Skip to main content
Search
NS
Nāṭyaśāstra • Chapter 03

Raṅgadaivata Pūjana

रङ्गदैवतपूजनम्

Sacred ritual consecration of the theatrical space (Raṅgapūjā) and invocation of guardian deities presiding over specific sectors of the stage (Raṅgapīṭha, Mattavāraṇī, Nepathya) to protect the performance from disruptions.

Total: 106 Verses • Citations: NS 3.1–106 • 31 Lexicon Terms • Page 2 of 4 (Verses 30 shown)
NS 3.30 अनुष्टुप्
उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् । नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् ॥
uttarasyāṃ diśi tathā dhanadaṃ saṃnivieśayet । nāṭyasya mātṝśca tathā yakṣānatha saguhyakān ॥
NS 3.31 अनुष्टुप्
तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् । ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् ॥
tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān । brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayat ॥
NS 3.32 अनुष्टुप्
स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च । ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् ॥
stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca । grāmaṇyamuttare stambhe pūjārthaṃ saṃniviśayet ॥
NS 3.33 अनुष्टुप्
अनेनैअव विधानेन यथास्थानं यथाविधि । सुप्रसादानि सर्वाणि दैवतानि निवेशयत् ॥
anenaiava vidhānena yathāsthānaṃ yathāvidhi । suprasādāni sarvāṇi daivatāni niveśayat ॥
NS 3.34 अनुष्टुप्
स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः । तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः ॥
sthāne sthāne yathānyāyaṃ viniveśya tu devatāḥ । tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ ॥
NS 3.35 अनुष्टुप्
देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् । गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् ॥
devatābhyastu dātavyaṃ sitamālyānulepanam । gandharvavahnisūryobhyo raktamālyānulepanam ॥
NS 3.36 अनुष्टुप्
गन्धं माल्यं च धूपं च यथावदनुपूर्वशः । दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः ॥
gandhaṃ mālyaṃ ca dhūpaṃ ca yathāvadanupūrvaśaḥ । datvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhiḥ ॥
NS 3.37 अनुष्टुप्
ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् । शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ॥
brahmāṇaṃ madukarpeṇa pāyasena sarasvatīm । śivaviṣṇumahendrādyāḥ sampūjyā modakairatha ॥
NS 3.38 अनुष्टुप्
घृतौदनेन हुतभुक्षोमर्कौ तु गुडौदनैः । विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ॥
ghṛtaudanena hutabhukṣomarkau tu guḍaudanaiḥ । viśvedevāḥ sagandharvā munayo madhupāyasaiḥ ॥
NS 3.39 अनुष्टुप्
यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा । पितॄन्पिशाचानुरगान्सर्पिःक्षीरेण तर्पयेत् ॥
yamamitrau ca sampūjyāvapūpairmodakaistathā । pitṝnpiśācānuragānsarpiḥkṣīreṇa tarpayet ॥
NS 3.40 अनुष्टुप्
पक्वानेन तु मांसेन सुरासीथुफलासवैः ।अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः ॥
pakvānena tu māṃsena surāsīthuphalāsavaiḥ ।arcayedbhūtasaṃghāṃśca caṇakaiḥ palalāplutaiḥ ॥
NS 3.41 अनुष्टुप्
अनेनैव विधानेन सम्पूज्या मत्तवारणी । पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ॥
anenaiva vidhānena sampūjyā mattavāraṇī । pakvāmena tu māṃsena sampūjyā rakṣasāṃ gaṇāḥ ॥
NS 3.42 अनुष्टुप्
सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् । शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः ॥
surāmāṃsapradāneana dānavānpratipūjayet । śeṣāndevagaṇāṃstajjñaḥ sāpūpotkārikaudanaiḥ ॥
NS 3.43 अनुष्टुप्
मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा । सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ॥
matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā । sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam ॥
NS 3.44 अनुष्टुप्
नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् । वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः ॥
nānāphūlaphalaścāpi munīnsampratipūjayet । vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ ॥
NS 3.45 अनुष्टुप्
मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः ।अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् ॥
mātṝrnāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ ।apūpairlājikāmiśrairbhakṣyabhojyaiśca pūjayet ॥
NS 3.46 अनुष्टुप्
एवमेषां बलिः कार्यो नानाभोजनसंश्रयः । पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते ॥
evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ । punarmantravidhānena balikarma ca vakṣyate ॥
NS 3.47 अनुष्टुप्
देवदेव महाभाग सर्वलोकपितामह । मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् ॥
devadeva mahābhāga sarvalokapitāmaha । mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim ॥
NS 3.48 अनुष्टुप्
देवदेव महाभाग गणेश त्रिपुरान्तक । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥
devadeva mahābhāga gaṇeśa tripurāntaka । pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ ॥
NS 3.49 अनुष्टुप्
नारायणामितगते पद्मनाभ सुरोत्तम । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः ॥
nārāyaṇāmitagate padmanābha surottama । pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ ॥
NS 3.50 अनुष्टुप्
पुरन्दरामरपते वज्रपाणे शतक्रतो । प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः ॥
purandarāmarapate vajrapāṇe śatakrato । pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ ॥
NS 3.51a अनुष्टुप्
देवसेनापते स्कन्द भगवन्शङ्करप्रिय । बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ॥
devasenāpate skanda bhagavanśaṅkarapriya । baliḥ prītena manasā ṣaṇmukha pratigṛhyatām ॥
NS 3.51b अनुष्टुप्
महादेव महायोगिन्देवदेव सुरोत्तम । संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥
mahādeva mahāyogindevadeva surottama । saṃpragṛhya baliṃ deva rakṣa vighnātsadotthitāt ॥
NS 3.52 अनुष्टुप्
देवि देवमहाभागे सरस्वति हरिप्रिये । प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥
devi devamahābhāge sarasvati haripriye । pragṛhyatāṃ balirmātarmayā bhaktyā samarpitaḥ ॥
NS 3.53 अनुष्टुप्
नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् ॥
nānānimittasambhūtāḥ paulastyāḥ sarva eva tu rākṣasendrā mahāsatvāḥ pratigṛhṇīta me balim ॥
NS 3.54 अनुष्टुप्
लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः । मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् ॥
lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ । mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim ॥
NS 3.55 अनुष्टुप्
सर्वभूतानुभावज्ञ लोकजीवन मारुत । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥
sarvabhūtānubhāvajña lokajīvana māruta । pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ ॥
NS 3.56 अनुष्टुप्
देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन । भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ॥
devavaktra suraśreṣṭha dhūmaketo hutāśana । bhaktyā samudyato deva baliḥ samprati gṛhyatām ॥
NS 3.57 अनुष्टुप्
सर्वग्रहाणां प्रवर तेजोराशे दिवाकर । भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ॥
sarvagrahāṇāṃ pravara tejorāśe divākara । bhaktyā mayodyato deva baliḥ samprati gṛhyatām ॥
NS 3.58 अनुष्टुप्
सर्वग्रहपते सोम द्विजराज जगत्प्रिय । प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः ॥
sarvagrahapate soma dvijarāja jagatpriya । pragṛhyatāmeṣa balirmantrapūto mayodyataḥ ॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →