Skip to main content
Search
Ch. 8 KS 8.25
Full Chapter
KS • Chapter 8: Canto 8

KS 8.25

Canonical Ref: KS 8.25
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् । आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्येति । जातु कदाचिद् धूतचन्दनलतः कम्पितपटीरशाखः । `समे शखालते` इत्यमरः । सह लवङ्गस्य केसरैः सलवङ्गकेसरः । `लवङ्गदेवकुसुमम्` इत्यमरः । विशेषणाभ्यां शैत्यसौरभ्ये दर्शिते । दक्षिणानिलो मलयमारुतः । चाटुकारश्चाटुप्रयोगः । प्रियवाद इति यावत् । भावे घञ् । स इव मलयस्थलीषु मलयाचलप्रदेशेषु रतिः सुरतं यस्य तथोक्तस्य तत्र रममाणस्येत्यर्थः । तस्य शिवस्य प्रियाक्लमं प्रियायाः सुरतश्रममाचचाम जहार । यथा लोके महानपि श्रम एकेन प्रियवादेनापैति तद्वद्दक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतक्लमो हृत इत्यर्थः अन्वयः: जातु धूतचन्दनलतः सलवङ्गकेसरः दक्षिणाऽनिलः चाटुकार इव मलयस्थलीरतेः तस्य प्रियाक्लमम् आचचाम ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तस्य
Lemma: तद्
POS: pron
जातु
Lemma: जातु
POS: ind
मलयस्थलीरते
Lemma: मलय
POS: m
मलयस्थलीरते
Lemma: स्थली
POS: f
मलयस्थलीरते
Lemma: रत
POS: n
धूतचन्दनलतः
Lemma: धू
POS: 6. Ā.
धूतचन्दनलतः
Lemma: चन्दन
POS: mn
धूतचन्दनलतः
Lemma: लता
POS: f
प्रियाक्लमम्
Lemma: प्रिया
POS: f
प्रियाक्लमम्
Lemma: क्लम
POS: m
आचचाम
Lemma: आचम्
POS: 1. Ā. • Verb: आचचाम
सलवङ्गकेसरश्
Lemma: स
POS: ind
सलवङ्गकेसरश्
Lemma: लवंग
POS: n
सलवङ्गकेसरश्
Lemma: केसर
POS: mn
चाटुकार
Lemma: चाटु
POS: mn
चाटुकार
Lemma: कार
POS: adj
इव
Lemma: इव
POS: ind
दक्षिणानिलः
Lemma: दक्षिण
POS: adj
दक्षिणानिलः
Lemma: अनिल
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 8.25. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.24) All Verses in Chapter 8 Next Verse (KS 8.26) →