Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 5 (Maṇḍala 5) • Sūkta 66

Maṇḍala 5 Sūkta 66

मण्डलम् 5 • सूक्तम् 66

Maṇḍala 5 Sūkta 66 of the Ṛgveda Saṁhitā with 6 mantras.

Total: 6 Verses • Citations: RV 5.66.1–6 • 3 Lexicon Terms
६ रातहव्य आत्रेयः। मित्रावरुणौ। अनुष्टुप्।

आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा । वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१माशा॑ते । अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१र्ण धा॑यि दर्श॒तम्
ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम् । रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक् स्तोमै॑र्मनामहे
अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता । नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा
तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम् । ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः
आ यद् वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रय॑: । व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑
← Previous (Ch. 419) Full Table of Contents Next (Ch. 421) →