इष्टेन युज्यस्व ।
अपि निर्विघ्नतपसो मुनयः ।
ऋषयः
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि । तमस्तपति धर्मांशौ कथमाविर्भविष्यति ॥
अर्थवान्खलु मे राजशब्दः ।अथ भगवांल्लोकानुग्रहाय कुशली काश्यपः ।
स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह ।
किमाज्ञापयति भगवान् ।
यन्मिथःसमयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया । समानयंस्तुल्यगुणं वधूवरम् चिरस्य वाच्यं न गतः प्रजापतिः ॥
तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्मचरणायेति ।
आर्य किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति ।
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः ।एकैकस्मिन्नेव चरिते भणामि किमेकैकम् ॥
(आत्मगतम्) किं नु खल्वार्यपुत्रो भणति ।
किमिदमुपन्यस्तम् ।
(आत्मगतम्) पावकः खलु वचनोपन्यासः ।
कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः ।
सतीमपि ज्ञातिकुलैकसंश्रयाम् जनोऽन्यथा भर्तृमतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥
किमत्रभवती मया परिणीतपूर्वा ।
(सविषादम्) हृदय सांप्रतं ते आशङ्का ।
किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा ।
कुतोऽयमसत्कल्पनाप्रश्नः ।
शा
मूर्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥
विशेषेणाधिक्षिप्तोऽस्मि ।
जाते मुह्हूर्तं मा लज्जस्व ।अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति ।
(शकुन्तलां निर्वर्ण्य ।आत्मगतम्)
इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारम् न च खलु परोभोक्तुं नापि शक्नोमि हातुम् ॥
(इति विचारयन्स्थितः)
(स्वगतम्)अहो धर्मापेक्षिता भर्तुः ।ईदृशं नाम सुखोपनतं रूपं दृष्टा कोऽन्यो विचारयति ।
भो राजन्किमिति जोषमास्यते ।