Skip to main content
Search
YV
Śukla Yajurveda Saṁhitā (Vājasaneyi) • Chapter 12

Adhyāya 12

अध्यायः 12

Adhyāya 12 of the Vājasaneyi Mādhyandina Saṁhitā of Śukla Yajurveda with 117 mantras.

Total: 117 Verses • Citations: YV 12.1–117 • 2 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॒म॒ग्निᳪ स्वे योना॑वभारु॒खा ।
तां विश्वै॑र्दे॒वैरृ॒तुभि॑: संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निरृते॒ तुभ्य॑मस्तु
नम॒: सु ते॑ निरृते तिग्मतेजोऽय॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् ।
य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे ना॒के अधि॑ रोहयैनम्
यस्या॑स्ते घोर आ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय ।
यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निरृ॑तिं त्वा॒ऽहं परि॑वेद वि॒श्वत॑:
यं ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ पाशं॑ ग्री॒वास्व॑विचृ॒त्यम् ।
तं ते॒ वि ष्या॒म्यायु॑षो॒ न मध्या॒दथै॒तं पि॒तुम॑द्धि॒ प्रसू॑तः । नमो॒ भूत्यै॒ येदं च॒कार॑
नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाऽभि च॑ष्टे॒ शची॑भिः ।
दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम्
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् ।
गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्य॒: प॒क्वमेया॑त्
शु॒नᳪ सु फाला॒ वि कृ॑षन्तु॒ भूमि॑ᳪ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः ।
शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तना॒स्मै
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भि॑: ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒ऽभ्या व॑वृत्स्व
लाङ्ग॑लं॒ पवी॑रवत्सु॒शेव॑ᳪ सोम॒पित्स॑रु । तदुद्व॑पति॒ गामविं॑ प्रफ॒र्व्यं॒ च॒ पीव॑रीं प्र॒स्थाव॑द्रथ॒वाह॑णम्
कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒श्विभ्यां॑ पू॒ष्णे प्र॒जाभ्य॒ ओष॑धीभ्यः
वि मु॑च्यध्वमघ्न्या देवयाना॒ अग॑न्म॒ तम॑सस्पा॒रम॒स्य
ज्योति॑रापाम
स॒जूरब्दो॒ अय॑वोभिः स॒जूरु॒षा अरु॑णीभिः
स॒जोष॑साव॒श्विना॒ दᳪसो॑भिः स॒जूः सूर॒ एत॑शेन स॒जूर्वै॑श्वान॒र इड॑या घृ॒तेन॒ स्वाहा॑
या ओष॑धी॒: पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हᳪ श॒तं धामा॑नि स॒प्त च॑
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुह॑: । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त
ओष॑धी॒: प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुध॑: पारयि॒ष्ण्व॒:
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम्
यत्रौ॑षधीः स॒मग्म॑त॒ राजा॑न॒: समि॑ताविव । विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः
अ॒श्वा॒व॒तीᳪ सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आऽवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धन॑ᳪ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष
इ॒ष्कृ॑ति॒र्नाम॑ वो मा॒ताऽथो॑ यू॒यᳪ स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणी॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ
अति॒ विश्वा॑: परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धी॒: प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो रप॑:
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॑: संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वच॑:
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी॑: । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वᳪह॑सः
मु॒ञ्चन्तु॑ मा शप॒थ्यादथो॑ वरु॒ण्या॒दु॒त । अथो॑ य॒मस्य॒ पड्वी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात्
← Previous (Ch. 11) Full Table of Contents Next (Ch. 13) →