न । त्वाम॒द्य ऋ॑षे