Skip to main content
Search
Ch. 8 KS 8.27
Full Chapter
KS • Chapter 8: Canto 8

KS 8.27

Canonical Ref: KS 8.27
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् । नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तामिति । अयुग्मानि लोचनानि यस्य सोऽयुग्मलोचनस्त्र्यम्बकः । युग्मशब्दो विशेष्यनिध्नोऽप्यास्ते `तस्मिन्युग्मासु संविशेत्` `युग्मान्दैवे यथा शक्ति पित्र्येऽयुग्मांस्तथैव च` । इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनोद्याने पुलोमतनया शची । `पुलोम्नस्तु शची सुता` इति हरिवंशे । तस्या अलकानामुचितैः पारिजातकुसुमैस्तां प्रसाधयन्नलंकुर्वंश्चिरं सुरवधूभिः सस्पृहमीक्षितः । केन वा पुण्येनायं लभ्यत इति साभिलाषदृष्ट इत्यर्थः । अत्र देवस्यानुकूलनायकत्वं देव्याः स्वाधीनपतिकात्वं चावसेयम् अन्वयः: अयुग्मलोचनः नन्दने पुलोमतनयाऽलकोचितैः पारिजातकुसुमैः तां प्रसाधयन् सुरवधूभिः सस्पृहम् चिरम् ईक्षितः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तां
Lemma: तद्
POS: pron
पुलोमतनयालकोचितैः
Lemma: पुलोमतनया
POS: f
पुलोमतनयालकोचितैः
Lemma: अलक
POS: mn
पुलोमतनयालकोचितैः
Lemma: उचित
POS: adj
पारिजातकुसुमैः
Lemma: पारिजात
POS: m
पारिजातकुसुमैः
Lemma: कुसुम
POS: n
प्रसाधयन्
Lemma: प्रसाधय्
POS: 10. Ā.
नन्दने
Lemma: नन्दन
POS: n
चिरम्
Lemma: चिरम्
POS: ind
अयुग्मलोचनः
Lemma: अयुग्मलोचन
POS: m
सस्पृहं
Lemma: स
POS: ind
सस्पृहं
Lemma: स्पृहा
POS: f
सुरवधूभिर्
Lemma: सुर
POS: m
सुरवधूभिर्
Lemma: वधू
POS: f
ईक्षितः
Lemma: ईक्ष्
POS: 4. P.
Canonical CTS URN Reference
Kumārasambhavam, KS 8.27. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.26) All Verses in Chapter 8 Next Verse (KS 8.28) →