Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 1 (Maṇḍala 1) • Sūkta 191

Maṇḍala 1 Sūkta 191

मण्डलम् 1 • सूक्तम् 191

Maṇḍala 1 Sūkta 191 of the Ṛgveda Saṁhitā with 2 mantras.

Total: 2 Verses • Citations: RV 1.191.1–2 • 3 Lexicon Terms
९ मधुच्छन्दा वैश्वामित्रः । अग्निः। गायत्री।

१६ अग्स्त्यो मैत्रावरुणिः । (विषघ्नोपनिषद्)। अनुष्टुप्, १०-१२ महा पंक्तिः, १३ महबृहती।

कङ्क॑तो॒ न कङ्क॒तो ऽथो॑ सती॒नक॑ङ्कतः ।

द्वाविति॒ प्लुषी॒ इति॒ न्य१दृष्टा॑ अलिप्सत ॥१

अ॒दृष्टा॑न् हन्त्याय॒त्यथो॑ हन्ति पराय॒ती ।

अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥२

श॒रास॒: कुश॑रासो द॒र्भास॑: सै॒र्या उ॒त ।

मौ॒ञ्जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥३

नि गावो॑ गो॒ष्ठे अ॑सद॒न् नि मृ॒गासो॑ अविक्षत ।

नि के॒तवो॒ जना॑नां॒ न्य१दृष्टा॑ अलिप्सत ॥४

ए॒त उ॒ त्ये प्रत्य॑दृश्रन् प्रदो॒षं तस्क॑रा इव ।

अदृ॑ष्टा॒ विश्व॑दृष्टा॒: प्रति॑बुद्धा अभूतन ॥५

द्यौर्व॑: पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑ति॒: स्वसा॑ ।

अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥६

ये अंस्या॒ ये अङ्ग्या॑: सू॒चीका॒ ये प्र॑कङ्क॒ताः ।

अदृ॑ष्टा॒: किं च॒नेह व॒: सर्वे॑ सा॒कं नि ज॑स्यत ॥७

उत् पु॒रस्ता॒त् सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।

अ॒दृष्टा॒न् त्सर्वा॑ञ्ज॒म्भय॒न् त्सर्वा॑श्च यातुधा॒न्य॑: ॥८

उद॑पप्तद॒सौ सूर्य॑: पु॒रु विश्वा॑नि॒ जूर्व॑न् ।

आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥९

सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे ।

सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒ऽऽरे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१०

इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् ।

सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒ऽऽरे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥११

त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् ।

ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒ऽऽरे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१२

न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् ।

सर्वा॑सामग्रभं॒ नामा॒ऽऽरे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१३

त्रिः स॒प्त म॑यू॒र्य॑: स॒प्त स्वसा॑रो अ॒ग्रुव॑: ।

तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥१४

इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना ।

ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वत॑: ॥१५

कु॒षु॒म्भ॒कस्तद॑ब्रवीद् गि॒रेः प्र॑वर्तमान॒कः ।

वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम्
इति प्रथमं मण्डलं समाप्तम्॥
← Previous (Ch. 190) Full Table of Contents Next (Ch. 192) →