Skip to main content
Search
Ch. 7 KS 7.48
Full Chapter
KS • Chapter 7: Canto 7

KS 7.48

Canonical Ref: KS 7.48
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः । अध्वानमध्वान्तविकारलङ्घ्यस्ततार ताराधिपखण्डधारी ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): विश्वावस्विति । विश्वावसुर्नाम कश्चिद् गन्धर्वो देवगायकस्तत्प्राग्रहरैस्तत्प्रमुखैः प्रवीणैः प्रकृष्टवीणैर्निपुणैर्वा । `प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः` इत्यमरः (अ.को.3|1|4) । त्रयाणां पुराणां समाहारस्त्रिपुरम् । `तद्धितार्थोत्तरपदे-`त्यादिना समाहारसमासः । `पात्रादिभ्यः प्रतिषेधो वक्तव्यः` इति स्त्रीलिङ्गतानिषेधः । त्रिपुरस्य संबन्ध्यवदानं पूर्ववृत्तं कर्म विजयरुपं त्रिपुरावदानं तत्संगीयमानं स्तूयमानं यस्य स तथोक्तः । `अवदानं कर्म वृत्तम्` इत्यमरः (अ.को.3|1|4) । ध्वान्तं तमः । मोह इति यावत् । तद्विकारेण रागादिना लङ्घ्योऽभिभवनीयो न भवतीत्यध्वान्तविकारलङ्घ्यः । विवाहादिकं तु तस्य लीलेत्यर्थः । ताराधिपखण्डधारी चन्द्रशेखरः शंभुरध्वानं मार्गं ततारात्यगच्छत् अन्वयः: विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुराऽवदानः अध्वान्तविकारलङ्घ्यः ताराऽधिपखण्डधारी अध्वानं ततार ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
विश्वावसुप्राग्रहरैः
Lemma: विश्वावसु
POS: m
विश्वावसुप्राग्रहरैः
Lemma: प्राग्र
POS: n
विश्वावसुप्राग्रहरैः
Lemma: हर
POS: adj
प्रवीणैः
Lemma: प्रवीण
POS: adj
संगीयमानत्रिपुरावदानः
Lemma: संगा
POS: 4. P.
संगीयमानत्रिपुरावदानः
Lemma: त्रिपुर
POS: n
संगीयमानत्रिपुरावदानः
Lemma: अवदान
POS: n
अध्वानम्
Lemma: अध्वन्
POS: m
अध्वान्तविकारलङ्घ्यस्
Lemma: अध्वन्
POS: m
अध्वान्तविकारलङ्घ्यस्
Lemma: अन्त
POS: m
अध्वान्तविकारलङ्घ्यस्
Lemma: विकार
POS: mn
अध्वान्तविकारलङ्घ्यस्
Lemma: लङ्घ्
POS: 1. Ā.
ततार
Lemma: तृ
POS: 3. P. • Verb: ततार
ताराधिपखण्डधारी
Lemma: ताराधिप
POS: m
ताराधिपखण्डधारी
Lemma: खण्ड
POS: mn
ताराधिपखण्डधारी
Lemma: धारिन्
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 7.48. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.47) All Verses in Chapter 7 Next Verse (KS 7.49) →