Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 4 (Maṇḍala 4) • Sūkta 14

Maṇḍala 4 Sūkta 14

मण्डलम् 4 • सूक्तम् 14

Maṇḍala 4 Sūkta 14 of the Ṛgveda Saṁhitā with 5 mantras.

Total: 5 Verses • Citations: RV 4.14.1–5 • 3 Lexicon Terms
५ वामदेवो गौतमः। अग्निः(लिङ्गोक्तदेवता इति एके)।त्रिष्टुप्।

प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द् दे॒वो रोच॑माना॒ महो॑भिः ।

आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑
ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् ।

आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः
आ॒वह॑न्त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना ।

प्र॒बो॒धय॑न्ती सुवि॒ताय॑ दे॒व्यु१षा ई॑यते सु॒युजा॒ रथे॑न
आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ ।

इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन् य॒ज्ञे वृ॑षणा मादयेथाम्
अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न ।

कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म्
← Previous (Ch. 309) Full Table of Contents Next (Ch. 311) →