Skip to main content
Search
Ch. 8 KS 8.10
Full Chapter
KS • Chapter 8: Canto 8

KS 8.10

Canonical Ref: KS 8.10
Metrical Form: रथोद्धता
Sanskrit (Devanāgarī)
रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम् । नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): रात्रीति । सा पार्वती विभातसमये प्रभातकाले रात्रिवृत्तम् । सुरतवृत्तान्तमित्यर्थः । अनुयोक्तुं प्रष्टुम् । `प्रश्नोऽनुयोगः पृच्छा च` इत्यमरः (अ.को.1|6|10) । उद्यतं प्रवृत्तं सखीजनं ह्रिया लज्जयापकुतूहलं निराकाङ्क्षं नाकरोत् । न किंचिदाचष्ट इत्यर्थः । हृदयेन हृदा च शंसितुं तत्वरे त्वरिताभूत् । औत्सुक्यादिति भावः । त्वरा संभ्रमादीनामनुभावत्वादिति अन्वयः: सा प्रभातसमये रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सखीजनं ह्रिया अपकुतूहलं न अकरोत्, हृदा तु शंसितुं तत्वरे ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
रात्रिवृत्तम्
Lemma: रात्रि
POS: f
रात्रिवृत्तम्
Lemma: वृत्त
POS: n
अनुयोक्तुम्
Lemma: अनुयुज्
POS: 7. Ā.
उद्यतं
Lemma: उद्यम्
POS: 6. P.
सा
Lemma: तद्
POS: pron
विभातसमये
Lemma: विभात
POS: n
विभातसमये
Lemma: समय
POS: m
सखीजनम्
Lemma: सखी
POS: f
सखीजनम्
Lemma: जन
POS: m
नाकरोद्
Lemma: न
POS: ind
नाकरोद्
Lemma: कृ
POS: 2. Ā. • Verb: अकरोत्
अपकुतूहलं
Lemma: अपकुतूहल
POS: n
ह्रिया
Lemma: ह्री
POS: f
शंसितुं
Lemma: शंस्
POS: 2. Ā.
च
Lemma: च
POS: ind
हृदयेन
Lemma: हृदय
POS: n
तत्वरे
Lemma: त्वर्
POS: 1. P. • Verb: तत्वरे
Canonical CTS URN Reference
Kumārasambhavam, KS 8.10. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 8.9) All Verses in Chapter 8 Next Verse (KS 8.11) →