Skip to main content
Search
YV
Śukla Yajurveda Saṁhitā (Vājasaneyi) • Chapter 12

Adhyāya 12

अध्यायः 12

Adhyāya 12 of the Vājasaneyi Mādhyandina Saṁhitā of Śukla Yajurveda with 117 mantras.

Total: 117 Verses • Citations: YV 12.1–117 • 2 Lexicon Terms • Page 4 of 4 (Verses 27 shown)
अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः
या ओष॑धी॒: सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासा॑मसि॒ त्वमु॑त्त॒मारं॒ कामा॑य॒ शᳪ हृ॒दे
या ओष॑धी॒: सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अस्यै॒ संद॑त्त वी॒र्य॒म्
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । सर्वा॑: सं॒गत्य॑ वीरुधोऽस्यै॒ संद॑त्त वी॒र्य॒म्
मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पाच्चतु॑ष्पाद॒स्माक॒ᳪ सर्व॑मस्त्वनातु॒रम्
ओष॑धय॒: सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तᳪ रा॑जन् पारयामसि
ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि । अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी
त्वां ग॑न्ध॒र्वा अ॑खनँ॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पति॑: । त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत
सह॑स्व मे॒ अरा॑ती॒: सह॑स्व पृतनाय॒तः । सह॑स्व॒ सर्वं॑ पा॒प्मान॒ᳪ सह॑मानास्योषधे
दी॒र्घायु॑स्त ओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑म्य॒हम् । अथो॒ त्वं दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा॒ विरो॑हतात्
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सोऽस्माकं॒ यो अ॒स्माँ२ अ॑भि॒दास॑ति
मा मा॑ हिᳪसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ᳪ स॒त्यध॑र्मा॒ व्यान॑ट् ।
यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
अ॒भ्या व॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तो अ॑रोहत्
अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म् ।
तद्दे॒वेभ्यो॑ भरामसि
इष॒मूर्ज॑म॒हमि॒त आद॑मृ॒तस्य॒ योनिं॑ महि॒षस्य॒ धारा॑म् ।
आ मा॒ गोषु॑ विश॒त्वा त॒नूषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम्
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो ।
बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं दधा॑सि दा॒शुषे॑ कवे
पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ ।
पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः ।
त्वे इष॒: सन्द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य ।
स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म्
इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्त॒ᳪ राध॑सो म॒हः ।
रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिᳪ र॒यिम्
ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निᳪ सु॒म्नाय॑ दधिरे पु॒रो जना॑: ।
श्रुत्क॑र्णᳪ स॒प्रथ॑स्तमं त्वा गि॒रा दै॑व्यं॒ मानु॑षा यु॒गा
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य सङ्ग॒थे
सं ते॒ पया॑ᳪसि॒ समु॑ यन्तु॒ वाजा॒: सं वृष्ण्या॑न्यभिमाति॒षाह॑: ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑ᳪस्युत्त॒मानि॑ धिष्व
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिर॒ᳪशुभि॑: । भवा॑ नः स॒प्रथ॑स्तम॒: सखा॑ वृ॒धे
आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् । अग्ने॒ त्वाङ्का॑मया गि॒रा
तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा॑: सुक्षि॒तय॒: पृथ॑क् । अग्ने॒ कामा॑य येमिरे
अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ वि रा॑जति
← Previous (Ch. 11) Full Table of Contents Next (Ch. 13) →