Skip to main content
Search
Ch. 8 KS 8.13
Full Chapter
KS • Chapter 8: Canto 8

KS 8.13

Canonical Ref: KS 8.13
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
वासराणि कतिचित्कथञ्चन स्थाणुना रतमकारि चानया । ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वासराणीति । स्थाणुना शंभुना कर्त्रा प्रिया पार्वती कर्मभूता कतिचिद्वासराणि । कैश्चिदहोभिरित्यर्थः । अत्यन्तसंयोगे द्वितीया । कथंचन कृच्छ्रेण पदं पदप्रक्षेपमकार्यत कारिता । सुरतकर्मणीति शेषः । करोतेर्ण्यन्तात्कर्मणि लुङ् । `हृक्रोरन्यतरस्याम्` (पा.1|4|53) इत्यणि कर्तुः कर्मत्वे `ण्यन्ते कर्तुश्च कर्मणा` इत्यभिहितत्वं च । सा कृतपदा पार्वती ज्ञातमन्मथरसानुभूतसुरतसुखास्वादा सती । `आस्वादे विरसमाहुः` इति शब्दानुशासने । शनैः शनैः क्रमेण रतौ रते दुःखशीलतां प्रतिकूलस्वभावतां मुमोच `शीलं स्वभावे सद्वृत्ते` इत्यमरः (अ.को.3|3|209) । मध्यमावस्थां प्राप्तेत्यर्थः अन्वयः: स्थाणुना अनया (सह) कतिचित् वासराणि कथञ्चन रतम् अकारि । सा शनैः ज्ञातमन्मथरसा रतिदुःखशीलतां मुमोच ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
वासराणि
Lemma: वासर
POS: mn
कतिचित्
Lemma: कतिचिद्
POS: ind
कथञ्चन
Lemma: कथंचन
POS: ind
स्थाणुना
Lemma: स्थाणु
POS: m
रतम्
Lemma: रत
POS: n
अकारि
Lemma: कृ
POS: 2. Ā. • Verb: अकारि
चानया
Lemma: च
POS: ind
चानया
Lemma: इदम्
POS: pron
ज्ञातमन्मथरसा
Lemma: ज्ञा
POS: 4. Ā.
ज्ञातमन्मथरसा
Lemma: मन्मथ
POS: m
ज्ञातमन्मथरसा
Lemma: रस
POS: mn
शनैः
Lemma: शनैस्
POS: ind
शनैः
Lemma: शनैस्
POS: ind
सा
Lemma: तद्
POS: pron
मुमोच
Lemma: मुच्
POS: 6. Ā. • Verb: मुमोच
रतिदुःखशीलताम्
Lemma: रति
POS: f
रतिदुःखशीलताम्
Lemma: दुःख
POS: n
रतिदुःखशीलताम्
Lemma: शील
POS: mn
रतिदुःखशीलताम्
Lemma: ता
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 8.13. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.12) All Verses in Chapter 8 Next Verse (KS 8.14) →