Skip to main content
Search
Ch. 7 KS 7.50
Full Chapter
KS • Chapter 7: Canto 7

KS 7.50

Canonical Ref: KS 7.50
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् । पुरो विलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति । स वाहोऽप्राप्तः पराभियोगः शत्रुसमाक्रान्तिर्यस्य तत्तथोक्तं नगेन्द्रेण हिमवता गुप्तं रक्षितं नगरमोषधिप्रस्थं पुरोऽग्रे विलग्नैः संक्रान्तैर्हरदृष्टिपातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात्प्रापत् । अन्यथा कथं दूरस्याशुप्राप्तिः स्यादिति भावः । पुरः प्रसृता हरदृष्टयः पिङ्गलवर्णत्वात्सौवर्णानि वृषाकर्षणदामानीवालक्ष्यन्तेत्यर्थः अन्वयः: सः अप्राप्तपराऽभियोगं नगेन्द्रगुप्तं नगरं पुरो विलग्नैः हरदृष्टिपातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात् प्रापत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
स
Lemma: तद्
POS: pron
प्रापद्
Lemma: प्राप्
POS: 1. P. • Verb: प्रापत्
अप्राप्तपराभियोगं
Lemma: अप्राप्त
POS: adj
अप्राप्तपराभियोगं
Lemma: पर
POS: pron
अप्राप्तपराभियोगं
Lemma: अभियोग
POS: m
नगेन्द्रगुप्तं
Lemma: नग
POS: m
नगेन्द्रगुप्तं
Lemma: इन्द्र
POS: m
नगेन्द्रगुप्तं
Lemma: गुप्
POS: 1. Ā.
नगरं
Lemma: नगर
POS: mn
मुहूर्तात्
Lemma: मुहूर्त
POS: mn
पुरो
Lemma: पुरस्
POS: ind
विलग्नैर्
Lemma: विलग्
POS: 1. P.
हरदृष्टिपातैः
Lemma: हर
POS: m
हरदृष्टिपातैः
Lemma: दृष्टि
POS: f
हरदृष्टिपातैः
Lemma: पात
POS: m
सुवर्णसूत्रैर्
Lemma: सुवर्ण
POS: n
सुवर्णसूत्रैर्
Lemma: सूत्र
POS: n
इव
Lemma: इव
POS: ind
कृष्यमाणः
Lemma: कृष्
POS: 6. Ā.
Canonical CTS URN Reference
Kumārasambhavam, KS 7.50. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.49) All Verses in Chapter 7 Next Verse (KS 7.51) →