Skip to main content
Search
Ch. 8 KS 8.23
Full Chapter
KS • Chapter 8: Canto 8

KS 8.23

Canonical Ref: KS 8.23
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः । मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पद्मनाभेति । पार्वतीवदनपद्मे षट्पदः । प्रियामुखरसास्वादलोल इत्यर्थः । स हरः । पद्मं नाभिर्यस्य स पद्मनाभो विष्णुः । `अच्प्रत्यन्ववपूर्वात्सामलोम्नः`इत्यत्राजिति योगविभागात्समासान्तः । तस्य वलयैरङ्किता अश्मानो येषां तेषु । अमृतमथनसमय इति भावः । तथा नवाः प्रत्यग्रा अमृतविप्रुषः सुधाबिन्दून्प्राप्तवत्सु मन्दरस्य मन्थाचलस्य कटकेषु नितम्बेषु चावसत् । एतेन मन्दरस्यानेकाद्भुताधारत्वान्मनोविनोदकत्वमुक्तम् अन्वयः: पार्वतीवदनपद्मषठ्पदः (सः) पद्मनाभवलयाऽङ्किता।़श्मसु नवाः अमृतविप्रुषः प्राप्तवत्सु मन्दरस्य कटकेषु च अवसत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
पद्मनाभचरणाङ्किताश्मसु
Lemma: पद्मनाभ
POS: m
पद्मनाभचरणाङ्किताश्मसु
Lemma: चरण
POS: mn
पद्मनाभचरणाङ्किताश्मसु
Lemma: अङ्कय्
POS: 10. P.
पद्मनाभचरणाङ्किताश्मसु
Lemma: अश्मन्
POS: mn
प्राप्तवत्स्व्
Lemma: प्राप्
POS: 1. P.
अमृतविप्रुषो
Lemma: अमृत
POS: n
अमृतविप्रुषो
Lemma: विप्रुष्
POS: f
नवाः
Lemma: नव
POS: adj
मन्दरस्य
Lemma: मन्दर
POS: m
कटकेषु
Lemma: कटक
POS: mn
चावसत्
Lemma: च
POS: ind
चावसत्
Lemma: वस्
POS: 2. P. • Verb: अवसत्
पार्वतीवदनपद्मषट्पदः
Lemma: पार्वती
POS: f
पार्वतीवदनपद्मषट्पदः
Lemma: वदन
POS: n
पार्वतीवदनपद्मषट्पदः
Lemma: पद्म
POS: mn
पार्वतीवदनपद्मषट्पदः
Lemma: षट्पद
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 8.23. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.22) All Verses in Chapter 8 Next Verse (KS 8.24) →