Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 03

Raṅgadaivata Pūjana

रङ्गदैवतपूजनम्

Sacred ritual consecration of the theatrical space (Raṅgapūjā) and invocation of guardian deities presiding over specific sectors of the stage (Raṅgapīṭha, Mattavāraṇī, Nepathya) to protect the performance from disruptions.

Total: 106 Verses • Citations: NS 3.1–106 • 31 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
NS 3.59 अनुष्टुप्
महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः ॥
mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ । pragṛtāṃ balirbhaktyā mayā samprati coditaḥ ॥
NS 3.60 उपजातिः
नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् । (भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः) । कामपाल नमो नित्यं यस्यायं ते विधिः कृतः ॥
namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim । (bhūtebhyaśca namo nityaṃ yeṣāmeṣa baliḥ priyaḥ) । kāmapāla namo nityaṃ yasyāyaṃ te vidhiḥ kṛtaḥ ॥
NS 3.61 अनुष्टुप्
नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः । परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् ॥
nāradastumbaruścaiva viśvāvasupurogamāḥ । parigṛhṇantu me sarve gandharvā balimudyatam ॥
NS 3.62 अनुष्टुप्
यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ ।इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् ॥
yamo mitraśca bhagavānīśvarau lokapūjitau ।imaṃ me pratigṛhṇītāṃ baliḥ mantrapuraskṛtam ॥
NS 3.63 अनुष्टुप्
रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः । दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः ॥
rasātalagatebhyaśca pannagebhyo namo namaḥ । diśantu siddhiṃ nāṭyasya pūjitāḥ pāpanāśanāḥ ॥
NS 3.64 अनुष्टुप्
सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । पूजितः प्रीतमानस्तु ससमुद्रनदीनदः ॥
sarvāmbhasāṃ patirdevo varuṇo haṃsavāhanaḥ । pūjitaḥ prītamānastu sasamudranadīnadaḥ ॥
NS 3.65 अनुष्टुप्
वैनतेय महासत्व सर्वपक्षिपते विभो । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥
vainateya mahāsatva sarvapakṣipate vibho । pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ ॥
NS 3.66 अनुष्टुप्
धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ॥
dhanādhyakṣo yakṣapatirlokapālo dhaneśvaraḥ । saguhyakassayakṣaśca pratigṛhṇātu me balim ॥
NS 3.67 अनुष्टुप्
नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् ॥
namo'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ । sumukhībhiḥ prasannābhirbaliradya pragṛhyatām ॥
NS 3.68 अनुष्टुप्
रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् । विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ॥
rudrapraharaṇaṃ sarvaṃ pratigṛhṇātu me balim । viṣṇupraharaṇaṃ caiva viṣṇubhaktyā mayodyatam ॥
NS 3.69 अनुष्टुप्
तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ । मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥
tathā kṛtāntaḥ kālaśca sarvaprāṇivadheśvarau । mṛtyuśca niyatiścaiva pratigṛhṇātu me balim ॥
NS 3.70 अनुष्टुप्
याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः । मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥
yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ । mantrapūtamimaṃ samyakpratigṛhṇantu me balim ॥
NS 3.71 अनुष्टुप्
अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः । दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः ॥
anye ye devagandharvā diśo daśa samāśritāḥ । divyāntarikṣābhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ ॥
NS 3.72a अनुष्टुप्
कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् । स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ॥
kumbhaṃ salilasampūrṇaṃ puṣpamālāpuraskṛtam । sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet ॥
NS 3.72b अनुष्टुप्
आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥
ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu । gandhairmālyaiśca dhūpaiśca bhakṣyairbhojyaiśca pūjayet ॥
NS 3.73 अनुष्टुप्
पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः ॥
pūjayitvā tu sarvāṇi daivatāni yathākramam । jarjarastvabhisampūjyaḥ syāttato vighnajarjaraḥ ॥
NS 3.74 अनुष्टुप्
श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि । विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि ॥
śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi । viṣṇuparvaṇi vai pītaṃ raktaṃ skandasya parvaṇi ॥
NS 3.75 अनुष्टुप्
मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना । सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥
mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā । sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam ॥
NS 3.76 अनुष्टुप्
आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् ॥
ātodyāni tu sarvāṇi vāsobhiravaguṇṭhayet । gandhairmālyaiśca dhūpaiśca bhakṣyabhojaiśca pūjayet ॥
NS 3.77 अनुष्टुप्
सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ॥
sarvamevaṃ vidhiṃ kṛtvā gandhamālyānulepanaiḥ । vighnajarjaraṇārthaṃ tu jarjaraṃ tvabhimantrayet ॥
NS 3.78 अनुष्टुप्
अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः । निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः ॥
atra vighnavināśārthaṃ pitāmahamukhaissuraiḥ । nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ ॥
NS 3.79 अनुष्टुप्
शिरस्ते रक्षतु ब्रम्हा सर्वैर्देवगुणैअः तह । द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ॥
śiraste rakṣatu bramhā sarvairdevaguṇaiaḥ taha । dvitīyaṃ ca haraḥ parva tṛtīyaṃ ca janārdanaḥ ॥
NS 3.80 अनुष्टुप्
चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः । नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव ॥
caturthaṃ ca kumāraste pañcamaṃ pannagottamaḥ । nityaṃ sarve'pi pāntu tvāṃ surārthe ca śivo bhava ॥
NS 3.81 अनुष्टुप्
नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन । जयं चाभ्युदयं चैव पार्थिवस्य समावह ॥
nakṣatre'bhijiti tvaṃ hi prasūto'hitasūdana । jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha ॥
NS 3.82 उपगीति
जर्जरं पूजयित्वैअवं बलिं सर्वं निविद्य च ।अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् ॥
jarjaraṃ pūjayitvaiavaṃ baliṃ sarvaṃ nividya ca ।agnau homaṃ tataḥ kuryānmantrāhuitipuraskṛtam ॥
NS 3.83 अनुष्टुप्
हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् । नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् ॥
hutāśa eva dīptābhirulkābhiḥ parimārjanam । nṛpaternartakīnāṃ ca kuryāddīptyabhivardhanam ॥
NS 3.84 अनुष्टुप्
अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा । मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ॥
abhidyotya sahātodyairnṛpatiṃ nartakīstathā । mantrapūtena toyena punarabhyukṣya tānvadet ॥
NS 3.85 अनुष्टुप्
महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः । यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः ॥
mahākule prasūtāḥ stha guṇaughaiścāpyalaṅkṛtāḥ । yadvo janmaguṇopetaṃ tadvo bhavatu nityaśaḥ ॥
NS 3.86 अनुष्टुप्
एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः । नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ॥
evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ । nāṭyayogaprasiddhyarthamāśiṣassamprayojayet ॥
NS 3.87 अनुष्टुप्
सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः । पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः ॥
sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīssmṛtirmatiḥ । pāntu vo mātaraḥ saumyāssiddhidāśca bhavantu vaḥ ॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →